संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| प्रियवर्गः षोडशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - प्रियवर्गः षोडशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत प्रियवर्गः षोडशः Translation - भाषांतर अयोगे युञ्जन्नात्मानं योगे चायोजयन् । अर्थं हित्त्वा प्रियग्राही स्पृहयेदात्मानुयोगिनम् ॥१॥ मा प्रियैः समागच्छ अप्रियैः कदाचन प्रियाणाम् अदर्शनं दुःखं अप्रियाणां च दर्शनम् ॥२॥ तस्मात् प्रियं न कुर्यात् प्रियापायो हि पापकः । ग्रन्थाः तेषां न विद्यन्ते येषां नाऽस्ति प्रियाप्रियम् ॥३॥ प्रियतो जायते शोकः प्रियतो जायते भयम् । प्रियतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥४॥ प्रेमतो जायते शोकः प्रेमतो जायते भयम् । प्रेमतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥५॥ रत्या जायते शोको रत्या जायते भयम् । रत्या विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥६॥ कामतो जायते शोकः कामतो जायते भयम् । कामतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥७॥ तृष्णाया जायते शोकः तृष्णाया जायते भयम् । तृष्णाया विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥८॥ शीलदर्शनसम्पन्नं धर्मिष्ठं सत्यवादिनम् । आत्मनः कर्म कुर्वाणं तं जनः कुरुते प्रियम् ॥९॥ छन्दजातोऽनाख्याते मनसा च स्फुरितः स्यात् । कामेषु चाऽप्रतिबद्धचित्त ऊर्ध्वस्रोता इत्युच्यते ॥१०॥ चिरप्रवासिनं पुरुषं दूरतः स्वस्त्यागतम् । ज्ञातिमित्राणि सुहृदश्चाऽभिनन्दन्त्यागतम् ॥११॥ तथैव कृतपुण्यमपि अस्माल्लोकात्परं गतम् । पुण्यानि प्रतिगृह्यन्ति प्रियं ज्ञातिभिवागतम् ॥१२॥ ॥इति प्रियवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP