संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| मार्गवर्गः विंशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - मार्गवर्गः विंशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत मार्गवर्गः विंशः Translation - भाषांतर मार्गाणामष्टाङ्गिकः श्रेष्ठः सत्यानां चत्वारि पदानि । विरागः श्रेष्ठो धर्माणां द्विपदानां च चक्षुष्मान् ॥१॥ एष वो मार्गो नाऽस्त्यन्यो दर्शनस्य विशुद्धये । एतं हि यूयं प्रतिपद्यध्वं मारस्यैष प्रमोहनः ॥२॥ एतं हि यूयं प्रतिपन्ना दुःखस्यान्तं करिष्यथ । आख्यातो वै मया मार्गः आज्ञाय शल्य- संस्थानम् ॥३॥ युष्माभिः कार्यं आतप्यं आख्यातारस्तथागताः । प्रतिपन्नाः प्रमोक्ष्यन्ते ध्यायिनो मारबन्धनात् ॥४॥ सर्वे संस्कारा अनित्या इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥५॥ सर्वे संस्कारा दुःखा इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥६॥ सर्वे धर्मा अनात्मान इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥७॥ उत्थानकालेऽनुत्तिष्ठन् युवा बलि आलस्यमुपेतः । संसन्न- सङ्कल्प- मनाः कुसीदः प्रज्ञया मार्गं अलसो न विन्दति ॥८॥ वाचाऽनुरक्षी मनसा सुसंकृतः कायेन चाऽकुशलं न कुर्यात् । एतान् त्रीन् कर्मपथान् विशोधयेत् आराधयेत् मार्गं ऋषिप्रवेदितम् ॥९॥ योगाद् वै जायते भूरि अयोगाद् भूरिसंक्षयः । एतं द्वेधापथं ज्ञात्त्वा भवाय विभवाय च । तथाऽऽत्मानं निवेशयेद् यथाभूरि प्रवर्धते ॥१०॥ वनं छिन्धि मा वृक्षं वनतो जायते भयम् । छित्त्वा वनं च वनथं च निर्वना भवथ भिक्षवः ॥११॥ यावद्धि वनथो न छिद्यतेऽणुमात्रोऽपि नरस्य नारीषु । प्रतिबद्धमनाः नु तावत् स वत्सः क्षीरप इव मातरि ॥१२॥ उच्छिन्धि स्नेहमात्मनः कुमुदं शारदीकमिव पाणिना । शान्तिमार्गमेव बृंहय निर्वाणं सुगतेन देशितम् ॥१३॥इह वर्षासु वसिष्यामि इह हेमन्तग्रीष्मयोः । इति बालो विचिन्तयति अन्तरायं न बुध्यते ॥१४॥ तं पुत्र- पशु- सम्मतं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महौघ इव मृत्युरादाय गच्छति ॥१५॥ न सन्ति पुत्रास्त्राणाय न पिता नाऽपि बान्धवाः । अन्तकेनाधिपन्नस्य नाऽस्ति ज्ञातिषु त्राणता ॥१६॥ एतमर्त्थवशं ज्ञात्वा पण्डितो शीलसंवृतः । निर्वाणगमनं मार्गं क्षिप्रमेव विशोधयेत् ॥१७॥ ॥इति मार्गवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP