संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| तृष्णावर्गः चतुर्विंशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - तृष्णावर्गः चतुर्विंशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत तृष्णावर्गः चतुर्विंशः Translation - भाषांतर मनुजस्य प्रमत्तचारिणः तृष्णा वर्द्धते मालुवेव । स प्लवतेऽहरहः फलमिच्छन् इव वने वानरः ॥१॥ यं एषा साहयति जन्मिनी तृष्णा लोके विषात्मिका । शोकास्तस्य प्रवर्द्धन्तेऽभिवर्द्धमानं वीरणम् ॥२॥ यश्चैतां साहयति जन्मिनीं तृष्णां लोके दुरत्ययाम् । शोकाः तस्मात् प्रपतन्त्युदबिन्दुरिव पुष्करात् ॥३॥ तद् वो वदामि भद्रं वो यावन्त इह समागताः । तृष्णाया मूलं खनतोशीरार्थीव वीरणम् ॥४॥ यथाऽपि मूलेऽनुपद्रवे दृढे छिन्नोऽपि वृक्षः पुनरेव रोहति । एवमपि तृष्णाऽनुशयेऽनिहते निर्वर्त्तते दुःखमिदं पुनः पुनः ॥५॥ यस्य षट्त्रिंशत् स्रोतांसि मनापश्रवणानि भूयासुः । वाहा वहन्ति दुर्दृष्टि सङ्कल्पा रागनिःसृताः ॥६॥ स्रवन्ति सर्वतः स्रोतांसि लतोद्भिद्य तिष्ठति । तां च दृष्ट्वा लतां जातां मूलं प्रज्ञया छिन्दत ॥७॥ सरितः स्निग्द्धाश्च सौमनस्या भवन्ति जन्तोः ते स्रोतःसृताः सुखैषिणस्ते वै जातिजरोपगा नराः ॥८॥ तृष्णया पुरस्कृताः प्रजाः परिसर्पन्ति शश इव बद्धः । संयोजनसंगसक्तका दुःखमुपयन्ति पुनः पुनः चिराय ॥९॥ तृष्णया पुरस्कृताः प्रजाः परिसर्पन्ति शश इव बद्धः । तस्मात् तृष्णां विनोदयेद् भिक्षुराकाङ्क्षी विरागमात्मानः ॥१०॥ यो निर्वणार्थी वनाऽधिमुक्तो वनमुक्तो वनमेव धावति । तुं पुद्गलमेव पश्यत मुक्तो बन्धनमेव धावति ॥११॥ न तद् दृढं बन्धनमाहुर्धीरा यद् आयसं दारुजं पर्वजं च । सारवद्- रक्ता मणिकुण्डलेषु पुत्रेषु दारेषु च याऽपेक्षा ॥१२॥ एतद् दृढं बन्धनमाहुर्धीरा अपहारि शिथिलं दुष्प्रमोचम् । एतदपि छित्त्वा परिव्रजन्ति अनपेक्षिणः कामसुखं प्रहाय ॥१३॥ ये रागरक्ता अनुपतन्ति स्रोतः स्वयंकृतं मर्कटक इव जालम् । एतदपि छित्त्वा व्रजन्ति धीरा अनपेक्षिणः सर्वदुःखं प्रहाय ॥१४॥ मुञ्च पुरो मुञ्च पश्चात् मध्ये मुञ्च भवस्य पारगः । सर्वत्र विमुक्तमानसो न पुनः जातिजरे उपैपि ॥१५॥ वितर्कप्रमथितस्य जन्तोः तीव्ररागस्य शुभाऽनुदर्शिनः । भूयः तृष्णा प्रवर्द्धते एष खलु दृढं करोति बन्धनम् ॥१६॥ वितर्कोपशमे च यो रतोऽशुभं भावयते सदा स्मॄतः । एष खलु व्यन्तीकरिष्यति एष छेत्स्यति मारबन्धनम् ॥१७॥ निष्ठांगतोऽसंत्रासी वीततृष्णोऽनंगणः । उत्सृज्य भवशल्यानि अन्तिमोऽयं समुछ्रयः ॥१८॥ वीततृष्णोऽनादानो निरुक्तिपदकोविदो । अक्षराणां सन्निपातं जानाति पूर्वापराणि च । स वै अन्तिमशारीरो महाप्राज्ञ इत्युच्यते॥१९॥ सर्वाभिभूः सर्वविदहमस्मि सर्वेषु धर्मेषु अनुपलिप्तः । सर्वंजहः तृष्णाक्षये विमुक्तः स्वयमभिप्राय कमुद्दिशेयम् ॥२०॥ सर्वदानं धर्मदानं जयति सर्वरसं धर्मरसो जयति । सर्वां रतिं धर्मरतिर्जयति तृष्णाक्षयः सर्वदुःखं जयति ॥२१॥ घ्नन्ति भोग दुर्मेधसं न चेत् पारगवेषिणः । भोगतृष्णया दुर्मेधा हन्त्यन्य इवात्मानः ॥२२॥ तृणदोषाणि क्षेत्राणि रागदोषेयं प्रजा । तस्माद्धि वीतरागेषु दत्तं भवति महाफलम् ॥२३॥ तृणदोषाणि क्षेत्राणि द्वेषदोषेयं प्रजा । तस्माद्धि वीतदोषेषु दत्तं भवति महाफलम् ॥२४॥ तृणदोषाणि क्षेत्राणि मोहदोषेयं प्रजा । तस्माद्धि वीतमोहेषु दत्तं भवति महाफलम् ॥२५॥ तृणदोषाणि क्षेत्राणि इच्छादोषेयं प्रजा । तस्माद्धि विगतेच्छेषु दत्तं भवति महाफलम् ॥२६॥ ॥इति तृष्णावर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP