संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| मलवर्गोष्टादशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - मलवर्गोष्टादशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत मलवर्गोष्टादशः Translation - भाषांतर पाण्डुपलासमिवेदानीमसि यमपुरुषोऽपि चत्वां उपस्थिताः । उद्योगमुखे च तिष्ठसि पाथेयमपि च ते न विद्यते ॥१॥स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव । निर्धूतमलोऽनङ्गणो दिव्यां आर्यभूमिं एष्यसि॥२॥उपनीतवया इदनीमसि सम्प्रयातोऽसि यमस्यान्तिके । वासोऽपि च ते नाऽस्ति अन्तरा पाथेयमपि च ते न विद्यते ॥३॥ स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव । निर्धूतमलोऽनङ्गणो न पुनर्जातिजरे उपेष्यसि ॥४॥ अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । कर्मारो रजतस्येव निर्धमेत् मलमात्मनः ॥५॥ अयस इव मलं समुत्थितं तस्माद् उत्थाय तदेव खादति । एवं अतिधावनचारिणं स्वानि कर्माणि नयन्ति दुर्गतिम् ॥६॥ अस्वाध्यायमला मन्त्रा अनुत्थानमला गृहा । मलं वर्णस्य कौसीद्यं प्रमादो रक्षतो मलम् ॥७॥ मलं स्त्रिया दुश्चरितं मात्सर्यं ददतो मलम् । मलं वै पापका धर्मा अस्मिन् लोके परत्र च ॥८॥ ततो मलं मलतरं अविद्या परमं मलम् । एतत् मलं प्रहाय निर्मला भवत भिक्षवः ॥९॥ सुजीवितं अह्रीकेण काकशूरेण ध्वंसिना । प्रस्कन्दिना प्रगल्भेन संक्लिष्टेन जीवितम् ॥१०॥ ह्रीमता च दुर्जीवितं नित्यं शूचिगवेषिणा । अलीनेनाऽप्रगल्भेन शुद्धाजीवेन पश्यता ॥११॥ यः प्राणमतिपातयति मृषावादं च भाषते । लोकेऽदत्तमादत्ते परदारांश्च गच्छति ॥१२॥ सुरामैरेयपानं च यो नरोऽनुयुनक्ति । इहैवमेष लोके मूलं खनत्यात्मनः ॥१३॥ एवं भो पुरुष ! जानीहि पापधर्माणोऽसंयतान् । मा त्वां लोभोऽधर्मश्च चिरं दुःखाय रन्धेरन् ॥१४॥ ददाति वै यथाश्रद्धं यथा प्रसादनं जनः । तत्र यो मूको भवति परेषां पानभोजने । न स दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥१५॥ यस्य च तत् समुच्छिन्नं मूलघातं समुद्धतम् । स वै दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥१६॥ नाऽस्ति रागसमोऽग्निः नाऽस्ति द्वेषसमो ग्राहः । नाऽस्ति मोहसमं जालं नाऽस्ति तृष्णा समा नदी ॥१७॥ सुदर्शं वद्यमन्येषां आत्मनः पुनर्दुर्दशम् । परेषां हि स वद्यानि अवपुणाति यथातुषम् । आत्मनः पुनः छादयति कलिमिव कितवात् शठः ॥१८॥ परवद्याऽनुदर्शिनो नित्यं उद्ध्यानसंज्ञिनः । आस्रवास्तस्य वर्द्धन्ते आराद् स आस्रवक्षयात् ॥१९॥ आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः । प्रपञ्चाऽभिरताः प्रजा निष्प्रपञ्चास्तथागताः ॥२०॥ आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः । संस्काराः शाश्वता न सन्ति नाऽस्ति बुद्धानामिङ्गितम् ॥२१॥ ॥इति मलवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP