संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| चित्तवर्गस्तृतीयः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - चित्तवर्गस्तृतीयः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत चित्तवर्गस्तृतीयः Translation - भाषांतर स्पन्दनं चपलं चित्तं दुरक्ष्यं दुर्निवार्यम् । ऋजुं करोति मेधावी इषुकार इव तेजनम् ॥१॥ वारिजं इव स्थले क्षिप्तं उदकस्यौकत उद्भूतः । परिस्पन्दत इदं चित्तं मारधेयं प्रहातुम् ॥२॥ दुर्निग्रहस्य लघुनो यत्र- काम- निपातिनः । चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ॥३॥ सुदुर्दृशं सुनिपुणं यत्र- कामनिपाति । चित्तं रक्षेन्मेधावी चित्तं गुप्तं सुखावहम् ॥४॥ दूरङ्गमं एकचरं अशरीरं गुहाशयम् । ये चित्तं संयंस्यन्ति मोक्ष्यन्ते मारबन्धनात् ॥५॥ अनवस्थितचित्तस्य सद्धर्मं अविजानतः । परिप्लवप्रसादस्य प्रज्ञा न परिपूर्यते ॥६॥ अनवस्रुत चित्तस्य अनन्वाहतचेतसः । पुण्यपापप्रहीणस्य नाऽस्ति जाग्रतो भयम् ॥७॥ कुंभोपमं कायमिमं विदित्वा नगरोपमं चित्तमिदं स्थापयित्त्वा । युध्येत मारं प्रज्ञायुधेन जितं च रक्षेदनिवेशनः स्यात् ॥८॥ अचिरं वतायं कायः पृथिवीं अधिशेष्यते । क्षुद्रोऽपेतविज्ञानो निरर्थं इव कलिङ्गरम् ॥९॥ द्विट् द्विषं यत् कुर्यात् वैरी वा पुनर्वैरिणम् । मिथ्याप्रणिहितं चित्तं पापीयांसं एनं ततः कुर्यात् ॥१०॥ न तत् मातापितरौ कुर्यातां अन्ये चापि च ज्ञातिकाः । सम्यक्प्रणिहितं चित्तं श्रेयांसं एनं ततः कुर्यात् ॥११॥ ॥इति चित्तवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP