धर्मपदम् - नागवर्गः त्रयोविंशः
धर्मपदम्
अहं नाग इव संग्रामे चापतः पतितं शरम् । अतिवाक्यं तितिक्षिष्ये दुःह्शीला हि बहुजनाः ॥१॥
दान्तं नयन्ति समितिं दान्तं राजाऽभिरोहति । दान्तः श्रेष्ठा मनुष्येषु योतिवाक्यं तितिक्षसे ॥२॥
वरमश्वतरा दान्ता आजानीयाश्च सिन्धवः । कुञ्जराश्च महानागा आत्मदान्तस्ततो वरम् ॥३॥
न हि एतैर्यानैः गच्छेदगतां दिशम् । यथाऽऽत्मना सुदान्तेन दान्तो दान्तेन गच्छति ॥४॥
धनपालको नाम कुञ्जरः कटकप्रभेदनो दुर्निवार्यः । बद्धः कवलं न भुंक्ते स्मरति नागवनस्य कुञ्जरः ॥५॥
मृद्धो यदा भवति महाघसश्च निद्रायितः सपरिवर्त्तशायी । महावराह इव निवापपुष्टः पुनः पुनः गर्भमुपैति मन्दः ॥६॥ इदं पुरा चित्तमचरत् चारिकां यथेच्छं यथाकामं यथासुखम् । तदद्याऽहं निग्रहिष्यामि योनिशो हस्तिनं प्रभिन्नमिवाङ्कुशग्राहः ॥७॥
अप्रमादरता भवत स्वचित्तमनुरक्षत । दुर्गादुद्धरताऽऽत्मानं पङ्के सक्त इव कुञ्जरः ॥८॥
स चेत् लभेत निपक्वं सहायं सार्द्धं चरन्तं साधुविहारिणं धीरम् । अभिभूय सर्वान् परिश्रयान् चरेत् तेनाऽऽत्तमनाः स्मृतिमान् ॥९॥
न चेत् लभेत निपक्वं सहायं सार्द्धं चरन्तं साधुविहारिणं धीरम् । राजेव राष्ट्रं विजितं प्रहाय एकश्चरेत् मातङ्गोऽरण्य इव नागः ॥१०॥
एकस्य चरितं श्रेयो नाऽस्ति बाले सहायता । एकश्चरेन्न च पापानि कुर्याद् अल्पोत्सुको मातंगोऽरण्य इव नागः ॥११॥
अर्थे जाते सुखाः सहायाः तुष्टिः सुखा या येतरेतरेण । पुण्यं सुखं जीवितसंक्षये सर्वस्य दुःखस्य सुखं प्रहाणम् ॥१२॥
सुखा मात्रीयता लोकेऽथ पित्रीयता सुखा सुखा श्रमणता लोकेऽथ ब्राह्मणता सुखा ॥१३॥
सुखं यावद् जरां शीलं सुखा श्रद्धा प्रतिष्ठिता । सुखः प्रज्ञायाः प्रतिलाभः पापानां अकरणं सुखम् ॥१४॥
॥इति नागवर्गः समाप्तः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP