संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| सहस्रवर्गो अष्टमः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - सहस्रवर्गो अष्टमः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत सहस्रवर्गो अष्टमः Translation - भाषांतर सहस्रमपि चेद् वाचोऽनर्थपदसंहिता । एकमर्थपदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥१॥ सहस्रमपि चेद्गाथा अनर्त्थपदसंहिता । एकं गाथापदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥२॥ यश्च गाथाशतं भाषेतानर्थपदसंहिताः । एकं धर्मपदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥३॥ यः सहस्रं सहस्रेण संग्रामे मानुषान् जयेत् । एकं च जयेद् आत्मानं स वै संग्रामजिदुत्तमः ॥४॥आत्मा ह वै जितः श्रेयान् या चेयमितरा प्रजा । दान्तात्मनः पुरुषस्य नित्यं संयतचारिणः ॥५॥ नैव देवो न गन्धर्वो न मारः सह ब्रह्मणा । जितं अपजितं कुर्यात् तथारूपस्य जन्तोः ॥६॥ मासे मासे सहस्रेण यो यजेत शतं समान् । एकं च भावितात्मानं मुहुर्त्तमपि पूजयेत् । सैव पुजना श्रेयसी यच्चेद् वर्षशतं हुतम् ॥७॥ यश्च वर्षशतं जन्तुरग्निं परिचरेत् वने । एकं च भावितात्मानं मुहुर्त्तमपि पूजयेत् । सैव पूजना श्रेयसी यच्चेत् वर्षशतं हुतम् ॥८॥ यत् किञ्चिद् इष्टं च हुतं च लोके संवत्सरं यजेत पुण्यापेक्षः । सर्वमपि तन्न चतुर्भागमेति अभिवादना ऋजुगतेषु श्रेयसी ॥९॥ अभिवादनशीलस्य नित्त्यं वृद्धापचायिनः । चत्वारो धर्मा वर्धन्ते आयुर्वर्णः सुखं बलम् ॥१०॥ यश्च वर्षशतं जीवेत् दुःशीलोऽसमाहितः । एकाहं जीवितं श्रेयः शीलवतो ध्यायिनः ॥११॥ यश्च वर्षशतं जीवेत् दुष्प्रज्ञोऽसमाहितः । एकाहं जीवितं श्रेयः प्रज्ञावतो ध्यायिनः ॥१२॥ यञ्च वर्षशतं जीवेत् कुसीदो हीनवीर्यः । एकाहं जीवितं श्रेयः वीर्यमारभतो दृढम् ॥१३॥यश्च वर्षशतं जीवेत् अपश्यन् उदयव्ययं एकाहं जीवितं श्रेयः पश्यतः उदयव्ययम् ॥१४॥ यश्च वर्षशतं जीवेत् अपश्यन्नमृतं पदम् । एकाहं जीवितं श्रेयः पश्यतोऽमृतं पदम् ॥१५॥ यञ्च वर्षशतं जीवेदपश्यन् धर्ममुत्तमम् । एकाहं जीवितं श्रेयः पश्यतो धर्ममुत्तमम् ॥१६॥ ॥इति सहस्रवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP