संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| लोकवर्गः त्रयोदशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - लोकवर्गः त्रयोदशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत लोकवर्गः त्रयोदशः Translation - भाषांतर हीनं धर्मं न सेवेत प्रमादेन न संवसेत् । मिथ्यादृष्टिं न सेवेत न स्यात् लोकवर्द्धनः ॥१॥ उत्तिष्ठेन्न प्रमाद्येद् धर्मं सुचरितं चरेत् । धर्मचारी सुखं शेतेऽस्मिं लोके परत्र च ॥२॥धर्मं चरेत् सुचरितं न तं दुश्चरितं चरेत् । धर्मचारी सुखं शेतेऽस्मिं लोके परत्र च ॥३॥ यथा बुद्बुदकं पश्येत् यथा पश्येत् मरीचिकाम् । एवं लोकमवेक्षमाणं मृत्युराजो न पश्यति ॥४॥ एन पश्यतेमं लोकं चित्रं राजरथोपमम् । यत्र बाला विषीदन्ति नाऽस्ति सङ्गो विजानताम् ॥५॥ यश्च पूर्वं प्रमाद्य पश्चात् स न प्रमाद्यति । स इमं लोकं प्रभासयति अभ्रान्मुक्त इव चन्द्रमा ॥६॥ यस्य पापं कृतं कर्म कुशलेन पिधीयते । स इमं लोकं प्रभासयति अभ्रान्मुक्त इव चन्द्रमा ॥७॥ अन्धभूतोऽयं लोकः तनुकोऽत्र विपश्यति । शकुनो जालमुक्त इवाल्पः स्वर्गाय गच्छति ॥८॥ हंसा आदित्यपथे यान्ति आकाशे यान्ति ऋद्धिया । नीयन्ते धीरा लोकात् जित्वा मारं सवाहिनीकम् ॥९॥ एकं धर्ममतीतस्य मृषावादिनो जन्तोः । वितीर्णपरलोकस्य नाऽस्ति पापमकार्यम् ॥१०॥ न वै कदर्या देवलोकं व्रजन्ति बाला ह वै न प्रशंसन्ति दानम् । धीरश्च दानं अनुमोदमानस्तेनैव स भवति सुखी परत्र ॥११॥ पृथिव्या एकराज्यात् स्वर्गस्य गमनाद् वा । सर्वलोकाऽऽधिपत्त्याद् स्रोत आपत्तिफलं वरम् ॥१२॥ ॥इति लोकवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP