संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - पुष्पवर्गश्चतुर्त्थः

धर्मपदम्


क इमां पृथिवीं विजेष्यते यमलोकं चेमं सदेवकम् । को धर्मपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यति ॥१॥
शैक्षः पृथवीं विजेष्यते यमलोकं च इमं सदेवकम् । शैक्षो धर्मपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यति ॥२॥
फेनोपमं कायमिमं विदित्वा मरीचिधर्मं अभिसंबुधानः । छित्वा मारस्य प्रपुष्पकाणि अदर्शनं मृत्युराजस्य गच्छेत् ॥३॥
पुष्पाणि ह्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महोघ इव मृत्युरादाय गच्छति ॥४॥
पुष्पाणि ह्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् । अतृप्तमेव कामेषु अन्तकः कुरुते वशम् ॥५॥
यथापि भ्रमरः पुष्पं वर्णगन्धं अघ्नन् । पलायते रसमादाय एवं ग्रामे मुनिश्चरेत् ॥६॥
न परेषां विलोमानि न परेषां कृताकृतम् । आत्मनं एव अवेक्षेत कृतान्यकृतानि च ॥७॥
यथापि रुचिरं पुष्पं वर्णवदगन्धकम् । एवं सुभाषिता वाक् सफला भवति कुर्वतः ॥८॥
यथापि रुचिरं पुष्पं वर्णवत् सगन्धकम् । एवं सुभाषिता वाक् सफला भवति कुर्वतः ॥९॥
यथापि पुष्पराशेः कुर्यात् मालागुणान् बहून् । एवं जातेन मर्त्त्येन कर्त्तव्यं कुशलं बहु ॥१०॥
न पुष्पगन्धः प्रतिवातमेति न चन्दनं तगरमल्लिके वा । सताञ्च गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाति ॥११॥
चन्दनं तगरं वापि उत्पलं अथ वार्षिकी । एतेषां गन्धजातानां शीलगन्धोऽनुत्तरः ॥१२॥
अल्पमात्रोऽयं गन्धो योऽयं तगरचन्दनी । यश्च शीलवतां गन्धो वाति देवेषु उत्तमः ॥१३॥
तेषां सम्पन्नशीलानां अप्रमाद- विहारिणाम् । सम्यग्ज्ञानविमुक्त्तानां मारो मार्गं न विन्दति ॥१४॥
यता सङ्कारधाने उज्झिते महापथे । पद्म तत्र जायेत शुचिगन्धं मनोरमम् ॥१५॥
एवं सङ्कारभूते अन्धभूते पृथग्जने । अतिरोचते प्रज्ञया सम्यक्- संबुद्ध- श्रावकः ॥१६॥
॥इति पुष्पवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP