धर्मपदम् - ब्राह्मणवर्गः षड्विंशः
धर्मपदम्
छिन्धि स्रोतः पराक्रम्य कामान् प्रणुद ब्राह्मण ॥ संस्कारणां क्षयं ज्ञात्वाऽकृतज्ञोऽसि ब्राह्मण ॥१॥
यदा द्वयोर्धर्मयोः पारगो भवति ब्राह्मणः ॥ अथाऽस्य सर्वे संयोगा अस्तं गच्छन्ति जानतः ॥२॥
यस्य पारं अपारं वा पारापारं न विद्यते ॥ वीतदरं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥३॥
ध्यायिनं विरजमासीनं कृतकृत्यं अनास्रवम् ॥ उत्तमार्थमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥४॥
दिवा तपत्यादित्यो रात्रावाभाति चन्द्रमाः ॥ अथ सर्वमहोरात्रं बुद्धस्तपति तेजसा ॥५॥
वाहितपाप इति ब्राह्मणः समचर्यः श्रमण इत्युच्यते ॥ प्रव्राजयन्नाऽऽत्मनो मलं तस्मात् प्रव्रजित इत्युच्यते ॥६॥
न ब्राह्मणं प्रहरेत् नाऽस्मै मुञ्चेद् ब्राह्मणः ॥ धिग् ब्राह्मणस्य हन्तारं ततो धिग् यस्मै मुञ्चति ॥७॥
न ब्राह्मणस्यैतद् अकिञ्चित् श्रेयो यदा निषेधो मनसा प्रियेभ्यः ॥ यतो यतो हिंस्रमनो निवर्तते ततस्ततः शाम्यत्येव दुःखम् ॥८॥
यस्य कायेन वाचा मनसा नाऽस्ति दुष्कृतम् ॥ संवृतं त्रिभिः स्थानैः तमहं ब्रवीमि ब्राह्मणम् ॥९॥
यस्माद् धर्मं विजानीयात् सम्यक्- संबुद्ध- देशितम् ॥ सत्कृत्य तं नमस्येद् अग्निहोत्रमिव ब्राह्मणः ॥१०॥
न जटाभिर्न गोत्रेण न जात्या भवति ब्राह्मणः ॥ यस्मिन् सत्यं च धर्मस्च स शुचिः स च ब्राह्मणः ॥११॥
किं ते जटाभिः दुर्मेधः किं तेऽजिनशाट्या ॥ आभ्यन्तरं ते गहनं बाह्यं परिमार्जयसि ॥१२॥
पांशुकूलधरं जन्तुं कृशं धमनिसन्ततम् ॥ एकं वने ध्यायन्तं तमहं ब्रवीमि ब्राह्मणम् ॥१३॥
भो वादी नाम स भवति स वै भवति सकिञ्चनः ॥ अकिञ्चनमनादानं तमहं ब्रवीमि ब्राह्मणम् ॥१४॥
सर्वसंयोजनं छित्त्वा यो वै न परित्रस्यति ॥ संगातिगं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥१५॥
छित्वा नन्दिं वरत्रां च सन्दानं सहनुक्रमम् ॥ उत्क्षिप्तपरिघं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥१६॥
आक्रोशन् वधबन्धं चादुष्टो यस्तितिक्षति ॥ क्षान्तिबलं बलानीकं तमहं ब्रवीमि ब्राह्मणम् ॥१७॥
अक्रोधनं व्रतवन्तं शीलवन्तं अनुश्रुतम् ॥ दान्तमन्तिमशारीरं तमहं ब्रवीमि ब्राह्मणम् ॥१८॥
वारि पुष्करपत्र इवाराग्रे इव सर्षपः ॥ यो न लिप्यते कामेषु तमहं ब्रवीमि ब्राह्मणम् ॥१९॥
यो दुःखस्य प्रजानातीहैव क्षयमात्मनः ॥ पन्नभारं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥२०॥
गंभीरप्रज्ञं मेधाविनं मार्गामार्गस्य कोविदम् ॥ उत्तमार्थमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥२१॥
असंसृष्टं गृहस्थैः अनागारैश्चोभाभ्याम् ॥ अनोकःसारिणं अल्पेच्छं तमहं ब्रवीमि ब्राह्मणम् ॥२२॥
निधाय दण्डं भूतेषु त्रसेषु स्थावरेषु च ॥ यो न हन्ति न घातयति तमहं ब्रवीमि ब्राह्मणम् ॥२३॥
अविरुद्धं विरुद्धेषु आत्तदण्डेषु निर्वृतम् ॥ सादानेष्वनादानं तमहं ब्रवीमि ब्राह्मणम् ॥२४॥
यस्य रागश्च द्वेषश्च मानो म्रक्षश्च पातितः ॥ सर्षप इवाऽऽराग्रात् तमहं ब्रवीमि ब्राह्मणम् ॥२५॥
अकर्कशां विज्ञापनीं गिरं सत्त्यामुदीरायेत् ॥ यथा नाऽभिषजेत् किञ्चित् तमहं ब्रवीमि ब्राह्मणम् ॥२६॥
य इह दीर्घं वा हृस्वं वाऽणुं स्थूलं शुभाऽशुभम् ॥ लोकेऽदत्तं नादत्ते तमहं ब्रवीमि ब्राह्मणम् ॥२७॥
आशा यस्य न विद्यन्तेऽस्मिन् लोके परस्मिन् च ॥ निराशयं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥२८॥
यस्याऽऽलया न विद्यन्त आज्ञायाऽकथंकथी ॥ अमृतावगाधमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥२९॥
य इह पुण्यं च पापं चोभयोः संगं उपात्यगात् ॥ अशोकं विरजं शुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥३०॥
चन्द्रमिव विमलं शुद्धं विप्रसन्नमनाविलम् ॥ नन्दीभवपरीक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥३१॥
तीर्णः पारगतो ध्याय्यनेजोऽकथंकथी ॥ अनुपादाय निर्वृतः तमहं ब्रवीमि ब्राह्मणम् ॥३२॥
य इह कामान् प्रहायाऽनागारः परिव्रजेत् ॥ कामभवपरिक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥३३॥
य इह तृष्णां प्रहायाऽनागारे परिव्रजेत् ॥ तृष्णाभवपरिक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥३४॥
हित्त्वा मानुषकं योगं दिव्यं योगमुपात्यगात् ॥ सर्वयोगविसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥३५॥
हित्त्वा रतिञ्चारतिञ्च शीतीभूतं निरूपधिम् ॥ सर्वलोकाऽभिभुवं वीरं तमहं ब्रवीमि ब्राह्मणम् ॥३६॥
च्युतिं यो वेद सत्त्वानां उपत्तिं च सर्वशः ॥ असक्तं सुगतं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥३७॥
यस्य गतिं न जानन्ति देव- गन्धर्व- मानुषाः ॥ क्षीणास्रवं अर्हन्तं तमहं ब्रवीमि ब्राह्मणम् ॥३८॥
यस्य पुरश्च पश्चाच्च मध्ये च नाऽस्ति किञ्चन ॥ अकिञ्चनमनादानं तमहं ब्रवीमि ब्राह्मणम् ॥३९॥
ऋषभं प्रवरं वीरं महर्षिं विजितवन्तम् ॥ अनेजं स्नातकं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥४०॥
पूर्वनिवासं यो वेद स्वर्गापाऽयं च पश्यति अथ जातिक्षयं प्राप्तोऽभिज्ञाव्यवसितो मुनिः ॥ सर्वव्यवसितव्यवसानं तमहं ब्रवीमि ब्राह्मणम् ॥४१॥
॥इति ब्राह्मणवर्गः समाप्तः ॥
॥इति धर्मपदं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP