संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| पापवर्गः नवमः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - पापवर्गः नवमः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत पापवर्गः नवमः Translation - भाषांतर अभित्वरेत कल्याणे पापात् चित्तं निवारयेत् । तन्द्रितं हि कुर्वतः पुण्यं पापे रमते मनः ॥१॥ पापं चेत् पुरुषः कुर्यात् न तत् कुर्यात् पुनः पुनः । न तस्मिन् छन्दं कुर्यात् दुःखः पापस्य उच्चयः ॥२॥ पुण्यं चेत् पुरुषः कुर्यात् कुर्यादेतत् पुनः पुनः । तस्मिन् छन्दं कुर्यात् सुखः पुण्यस्य उच्चयः ॥३॥ पापोऽपि पश्यति भद्रं यावत् पापं न पच्यते । यदा च पच्यते पापं अथ पापो पापानि पश्यति ॥४॥ भद्रोऽपि पश्यति पापं यावत् भद्रं न पच्यते । यदा च पच्यते भद्रं अथ भद्राणि पश्यति ॥५॥ माऽवमन्येत पापस्य न मां तद् आगमिष्यति । उदबिन्दुनिपातेन उदकुंभोऽपि पूर्यते । बालः पूरयति पापं स्तोकं स्तोकमप्याचिन्वन् ॥६॥ माऽवमन्येत पुण्यस्य न मां तद् आगमिष्यति । उदबिन्दुनिपातेन उदकुंभोऽपि पूर्यते । धीरः पूरयति पुण्यस्य स्तोकं स्तोकमप्याचिन्वन् ॥७॥ वाणिगिव भयं मार्गं अल्पसार्थो महाधनः । विषं जीवितुकाम इव पापानि परिवर्जयेत् ॥८॥ पाणौ चेद् व्रणो न स्याद् हरेत् पाणिना विषम् । नाऽव्रणं विषमन्वेति नाऽस्ति पापं अकुर्वतः ॥९॥ योऽल्पदुष्टाय नराय दुष्यति शुद्धाय पुरुषायाऽनङ्गनाय । तमेव बालं प्रत्येति पापं सूक्ष्मो रजः प्रतिवातमिव क्षिप्तम् ॥१०॥ गर्भमेक उत्पद्यन्ते निरयं पापकर्मिणः । स्वर्गं सुगतयो यान्ति परिनिर्वान्त्यनास्रवाः ॥११॥ नान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य । न विद्यते स जगति प्रदेशो यत्रस्थितो मुच्येत पापकर्मणः ॥१२॥नान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य । न विद्यते स जगति प्रदेशो यत्रस्थितं न प्रसहेत मृत्युः ॥१३॥ ॥इति पापवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP