संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| क्रोधवर्गः सप्तदशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - क्रोधवर्गः सप्तदशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत क्रोधवर्गः सप्तदशः Translation - भाषांतर क्रोधं जह्याद् विप्रजह्यात् मानं संयोजनं सर्वमतिक्रमेत । तं नामरूपयोरसज्यमानं अकिञ्चनं नाऽनुपतन्ति दुःखानि ॥१॥ यो वै उत्पतितं क्रोधं रथं भ्रान्तमिव धारयेत् । तमहं सारथिं ब्रवीमि रश्मिग्राह इतरो जनः ॥२॥ अक्रोधेन जयेत् क्रोधं असाधुं साधुना जयेत्। जयेत् कदर्थं दानेन जयेत् सत्येनाऽलीकवादिनम् ॥३॥ सत्यं भणेन्न क्रुध्येत् दद्यादल्पेऽपि याचितः । एतैस्त्रिभिः स्थानैः गच्छेद् देवानामन्तिके ॥४॥ अहिंसका ये मुनयो नित्यं कायेन संवृताः । ते यन्ति अच्युतं स्थानं यत्र गत्वा न शोचन्ति ॥५॥ सदा जाग्रतां अहोरात्रं अनुशिक्षमाणानाम् । निर्वाणं अधिमुक्तानां अस्तं गच्छन्ति आस्रवाः ॥६॥ पुरणमेतद् अतुल नैतद् अद्यतनमेव । निन्दन्ति तुष्णीमासीनं निन्दन्ति बहुभाणिनम् । मितभाणिनमपि निन्दन्ति नाऽस्ति लोकेऽनिन्दितः ॥७॥ न चाऽभूत् न भविष्यति न चैतहिं विद्यते । एकान्तं निन्दितः पुरुषः एकान्तं वा प्रशंसितः ॥८॥ यश्चेद् विज्ञाः प्रशंसन्ति अनुविच्य श्वः श्वः । अच्छिद्रवृत्तिं मेधाविनं प्रज्ञाशीलसमाहितम् ॥९॥ निष्कं जंबूनदस्येव कस्तं निन्दितुमर्हति । देवा अपि तं प्रशंसन्ति ब्रह्मणाऽपि प्रशंसितः ॥१०॥ कायप्रकोपं रक्षेत् कायेन संवृतः स्यात् । कायदुश्चरितं हित्त्वा कायेन सुचरितं चरेत् ॥११॥ वचः प्रकोपं रक्षेद् वाचा संवृतः स्यात् । वचो दुश्चरितं हित्त्वा वाचा सुचरितं चरेत् ॥१२॥ मनः प्रकोपं रक्षेद् मनसा संवृतः स्यात् । मनोदुश्चरितं हित्त्वा मनसा सुचरितं चरेत् ॥१३॥ कायेन संवृता धीरा अथ वाचा संवृताः । मनसा संवृता धीरा ते वै सुपरिसंवृताः ॥१४॥ ॥इति क्रोधवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP