संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - दण्डवर्गः दशमः

धर्मपदम्


सर्वे त्रस्यन्ति दण्डात् सर्वे बिभ्यति मृत्योः । आत्मानं उपमां कृत्वा न हन्यात् न घातयेत् ॥१॥
सर्वे त्रसयन्ति दण्डात् सर्वेषां जिवितं प्रियम् । आत्मानं उपमां कृत्वा न हन्यात् न घातयेत् ॥२॥
सुखकामानि भूतानि यो दण्डेन विहिनस्ति । आत्मनः सुखमन्विष्य प्रेत्त्य स न लभते सुखम् ॥३॥
सुखकामानि भूतानि यो दण्डेन न हिनसति । आत्मनः सुखमन्विष्य प्रेत्त्य स लभते सुखम् ॥४॥
मा वोचः परुषं किञ्चिद् उक्ताः प्रतिवदेयुस्त्वाम् । दुःखा हि संरंभकथा प्रतिदण्डाः स्पृशेयुस्त्वाम् ॥५॥
स चेत् नेरयसि आत्मानं कांस्यमुपहतं यथा । एष प्राप्तोऽसि निर्वाणं संरंभस्ते न विद्यते ॥६॥
यथा दण्डेन गोपालो गाः प्राजयति गोचरम् । एवं जरा च मृत्युश्चायुः प्राजयतः प्राणिनाम् ॥७॥
अथ पापानि कर्माणि कुर्वन् बालो न बुध्यते । स्वैः कर्मभिः दुर्मेधा अग्निदग्ध इव तप्यते ॥८॥
यो दण्डेनाऽदण्डेषु अप्रदुष्टेषु दुष्यति । दशानामन्यतमं स्थानं क्षिप्रमेव निगच्छति ॥९॥
वेदनां परुषां ज्यानिं शरीरस्य च भेदनम् । गुरुकं वाऽप्याबाधं चित्तक्षेपं वा प्राप्नुयात् ॥१०॥
राजतो वोपसर्गं अभ्याख्यानं वा दारुणम् । परिक्षयं वा ज्ञातीनां भोगानां वा प्रभञ्जनम् ॥११॥
अथवाऽस्यागाराणि अग्निर्दहति पावकः । कायस्य भेदात् दुष्प्रज्ञो निरयं स उपपद्यते ॥१२॥
न नग्नचर्या न जटा न पङ्कां नाऽनशनं स्थण्डिलशायिका वा । रजोजलीयं उत्कुटिकाप्रधानं शोधयन्ति मर्त्त्यं अवितीर्णकांक्षम् ॥१३॥
अलङ्कृतश्चेदपि शमं चरेत् शान्तो दान्तो नियतो ब्रह्मचारी । सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमणः स भिक्षुः ॥१४॥
ह्रीनिषेधः पुरुषः कश्चित् लोके विद्यते । यो निन्दां न प्रबुध्यति अश्वो भद्रः कशामिव ॥१५॥
अश्वो यथा भद्रः कशानिविष्ट आतापिनः संवेगिनो भवत । श्रद्धया शीलेन च वीर्येण च समाधिना धर्मविनिश्चयेन च । सम्पन्नविद्याचरणाः प्रतिस्मृताः प्रहास्यथ दुःखमिदं अनल्पकम् ॥१६॥
उदकं हि नयन्ति नेतृकाः इषुकारा नमयन्ति तेजनम् । दारुं नमयन्ति तक्षका आत्मानं दमयन्ति सुव्रताः ॥१७॥
॥इति दण्डवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP