संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.३ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.३ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.३ Translation - भाषांतर षट्काष्टकं ह्यष्टकमष्टकं च शोध्यं विमर्द्यं च यथोदितं तत् ।वज्रादिलोहान्तकमुक्तपूर्वं तद्वक्ष्यते सूतवरस्य सिद्ध्यै ॥३.१॥{वज्रः: सुब्त्य्पेस्}श्वेता रक्ताः पीतकृष्णा द्विजाद्या वज्रजातयः ।पुंस्त्रीनपुंसकाश्चेति लक्षणेन तु लक्षयेत् ॥३.२॥{पुंवज्रः: परीक्षा}वृत्ताः फलकसम्पूर्णास्तेजस्वन्तो बृहत्तराः ।पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥३.३॥{स्त्रीवज्रः: परीक्षा}रेखाबिन्दुसमायुक्ताः षडस्रास्ताः स्त्रियः स्मृताः ।{नपुंसकः: परीक्षा}त्रिकोणं पत्त्रदेहं यद्दीर्घं यत्स्यान्नपुंसकम् ॥३.४॥सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः ।स्त्रीवज्रा देहसिद्ध्यर्थं क्रामकं स्यान्नपुंसकम् ॥३.५॥{दिव्यौषधि}अजामारी काकमाची देवदालीन्द्रवारुणी ।काकजङ्घा शिखिशिखा सर्पाक्षी नागवल्लिका ॥३.६॥मीनाक्षी कृष्णधत्तूरो बला नागवल्ली जया ।मुण्डी महाबला पूगी त्रिविधं चित्रकं निशा ॥३.७॥मूर्वा काञ्चाननं कन्या पेटारी सूर्यवर्तकः ।विष्णुक्रान्ता कारवल्ली वाकुची सिन्दुवारिका ॥३.८॥स्वर्णपुष्पी खण्डजारी मञ्जिष्ठा पीलुकं वचा ।स्नुही रक्तस्नुही बिल्वं कार्पासः कंगुणी घना ॥३.९॥पलाशाङ्कोलविजया मेघनादार्कसर्षपाः ।ब्रह्मदण्डी महाराष्ट्री श्वेता रक्ता पुनर्नवा ॥३.१०॥उदुम्बरसोमलता कुम्भी पुष्करमूलकम् ।तिलपर्णी कृष्णजीरा वृश्चिकाली च कालिका ॥३.११॥करवीरोऽग्निदमनी बृहती भूमिपाटली ।यवचिञ्ची चन्द्रलता मर्कटी वनराजकम् ॥३.१२॥बदरी लज्जरी लाक्षा चणा वर्तुलपत्रका ।अपामार्गो भूकदम्बो विषमुष्ट्येकवीरकः ॥३.१३॥गोरम्भा कदली जाती मुसली सहदेविका ।एरण्डः सैन्धवं पथ्या शुंठी मण्डूकपर्णिका ॥३.१४॥मरूवको हिंगु वालो लक्ष्मणा हस्तिमूलिका ।क्षीरवृक्षाश्च ये सर्वे तथा नानाविधं विषम् ॥३.१५॥दिव्यौषधिगणः ख्यातो रसराजस्य साधने ।व्यस्तं वाथ समस्तं वा यथालाभं नियोजयेत् ॥३.१६॥{विषवर्गः}तीव्रगन्धरसस्पर्शैर्विविधैस्तु वनोद्भवैः ।मर्दनात्स्वेदनात्सूतो म्रियते बध्यतेऽपि च ॥३.१७॥रक्तशृङ्गी कालकूटं हारिद्रं सक्तूकं तथा ।मौस्तिकं विषवर्गः स्यात्मूषाकरणमुच्यते ।{वज्रमूषाः: प्रोदुच्तिओन्}तुषं वस्त्रं समं दग्धं तत्पादांशा च मृत्तिका ।कूपीपाषाणपादं च वज्रवल्ल्या द्रवैर्दिनम् ॥३.१८॥मर्दयेत्कारयेन्मूषां वज्राख्यां रसबन्धकाम् ।{वज्रमूषा (२)}वल्मीकमृत्तिकाङ्गाराः पुराणं लोहकिट्टकम् ॥३.१९॥श्वेतपाषाणकं चैतत्सर्वं चूर्ण्यं समं समम् ।सर्वतुल्यं तुषं दग्धं सर्वं तोयैश्च मर्दयेत् ॥३.२०॥मूषासंपुटकं कुर्यात्सन्धिं लिप्याच्च तेन वै ।सर्वकार्यकरा एषा वज्रमूषा महाबला ॥३.२१॥{वज्रमूषा (३)}गारा दग्धास्तुषा दग्धा दग्धा वल्मीकमृत्तिका ।गजाश्वानां मलं दग्धं यावत्तत्कृष्णतां गतम् ॥३.२२॥पाषाणभेदीपत्राणि कृष्णा मृच्च समं समम् ।वज्रवल्ल्या द्रवैर्मर्द्यं दिनं वा शोषयेद्दृढम् ॥३.२३॥तेन कोष्ठं वङ्कनालं वज्रमूषां च कारयेत् ।वर्तुला गोस्तनाकारा वज्रमूषा प्रकीर्तिता ॥३.२४॥मूर्छने मारणे बन्धे द्वंद्वमेलापके हिता ।सैव छिद्रान्विता मध्यगम्भीरा सारणोचिता ॥३.२५॥प्रकटा शरावकाकारा बीजनिर्वापणे हिता ।{वज्रः: मारण}सूतं धान्याभ्रकं तुल्यं दिनं पुनर्नवाद्रवैः ।मर्दितं तप्तखल्वे तु वज्रमूषान्धितं पचेत् ॥३.२६॥चिञ्चाबीजं मेषशृंगी स्त्रीपुष्पं चाम्लवेतसम् ।पञ्चाङ्गं शरपुङ्खायाः शशदन्ताः शिलाजतु ॥३.२७॥एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत् ।स्नुह्यर्कोन्मत्तवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् ॥३.२८॥तद्गोलके क्षिपेद्वज्रं रुद्ध्वा मूषां धमेद्दृढम् ।गुडूचीं सैन्धवं हिंगु समुस्तोत्तरवारुणीम् ॥३.२९॥क्वाथैः कौलत्थकैः पिष्ट्वा तस्मिन्द्रावे निषेचयेत् ।तद्वज्रं पूर्ववद्गोले क्षिप्त्वा रुद्ध्वा धमेत्तथा ॥३.३०॥सेचनान्तं पुनः कुर्यादेकविंशतिवारकम् ।तालमत्कुणयोगेन सप्तवारं पुनर्धमेत् ॥३.३१॥सेचयेदश्वमूत्रेण तद्वज्रं म्रियते ध्रुवम् ।{वज्रः: मारण}त्रिवर्षरूढकार्पासमूलमादाय पेषयेत् ॥३.३२॥त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ।तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ॥३.३३॥एवं सप्तपुटैः पक्व एकैकेन मृतो भवेत् ।{वज्रमारणं (६)}तालकासीससौराष्ट्रयोर्ह्यपामार्गस्य भस्म च ॥३.३४॥पिष्ट्वा कौलत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम् ।क्षिप्त्वा त्रिसप्तवाराणि म्रियते नात्र संशयः ॥३.३५॥{वज्रमारणं (७)}वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम् ।तद्गोलके क्षिपेद्वज्रमन्धमूषागतं धमेत् ॥३.३६॥सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत् ।रुद्ध्वा ध्मातं पुनः सेच्यमेवं कुर्यात्त्रिसप्तकम् ॥३.३७॥म्रियते नात्र सन्देहः सर्वकर्मसु योजयेत् ।{वज्रमारणं (८)}उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम् ॥३.३८॥क्षणं पिष्ट्वा तु तद्गोले वज्रं क्षिप्त्वा पचेदनु ।नृतैले गन्धतैले वा म्रियते नात्र संशयः ॥३.३९॥{वज्रमारणं (९)}भूनागं गन्धकं वाथ नारीस्तन्येन पेषयेत् ।तद्गोलस्य पचेद्वज्रं पूर्वतैले मृतं भवेत् ॥३.४०॥{वज्रमारणं (१०)}स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत् ।वज्रं निरुध्य मूषां तां शुष्कां तीव्राग्निना धमेत् ॥३.४१॥तप्तमश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत् ।इत्येवं सप्तधा कार्यं ततस्तालकमत्कुणाः ॥३.४२॥कृत्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च ।धामितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् ॥३.४३॥{वज्रमारणं (११)}वज्रं मत्कुणरक्तेषु क्षिप्त्वा लिप्त्वातपे क्षिपेत् ।शुष्कं लेप्यं पुनः शोष्यं यावत्सप्तदिनावधि ॥३.४४॥विष्णुक्रान्तापेटकार्योर्द्रवैः सिञ्चेत्पुनः पुनः ।तप्तं तप्तं तु तद्वज्रं शतवारान्मृतं भवेत् ॥३.४५॥{वज्रमारणं (१२)}गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा ।पुनः स्त्रीरजसालोड्य तस्मिन्वज्रं सुतापितम् ॥३.४६॥सेचयेत्तापयेदेवं मृतं स्यात्तु त्रिसप्तधा ।{वज्रः: मृदूकरण}मातुलुङ्गगतं वज्रं रुद्ध्वा बाह्ये मृदा लिपेत् ।पचेत्पुटे समुद्धृत्य तद्वच्छतपुटैः पचेत् ॥३.४७॥नागवल्ल्या द्रवैर्लिप्तं तत्पत्रेणैव वेष्टितम् ।जानुमध्यस्थितं यामं तद्वज्रं मृदुतां व्रजेत् ॥३.४८॥{वज्रौदनं वज्रमृदूकरणं (२)}मातृवाहकजीवस्य मध्ये वज्रं विनिक्षिपेत् ।जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत् ॥३.४९॥कुलत्थकोद्रवक्वाथैस्त्रैफले वा कषायके ।अहोरात्रात्समुद्धृत्य जम्बीरे तु पुनः क्षिपेत् ॥३.५०॥मातृवाहकजीवे वा क्षिप्त्वा पक्त्वा च पूर्ववत् ।पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत् ॥३.५१॥बदरीवटनिम्बानां अङ्कुराणि समाहरेत् ।पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत् ॥३.५२॥अश्वत्थपत्रकैर्वेष्ट्यं तद्गोलं जानुमध्यगम् ।दिनं वा धारयेत्कक्षे मृदुर्भवति निश्चितम् ॥३.५३॥{वज्रमृदूकरणं (३)}पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् ।तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः ॥३.५४॥नागवल्लीद्रवैश्चैव वेष्टितं धान्यराशिगम् ।मासान्ते तत्समुद्धृत्य नागवल्ल्या द्रवैर्लिपेत् ।तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् ॥३.५५॥{वज्रमृदूकरणं (४)}कान्तपाषाणवज्रं वा चूर्णं वा कान्तलोहजम् ॥३.५६॥ससूतं अम्लयोगेन दिनमेकं विमर्दयेत् ।तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोलजैः ॥३.५७॥पत्रैः पिष्टैस्तु संवेष्ट्य नागवल्लीदलैस्ततः ।वेष्ट्यं तज्जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत् ॥३.५८॥{वर्जमृदूकरणं (५)}एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् ।मासमात्रात्समुद्धृत्य जानुमध्ये तु पूर्ववत् ॥३.५९॥कोमलं जायते वज्रं दिनान्ते नात्र संशयः ।{वज्रमृदूकरणं (६)}वज्रं तित्तिरमांसेन वेष्टयेन्निक्षिपेन्मुखे ॥३.६०॥अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् ।निखनेद्धस्तमात्रायां भूमौ मासात्समुद्धरेत् ॥३.६१॥मण्डूकसंपुटे रुद्ध्वा सम्यग्गजपुटे पचेत् ।तद्वज्रं पूर्वगोलस्थं जानुमध्ये गतं दिनम् ॥३.६२॥भवेद्वज्रौदनं साक्षान्मार्यं पश्चाच्च योजयेत् ।सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत् ॥३.६३॥{वैक्रान्तशोधनम्}त्रिक्षारैः पञ्चलवणैर्वसामूत्राम्लकोद्रवैः ।मत्स्यपित्तैस्तैलघृतैः कुलत्थैः काञ्जिकान्वितैः ॥३.६४॥सप्ताहं दोलकायन्त्रे व्याघ्रीकन्दगतं पचेत् ।सप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम् ॥३.६५॥{उपरसानां शोधनम्}जम्बीराणां द्रवे मग्नमातपे धारयेद्दिनम् ।शुध्यन्ति टङ्कणं शंखो वराटाञ्जनगैरिकम् ।कासीसं भूखगं चैव शुद्धं योगेषु योजयेत् ॥३.६६॥{गन्धकशुद्धिः (१)}यामैकं गन्धकं मर्द्यं द्रवैर्निम्बाजगन्धयोः ।शृङ्गीधत्तूरयोर्वाथ तिलपर्ण्याश्च वा द्रवैः ।तदादाय घृतैस्तुल्यं लोहपात्रे क्षणं पचेत् ॥३.६७॥लघ्वग्निना द्रुतं तद्वै अजाक्षीरे विनिक्षिपेत् ।इत्येवं सप्तधा कुर्याच्छुद्धिमायाति गन्धकम् ॥३.६८॥{गन्धकशोधनं (२)}करञ्जैरण्डतैलं च छागीदुग्धं च भाण्डके ॥३.६९॥क्षिप्त्वा तस्य मुखं रुद्ध्वा स्वच्छवस्त्रेण बुद्धिमान् ।गन्धकं धूर्तजैर्द्रावैर्दिनं भाव्यं विशोषयेत् ॥३.७०॥तच्चूर्णं पूर्वभाण्डस्य वस्त्रोपरि निधारयेत् ।आच्छाद्य च शरावेण पृष्ठे देयं पुटं लघु ॥३.७१॥द्रुतं गन्धं समादाय भाव्यं धत्तूरजैर्द्रवैः ।तद्वद्द्राव्यं पुनर्भाव्यं द्रावयेच्च पुनस्ततः ॥३.७२॥आदाय मत्स्यपित्तेन सप्तधा भाव्यमातपे ।ततः कोशातकीबीजचूर्णेन सह पेषयेत् ॥३.७३॥भावयेद्भृङ्गजैर्द्रावैः सप्ताहं आतपे खरे ।तोयेन क्षालितं शोष्यं ततो मृद्वग्निना क्षणम् ॥३.७४॥घृताक्ते लोहपात्रे तु द्रावितं ढालयेत्ततः ।भृङ्गराजद्रवान्तस्थं सम्यक्शुद्धं भवेत्तु तत् ॥३.७५॥{गन्धतैल}अथ शुद्धस्य गन्धस्य तैलपातनमुच्यते ।अम्लपर्णी देवदाली दाडिमं मातुलुङ्गकम् ॥३.७६॥नारङ्गं वा यथालाभं द्रवमेकस्य चाहरेत् ।गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ॥३.७७॥एताभ्यां गन्धकं भाव्यं घर्मे वारत्रयं पुनः ।धत्तूरस्तुलसी कृष्णा लशुनं देवदालिका ॥३.७८॥शिग्रुमूलं काकमाची कर्पूरं शङ्खपुष्पिका ।कृष्णागुरु च कस्तूरी वन्ध्याकर्कोटकी समम् ॥३.७९॥मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ।अनेन लोहपात्रस्थं भावयेत्पूर्वगन्धकम् ॥३.८०॥त्रिवारं क्षौद्रतुल्यं तज्जायते गन्धवर्जितम् ।इदं गन्धकतैलं स्यात्तत्तद्योगेषु योजयेत् ॥३.८१॥{हरितालशुद्धिः (१)}सचूर्णेणारनालेन दोलायन्त्रेण तालकम् ।दिनं पक्वं विचूर्ण्याथ भाव्यं कूष्माण्डजैर्द्रवैः ॥३.८२॥शोष्यं पेष्यं पुनर्भाव्यं शतवारं विशुद्धये ।{हरितालशुद्धिः (२)}तालकं कणशः कृत्वा तालात्पादांशटङ्कणम् ॥३.८३॥द्वयं जम्बीरजैर्द्रावैः क्षालयेत्काञ्जिकैस्तथा ।तच्छुष्कं पोटलीबद्धं सचूर्णे काञ्जिके पचेत् ॥३.८४॥द्विदिनं दोलकायन्त्रे तद्वत्कूष्माण्डजैर्द्रवैः ।पाचितं शुद्धिमायाति तालं सर्वत्र योजयेत् ॥३.८५॥{विमलशुद्धिः}सुवर्णवर्णं विमलं ताप्यं वा कणशः कृतम् ।पुनर्नवायाः कल्कस्थं कौलत्थे स्वेदयेज्जले ॥३.८६॥सैन्धवैर्बीजपूराक्तैर्युक्तं वा पोटलीकृतम् ।दोलायन्त्रे दिनं स्वेद्यं शुद्धिमायाति निश्चितम् ॥३.८७॥{रसकशुद्धिः}रजस्वलारजोमूत्रै रसकं भावयेद्दिनम् ।तैरेव दिनमेकं तु मर्दयेच्छुद्धिं आप्नुयात् ॥३.८८॥{उपरसः: शोधन}पुनर्नवामेघनादकपिजम्बीरतिन्दुकैः ।अगस्तिपुष्पकुमुदयवचिञ्चाम्लवेतसैः ॥३.८९॥यवसूरणभूधात्रीमाण्डूकीकरवीरकैः ।कारवल्लीक्षीरकन्दरक्तोत्पलशमीवनैः ॥३.९०॥मेषशृङ्ग्या चोष्ट्रवसाशक्रवारुणिटङ्कणैः ।तैलमत्स्यवसाव्योषैर्द्रवैरेतैः सकाञ्जिकैः ॥३.९१॥एतैः समस्तैर्व्यस्तैर्वा दोलायन्त्रे दिनत्रयम् ।अभ्रपत्राद्युपरसान्शुद्धिहेतोस्तु पाचयेत् ॥३.९२॥{उपरसः: शोधन}सूर्यावर्तो वज्रकन्दः कदली देवदालिका ।शिग्रुः कोशातकी वन्ध्या काकमाची च वालुकम् ॥३.९३॥आसामेकरसेनैव त्रिक्षारपटुपञ्चकम् ।भावयेदम्लवर्गेण तीव्रघर्मे दिनावधि ॥३.९४॥एतत्कल्केन संलेप्यमभ्रकं वज्रमाक्षिकम् ।वैक्रांतं सस्यकं तालं कान्तपाषाणं अञ्जनम् ॥३.९५॥विमलां च शिलां तुत्थमन्यानुपरसांस्तथा ।दोलायन्त्रे सारनाले पूर्वकल्कयुते पचेत् ।तीव्रानले दिनैकेन शुद्धिमायान्ति तानि वै ॥३.९६॥{धान्याभ्रकरणम्}शुद्धमभ्रं भिन्नपत्रं कृत्वा व्रीहियुते दृढे ।वस्त्रे बद्ध्वा सारनाले भाण्डमध्ये विमर्दयेत् ॥३.९७॥हस्ताभ्यां स्वयमायाति यावदम्लान्तरे तु तत् ।द्रवं त्यक्त्वा तु तच्छोष्यं दिनं धान्याभ्रकं भवेत् ॥३.९८॥{अभ्रः: मारणः: निश्चन्द्र}एतद्धान्याभ्रकं मर्द्यं भानुदुग्धैर्दिनावधि ।कृत्वा पूपं भानुपत्रैर्वेष्टितं पाचयेत्पुटे ॥३.९९॥इत्येवं दशधा पाच्यं दुग्धैर्भाव्यं पुनः पुनः ।ततो वटजटाक्वाथैर्मर्द्यं दशपुटैः पचेत् ॥३.१००॥सघृतैर्महिषीक्षीरैर्मर्द्यं देयं पुटत्रयम् ।निश्चन्द्रं जायते ह्यभ्रं योजनीयं रसायने ॥३.१०१॥{अभ्रकभस्म (२)}पुनर्नवाद्यौषधानि ख्यातानि ह्यभ्रशोधने ॥३.१०२॥धान्याभ्रकं तु तैरेव त्रिदिनं तु पुटे पचेत् ।पूर्ववत्क्रमयोगेन म्रियते पञ्चभिः पुटैः ॥३.१०३॥{मेतल्सः: शोधन}तैले तक्रे गवां मूत्रे काञ्जिके रविदुग्धके ।कुलत्थानां कषाये च जम्बीराणां द्रवे तथा ॥३.१०४॥तप्त्वा तप्त्वा निषिञ्चेदेकैकस्मिंस्तु सप्तधा ।स्वर्णादिलोहपत्राणि शुद्धिमायान्ति निश्चितम् ॥३.१०५॥{लेअद्, तिनः: शोधन}द्राविते नागवङ्गे च पचेत्तद्वद्विशुद्धये ।{ब्रोन्ज़े, चोप्पेरः: शोधन}त्रिक्षारं पंचलवणं जम्बीराम्लेन सप्तधा ॥३.१०६॥भावयेदातपे तीव्रे तत्कल्केन विलेप्य च ।घोषारताम्रपत्राणां शुद्ध्यै गजपुटे पचेत् ॥३.१०७॥{लेअदः: मारण}लोहपात्रे पचेन्नागं तुल्यं यावद्द्रुतं भवेत् ।चाल्यं पलाशदण्डेन भस्मीभूतं समुद्धरेत् ॥३.१०८॥भस्मतुल्यां शिलां तस्मिन्क्षिप्त्वा चाम्लेन केनचित् ।पेषयेद्याममात्रं तु रुद्ध्वा गजपुटे पचेत् ॥३.१०९॥स्वाङ्गशीतं पुनः पिष्ट्वा विंशत्यंशशिलायुतम् ।अम्लेन याममात्रं च रुद्ध्वा पचेच्च पूर्ववत् ।एवं षष्टिपुटैः पक्वो मृतो भवति पन्नगः ॥३.११०॥{इरोन्(गेन्.):: मारण}नारीस्तन्येन सम्पिष्टं हिङ्गूलं पलपञ्चकम् ॥३.१११॥तेन लोहस्य पत्राणि लेपयेत्पलपञ्चकम् ।रुद्ध्वा गजपुटे पच्यात्कषायैस्त्रैफलैः पुनः ॥३.११२॥जम्बीरैरारनालैर्वा विंशांशदरदेन च ।पिष्ट्वा रुद्ध्वा पुटेल्लोहं तद्वत्पाच्यं पुनः पुनः ॥३.११३॥चत्वारिंशत्पुटैरेव तीक्ष्णं कान्तं च मुण्डकम् ।म्रियते नात्र संदेहो दत्त्वा दत्त्वैव हिङ्गुलम् ॥३.११४॥{वङ्गभस्म}लोहपात्रे द्रुते वङ्गे पादांशं तालकं क्षिपेत् ।चाल्यं अश्वत्थदण्डेन जातं भस्म समुद्धरेत् ॥३.११५॥तद्भस्म हरितालं तु तुल्यमम्लेन मर्दयेत् ।पलाशकद्रवैर्वाथ यामान्ते चोद्धृतं पुटेत् ॥३.११६॥उद्धृत्य दशमांशेन तालेन सह मर्दयेत् ।पूर्वद्रावैस्तु यामैकं रुद्ध्वा गजपुटे पचेत् ।चत्वारिंशत्पुटैरेवं पक्वं स्यान्मृतवङ्गकम् ॥३.११७॥{चोप्पेरः: मारण}कण्टवेधीकृतं ताम्रपत्रं तुल्यांशगन्धकैः ॥३.११८॥अम्लपिष्टैः प्रलिप्याथ रुद्ध्वा गजपुटे पचेत् ।उद्धृत्य चूर्णयेत्तस्मिन्पादांशं गन्धकं क्षिपेत् ॥३.११९॥जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटेत्पुनः ।एवं चतुःपुटैः पच्याद्गन्धो देयः पुटे पुटे ॥३.१२०॥मातुलुङ्गद्रवैरेवं पुटमेकं प्रदापयेत् ।सितशर्करया पञ्चपुटं देयं मृतं भवेत् ॥३.१२१॥{सिल्वेरः: मारण}माक्षिकेनाम्लपिष्टेन तत्तुल्यं तारपत्रकम् ।लिप्त्वा रुद्ध्वा पुटे पक्त्वा समुद्धृत्य विचूर्णयेत् ॥३.१२२॥कणामाक्षिकसिन्धूत्थभूधात्र्यश्च समं समम् ।पूर्वचूर्णेन तुल्यांशमिदमम्लेन मर्दयेत् ॥३.१२३॥रुद्ध्वा गजपुटे पच्यात्तैरेव मर्दयेत्पुटेत् ।एवं सप्तपुटैः पक्वं तारं भस्मत्वमाप्नुयात् ॥३.१२४॥{गोल्दः: मारण}मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् ।पिष्ट्वा तेन समांशेन स्वर्णपत्राणि लेपयेत् ॥३.१२५॥रुद्ध्वा गजपुटे पक्त्वा समुद्धृत्य विचूर्णयेत् ।तस्मिन्नेवं मृतं नागमष्टमांशेन लेपयेत् ॥३.१२६॥यामैकं मर्दयेदम्लै रुद्ध्वा गजपुटे पचेत् ।एवमष्टपुटैः पक्वं मृतं भवति हाटकम् ।{ब्रस्स्, ब्रोन्ज़ेः: मारण}आरे घोषे प्रकर्तव्यं ताम्रवन्मारणं परम् ॥३.१२७॥विविधपरमयोगैर्युक्तिर्युक्तैः प्रसिद्धैरनुभवपथदृष्टैः शोधनं मारणं च ।पविबलिगगनानां सर्वलोहे विशेषाद्गदितमिह हितार्थं वार्तिकानां विभूत्यै ॥३.१२८॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP