संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.९ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.९ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.९ Translation - भाषांतर वज्रेण हेममिलितेन तु रञ्जितेन सूतेन हेममिलितेन सुरञ्जितेन ।योगैः सुसुन्दरतरैः कनकाद्रिकूटं कृत्वाथ शक्रपदहेतुमखांश्च कुर्यात् ॥९.१॥{द्वन्द्वमेलापन}अयस्कांतमुखं गुंजां तयोर्द्विगुणगंधकम् ।स्त्रीस्तन्यैः पेषितं लेप्यं मूषायां द्वंद्वमेलकम् ॥९.२॥{द्वन्द्वमेलनः: वज्र}गंधशशदन्ताश्च भ्रामकस्य मुखं तथा ।अम्लवेतसः शिलाधातुः सर्वं तुल्यं प्रपेषयेत् ॥९.३॥मूषालेपेन तेनैव वज्रद्वंद्वं मिलत्यलम् ॥९.४॥{वज्रद्वन्द्वमेलापन (३)}महिषीकर्णनेत्रोत्थमलं चूर्णं च टंकणम् ।स्त्रीस्तन्यं कर्कटास्थीनि शिलाजतु समं समम् ।पिष्ट्वा मूषां प्रलेपेन वज्रद्वन्द्वेषु मेलकम् ॥९.५॥{वज्रद्वन्द्वमेलापन (४)}भ्रमरास्थिनृकेशांश्च टंकणं कांतजं मुखम् ।बालवत्सपुरीषं च स्त्रीस्तन्येन तु पेषयेत् ।तत्कल्कलिप्तमूषायां वज्रद्वंद्वं मिलत्यलम् ॥९.६॥{वज्रसूतमेलापन}भूनागं कांतपाषाणं माक्षिकं टंकणं मधु ।स्नुक्पयःकर्कटास्थीनि काचमर्कपयः समम् ॥९.७॥स्त्रीस्तन्यैः पेषितं सर्वं मूषालेपं तु कारयेत् ।तन्मध्यस्थं वज्रसूतं हठाद्ध्माते मिलत्यलम् ॥९.८॥{स्वर्णवज्रमेलापन (द्वन्दखोट)}मृतवज्रस्य चत्वारो भागा द्वादशहाटकम् ।नागस्य च त्रयो भागाः षट्शुद्धस्य च पारदात् ॥९.९॥एकीकृत्य तु तन्मर्द्यं दिनमम्लेन केनचित् ।तप्तखल्वे तु तत्कल्कं समुद्धृत्य निरोधयेत् ॥९.१०॥मूषायां द्वन्द्वलिप्तायां हठाद्ध्माते मिलत्यलम् ॥९.११॥{स्वर्णवज्रमेलापन (२)}क्षारैरुत्पलसारिण्या मृतं वज्रं विभावयेत् ।दिनैकं शोधितं पिष्टं एकैकां कारयेद्वटीम् ॥९.१२॥त्रिभागं पारदं चैव भागाश्चत्वारि हाटकम् ।अम्लेन कारयेत्पिष्टीं तद्गर्भे तां क्षिपेद्वटीम् ॥९.१३॥भूर्जपत्रेण तद्बद्ध्वा धान्यराशौ विनिक्षिपेत् ।पक्षमात्रात्समुद्धृत्य पूर्वमूषागतं धमेत् ॥९.१४॥मिलत्येव न संदेहो धाम्यमानं पुनः पुनः ॥९.१५॥{स्वर्णवज्रमेलापन (द्वन्द्वखोट, २)}मृतवज्रस्य भागैकं स्वर्णपत्रेण वेष्टयेत् ।सम्यक्षोडशभागेन मूषायां पूर्ववत्क्षिपेत् ॥९.१६॥स्वर्णतुल्यं सितं काचं अथवा नृकपालकम् ।चूर्णयित्वा क्षिपेत्तस्यां रुद्ध्वा तीव्राग्निना धमेत् ॥९.१७॥समुद्धृत्य पुनर्देयं काचं वा नृकपालकम् ।लिप्त्वा मूषां धमेत्तदेवं मूषासु सप्तसु ॥९.१८॥हेम्ना मिलति तद्वज्रं इत्येवं मेलयेत्पुनः ।यावन्मिलति पादांशं सुवर्णे मृतवज्रकम् ॥९.१९॥{चोप्पेर्=> गोल्द्}द्विभागं द्वंद्वखोटस्य त्रिभागं द्रुतसूतकम् ।मर्दयेदम्लयोगेन दिनान्ते तं च गोलकम् ॥९.२०॥मेषशृंग्यास्तु पञ्चाङ्गं स्त्रीस्तन्येन तु पेषयेत् ।अनेन वेधयेद्गोलं तद्बहिर्निगलेन च ॥९.२१॥स्वेदादिमेलनान्तं च कारयेद्धेमपिष्टिवत् ।मेषशृंगीभवैः क्षारैस्तत्खोटं मर्दयेत्क्षणम् ॥९.२२॥मूषान्तर्लेपयेत्तेन तत्तुल्यं हाटकं क्षिपेत् ।यावज्जीर्णं धमेत्तावत्पुनः स्वर्णं च दापयेत् ॥९.२३॥जारयेद्धमनेनैव दत्त्वा विडवटीं क्रमात् ।एवं विंशगुणं यावत्तावत्स्वर्णं च जारयेत् ॥९.२४॥स्वर्णेन तु समावर्त्य सारणात्रययोगतः ।तेनैव वेधयेच्छुल्बं सहस्रांशेन कांचनम् ।जायते दिव्यरूपाढ्यं जांबूनदसमप्रभम् ॥९.२५॥{सितस्वर्ण => गोल्द्}वज्रमूषागतं ध्मातं द्वंद्वखोटं हठाग्निना ।माक्षिकाद्धौतसत्त्वं वा सत्त्वं वा माक्षिकोद्भवम् ॥९.२६॥स्तोकं स्तोकं क्षिपेत्तस्मिन्ध्माते जीर्णे पुनः पुनः ।यावत्तत्कुंकुमाभं स्यात्तावद्वज्रं समुद्धरेत् ॥९.२७॥लक्षांशेन तु तेनैव सितहेमं तु वेधयेत् ।जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥९.२८॥{सितस्वर्ण => गोल्द्}वैक्रांतं माक्षिकं तुत्थं रसकाञ्जनगैरिकम् ।विमला चैव वैडूर्यं एतेष्वेकं पलार्धकम् ॥९.२९॥नागबंगार्ककेष्वेकं यथालाभं पलार्धकम् ।द्वंद्वचूर्णं ततो रुद्ध्वा वज्रमूषागतं धमेत् ॥९.३०॥पूर्ववद्गंधकाम्लेन मर्द्यं रुद्ध्वा पुटे पचेत् ।चतुर्दशपुटैरेवं बालार्कसदृशं भवेत् ॥९.३१॥अनेन वज्रखोटं तु यथापूर्वं तु रञ्जयेत् ।तद्वद्वध्यं सितं हेम लक्षांशात्कांचनं भवेत् ॥९.३२॥अथवा द्वंद्वखोटं तु सूक्ष्मचूर्णं तु कारयेत् ।एतत्खोटं शुद्धचूर्णं अंधमूषागतं धमेत् ॥९.३३॥आरोटरसतस्तुल्यं जम्बीरैर्मर्दयेत्दिनम् ।वस्त्रे बद्ध्वा दिनं स्वेद्यं दोलायंत्रे सकांजिके ॥९.३४॥सवस्त्रं पाचयेत्पश्चाद्गन्धतैले दिनावधि ।ततो वस्त्रात्समुद्धृत्य निगडेन तुले पचेत् ॥९.३५॥स्वेदादिधमनान्तं च कारयेद्धेमपिष्टिवत् ।तत्खोटं तु समुद्धृत्य रञ्जयेत्तन्निगद्यते ॥९.३६॥तीक्ष्णं शुल्बं समं चूर्ण्य अंधमूषागतं धमेत् ।तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ॥९.३७॥चूर्णं रुद्ध्वा धमेद्गाढं तत्खोटं मर्दयेत्पुनः ।पूर्ववद्गंधकाम्लेन पुटान्दद्याच्चतुर्दश ॥९.३८॥अनेन पूर्वखोटं तु मूषामध्ये च पूर्ववत् ।यावत्कुंकुमवर्णं स्यात्तावद्वारं शनैः शनैः ॥९.३९॥स्वर्णेन च समावर्त्य सारणात्रयसारितम् ।अनेन लक्षभागेन द्रुतं शुल्वं तु वेधयेत् ॥९.४०॥जायते कनकं दिव्यं सत्यं शंकरभाषितम् ॥९.४१॥{मेर्चुर्यः: रेद्भस्मन्}कर्षैकं द्रुतसूतस्य ह्यष्टगुंजं तु हाटकम् ।चतुर्गुंजं मृतं वज्रं हंसपाद्या द्रवैर्दिनम् ॥९.४२॥मर्दयेत्तप्तखल्वे तु वज्रमूषान्धितं पचेत् ।भूधराख्यपुटैकेन समुद्धृत्याथ मर्दयेत् ॥९.४३॥हंसपाद्या द्रवैरेवं तप्तखल्वे दिनावधि ।पूर्ववद्भूधरे पच्यादेवं शतपुटैः पचेत् ॥९.४४॥रक्तवर्णं भवेद्भस्म सर्वयोगेषु योजयेत् ॥९.४५॥{मेर्चुर्यः: जारणः: ओफ़् अभ्र}द्रवैर्वर्तुलपत्रायाः सोमवल्ल्या द्रवैश्च वा ।धान्याभ्रं सप्तधा भाव्यं ततो जारणमारभेत् ॥९.४६॥गोस्तनाकारमूषायां सूतं शुद्धं विनिक्षिपेत् ।पूर्वाभ्रं षोडशांशं च मूषायां चणकद्रवैः ॥९.४७॥वालुकाभाण्डमध्ये तु चुल्ल्यां मृद्वग्निना पचेत् ।अभ्रके चणकद्रावं जीर्णे जीर्णे क्षिपेत्पुनः ॥९.४८॥इत्येवं जारयेत्तुल्यं पारदे गगनं क्रमात् ।{अभ्रः: पिष्टी}सोमवल्लीरसैर्यामं मर्द्यं धान्याभ्रकं ततः ॥९.४९॥रुद्ध्वा वनोत्पलैर्दद्यात्क्रमादेवं पुटत्रयम् ।सप्तधा भावयेद्घर्मे सोमवल्ल्या द्रवैर्दिनम् ॥९.५०॥श्वेतायाः शरपुङ्खाया मूलैर्गोक्षीरघर्षितैः ।कल्कितैर्मृण्मयं पात्रं लिप्त्वा तत्राभ्रकं क्षिपेत् ॥९.५१॥तन्मध्ये निक्षिपेत्सूतं तत्पृष्ठे चाभ्रकं पुनः ।सोमवल्लीद्रवैः पूर्वं तत्पात्रं चातपे खरे ॥९.५२॥धारयेच्चरते दीर्घं जायते व्योमपिष्टिका ।{चोप्पेर्=> गोल्द्; कोटिवेध}पूर्वोक्ता गन्धपिष्टी या स्तम्भिता जारणं विना ॥९.५३॥तथा ह्यभ्रकपिष्टी च अभ्रसत्त्वं तृतीयकम् ।चतुर्थं रक्तभस्मापि पूर्वं वज्रेण यत्कृतम् ॥९.५४॥चत्वारः प्रतिकर्षांशं जारितं पारदं पलम् ।सर्वमेतत्तप्तखल्वे हंसपाद्या द्रवैर्दिनम् ॥९.५५॥मर्दितं तत्समुद्धृत्य पचेत्कच्छपयंत्रके ।यावत्सूतावशेषं तु तावज्जार्यं पुटेन वै ॥९.५६॥अस्य सूतस्य तुल्यांशं वज्रद्वंद्वं नियोजयेत् ।दोलास्वेदेन पक्तव्यं यावद्भवति गोलकम् ॥९.५७॥जारयेत्कच्छपे यंत्रे यावत्सूतावशेषितम् ।इत्येवं षड्गुणं जार्यं वज्रद्वंद्वं प्रयत्नतः ॥९.५८॥तेनैव वज्रद्वंद्वेन सारयेत्सारणात्रयम् ।अनेन कोटिभागेन द्रुतं शुल्बं तु वेधयेत् ।जायते कनकं दिव्यं देवाभरणभूषणम् ॥९.५९॥{चन्द्रार्क => गोल्द्}भागैकं मृतवज्रस्य शुद्धसूतस्य षोडश ।मर्दयेदम्लवर्गेण तप्तखल्वे दिनावधि ॥९.६०॥पक्वबीजस्य पत्राणि तुल्यान्येतेन लेपयेत् ।सुपक्वभानुपत्रैस्तु लिप्तपत्राणि वेष्टयेत् ॥९.६१॥शरावसंपुटे रुद्ध्वा निखनेच्चुल्लिमध्यतः ।त्रिदिनं ज्वालयेत्तत्र वह्निमल्पाल्पशः क्रमात् ॥९.६२॥ततो निगडलिप्तायां मूषायां तेन रोधयेत् ।कारीषवह्निना पच्यातहोरात्रात्समुद्धरेत् ॥९.६३॥मधुना मर्दयेत्किंचित्ततस्तेन शतांशतः ।लिप्त्वा चन्द्रार्कपत्राणि ह्यंधमूषागतं धमेत् ।स्वर्णं भवति रूपाढ्यं सत्यं शंकरभाषितम् ॥९.६४॥{चोप्पेर्=> गोल्द्}मृतवज्रस्य भागैकं भागैकं हाटकस्य च ।त्रिभागं द्रुतसूतस्य सर्वं स्तन्येन मर्दयेत् ॥९.६५॥तद्गोलं बन्धयेद्वस्त्रे गन्धतैले त्र्यहं पचेत् ।ततस्तुल्येन स्वर्णेन समावर्तं तु कारयेत् ॥९.६६॥दत्त्वा विडवटीं चैव एकविंशतिवारकम् ।एकविंशगुणे जीर्णे सारयेत्सारणात्रयम् ॥९.६७॥सहस्रांशेन तेनैव शुल्बे वेधं प्रदापयेत् ।जायते कनकं दिव्यं देवाभरणभूषणम् ॥९.६८॥{सिल्वेर्, चोप्पेर्=> गोल्द्}शुद्धसूतं मृतं वज्रं हंसपाद्या द्रवैः समम् ।मर्दयेत्तप्तखल्वे तु त्रिदिनान्ते समुद्धरेत् ॥९.६९॥बीजैर्दिव्यौषधानां च पिष्ट्वा मूषां प्रलेपयेत् ।तत्र पूर्वरसं क्षिप्त्वा रुद्ध्वा तत्करिषाग्निना ॥९.७०॥समुद्धृत्य पुनस्तस्मिन्शुद्धसूतं समं क्षिपेत् ।हंसपाद्या द्रवैर्मर्द्यं पूर्ववद्दिवसत्रयम् ॥९.७१॥तद्गोलं पूर्वमूषायां रुद्ध्वा गजपुटे पचेत् ।जायते भस्म सूतोऽयं सर्वकर्मसु योजयेत् ॥९.७२॥अस्य तुल्यं शुद्धसूतं सूतपादं च टंकणम् ।सर्वमम्लैर्दिनं मर्द्यं कृत्वा गोलं समुद्धरेत् ॥९.७३॥रक्तकार्पासयोर्बीजं राजिका यवचिञ्चिका ।वन्ध्याकर्कोटकी चैव पिष्ट्वा गोलं प्रलेपयेत् ॥९.७४॥ऊर्ध्वाधो लवणं दत्त्वा रुद्ध्वा मूषां विशोषयेत् ।कारीषाग्नौ दिवारात्रौ पाचयित्वा समुद्धरेत् ॥९.७५॥पूर्वकल्केन तद्गोलं क्षिप्त्वा रुद्ध्वाथ पूर्ववत् ।पुटे पच्याद्दिवारात्रौ एवं कुर्याच्च सप्तधा ॥९.७६॥ततस्तेनैव कल्केन लिप्त्वा रुद्ध्वाथ शोषयेत् ।सम्यग्गजपुटे पच्यात्ततो मूषागतं धमेत् ॥९.७७॥शतमांशेन तेनैव चन्द्रार्कौ वेधयेद्द्रुतम् ।जायते कनकं दिव्यं देवाभरणभूषणम् ॥९.७८॥{चन्द्रार्क => गोल्द्}अथवा भस्मसूतं तत्कार्यं टंकणसंयुतम् ।अंधमूषागतं ध्मातं खोटं भवति शोभनम् ॥९.७९॥खोटतुल्यं शुद्धहेम सर्वमेकत्र द्रावयेत् ।चन्द्रार्कं वेधयेत्तेन पूर्ववत्कांचनं भवेत् ॥९.८०॥{शतवेधिकल्कः तारे ताम्रे}वज्रभस्म स्नुहीक्षीरैर्दिनं एकं विमर्दयेत् ।रुद्ध्वा गजपुटे पच्यातेवं शतपुटैः पचेत् ॥९.८१॥तत्तुल्यं पारदं शुद्धं क्षिप्त्वा मर्द्यं दिनत्रयम् ।देवदाल्या द्रवैरेवं तद्गोलं चान्धितं पुटेत् ॥९.८२॥कारीषाग्नौ दिवारात्रौ समुद्धृत्याथ मर्दयेत् ।देवदाल्या द्रवैस्त्र्यहं तद्वद्रुद्ध्वा पुटे पचेत् ॥९.८३॥एवं दशपुटैः पाच्यं वज्रतुल्यं च हाटकम् ।क्षिप्त्वा कांचनकद्रावैर्मर्दयेद्दिवसत्रयम् ॥९.८४॥पूर्ववत्पुटपाकेन एवं दशपुटैः पचेत् ।स्वर्णतुल्यं ततस्तीक्ष्णं चूर्णं कृत्वा नियोजयेत् ॥९.८५॥मर्दयेत्त्रिफलाद्रावैस्तत्सर्वं दिवसत्रयम् ।पुटयेत्पूर्वयोगेन एवं दशपुटैः पचेत् ॥९.८६॥तीक्ष्णतुल्यं मृतं नागं दत्त्वा सर्वं विमर्दयेत् ।वासारक्ताश्वमारोत्थद्रावैः खल्वे दिनत्रयम् ॥९.८७॥रुद्ध्वा गजपुटे पच्यात्पुनर्मर्द्यं च पाचयेत् ।एवं दशपुटैः पक्वं समुद्धृत्याथ मर्दयेत् ॥९.८८॥अम्लवर्गेण तत्सर्वं मर्द्यं यामचतुष्टयम् ।रुद्ध्वा गजपुटे पच्यात्पुनर्मर्द्यं च पाचयेत् ॥९.८९॥एवं दशपुटैः पाच्यं सिन्दूरसदृशं भवेत् ।अनेन शतमांशेन चन्द्रार्कं वेधयेद्द्रुतम् ॥९.९०॥अथवा मधुनाक्तेन चन्द्रार्कौ लेपयेत्ततः ।जायते कनकं दिव्यं पुटे दत्ते न हीयते ॥९.९१॥अथवा तारपत्राणि मधुनाक्तेन लेपयेत् ।चतुःषष्टितमांशेन दिव्यं भवति कांचनम् ॥९.९२॥{चन्द्रार्क => गोल्द्(शतवेधिकल्कः)}चतुःषष्टिगुणं सूतं भागैकं मृतवज्रकम् ।मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥९.९३॥भागत्रयं हेमपत्रं अनेनैव प्रलेपयेत् ।रुद्ध्वाथ भूधरे पच्यात्समुद्धृत्याथ मर्दयेत् ॥९.९४॥शुद्धेन सूतराजेन त्रिगुणेन च संयुतम् ।अम्लवर्गैस्त्र्यहं मर्द्यं रुद्ध्वाथ भूधरे पुटेत् ॥९.९५॥पुनर्मर्द्यं पुनः पाच्यं एकविंशतिवारकम् ।अनेन शतमांशेन चंद्रार्कं मधुना सह ॥९.९६॥लिप्त्वा रुद्ध्वा धमेद्गाढं दिव्यं भवति काञ्चनम् ॥९.९७॥{सिल्वेर्=> गोल्द्(षोडशवेधिकल्कः)}पूर्वोक्तभस्मसूतेन अम्लपिष्टेन लेपयेत् ।चतुर्गुणं स्वर्णपत्रं रुद्ध्वा गजपुटे पचेत् ।पादांशेन पुनस्तस्मिन्भस्मसूतं नियोजयेत् ॥९.९८॥मर्दयेदम्लवर्गेण तद्वद्रुद्ध्वा पुटे पचेत् ।एवं चतुःपुटैः पक्वं म्रियते हाटकं शुभम् ॥९.९९॥तेनैव षोडशांशेन द्रुतं तारं तु वेधयेत् ।अथवा पत्रलेपेन दिव्यं भवति कांचनम् ॥९.१००॥{चोप्पेर्=> गोल्द्; शतवेधिकल्कः}मृतवज्रस्य भागैकं शुद्धसूतस्य षोडश ।देवदालीशङ्खपुष्पीरसैर्मर्द्यं दिनत्रयम् ॥९.१०१॥वज्रमूषागतं रुद्ध्वा दिनैकं भूधरे पचेत् ।समुद्धृत्याथ तद्द्रावैर्दिनं मर्द्यं निरुध्य च ॥९.१०२॥दिनैकं भूधरे पच्यात्तद्वन्मर्द्यं च पाचयेत् ।इत्येवं सप्तधा कुर्याज्जायते भस्मसूतकम् ॥९.१०३॥तद्भस्मसूतकं तुल्यं वज्रमूषान्धितं धमेत् ।तत्खोटं जायते दिव्यं रञ्जयेत्तन्निगद्यते ॥९.१०४॥तीक्ष्णं शुल्बं समं चूर्ण्य अंधमूषागतं धमेत् ।तत्खोटं सिद्धचूर्णं तु गंधकाम्लेन मर्दयेत् ॥९.१०५॥पूर्ववत्क्रमयोगेन पुटान्दद्याच्चतुर्दश ।अनेन पूर्वखोटं तु द्रुतं वाप्यं पुनः पुनः ॥९.१०६॥तद्भस्म गंधकं तुल्यं वज्रमूषान्धितं धमेत् ।दशवारेण तत्खोटं जायते कुंकुमप्रभम् ॥९.१०७॥स्वर्णेन च त्रिधा सार्यं शतवेधी भवेच्च तत् ।द्रुतशुल्बे प्रदातव्यं दिव्यं भवति कांचनम् ॥९.१०८॥{तारारिष्ट => गोल्द्(सहस्रवेधिकल्कः)}पूर्वोक्तं भस्मसूतं तु पलैकं समपन्नगम् ।कांतपात्रगतं मर्द्यं दिनैकं लोहमुष्टिना ॥९.१०९॥मृद्वग्निना तु तत्पात्रे मर्दयेत्पाचयेच्छनैः ।यावन्मिश्रं समुद्धृत्य रुद्ध्वा गजपुटे पचेत् ॥९.११०॥मर्द्यं वासारसैः पच्यादेवं वारचतुर्दश ।गोपित्तेन पुनर्मर्द्यं देयं पुटचतुर्दश ॥९.१११॥तत्तुल्यं स्वर्णचूर्णं च दत्त्वा पित्तेन मर्दयेत् ।दिनान्ते तत्समुद्धृत्य क्रामणेन समायुतम् ॥९.११२॥सहस्रांशेन तेनैवं तारारिष्टं तु वेधयेत् ।जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥९.११३॥नागस्थाने यदा बंगं पूर्ववत्क्रमयोगतः ।तारचूर्णेन संयुक्तं शुल्बे वेधं प्रदापयेत् ।सहस्रांशेन तत्तारं भवेत्कुंदेन्दुसन्निभम् ॥९.११४॥{चोप्पेर्=> गोल्द्}द्रुतसूतेन वज्रेण वज्रैः शुद्धरसेन वा ।मृतसूतेन वज्रेण वज्रैः शुद्धरसेन वा ॥९.११५॥दिव्ययोगवरैः खोटं पूर्वं नानाविधं तु यत् ।प्रोक्तं तत्खोटमेकं तु द्रावयेत्पिष्टिखोटवत् ॥९.११६॥द्रुतं तु पारदं दिव्यं मृत्युदारिद्र्यनाशनम् ।अथास्य द्रुतसूतस्य जारयेत्पक्वबीजकम् ॥९.११७॥क्रमेण षड्गुणं यावत्कच्छपाख्ये विडान्विते ।वक्ष्यमाणप्रकारेण व्योमसत्त्वं यथा जरेत् ॥९.११८॥जारितं तत्त्रिधा सार्यं पक्वबीजेन वै क्रमात् ।अनेन कोटिमांशेन द्रुतशुल्बं तु वेधयेत् ॥९.११९॥जायते कनकं दिव्यं देवाभरणभूषणम् ॥९.१२०॥{वज्रः: द्रावण}अथास्य कोटिवेधस्य रसेन्द्रस्यापरो विधिः ।विष्णुक्रान्ता च चक्राङ्का कण्टारी चैव चिञ्चिका ॥९.१२१॥एतासां द्रवमादाय मूषालेपं तु कारयेत् ।तस्यां पूर्वरसं क्षिप्त्वा धमेद्द्रावं क्षिपन्क्षिपन् ॥९.१२२॥वज्रं तत्रैव दातव्यं द्रवत्येव न संशयः ।{मेर्चुर्यः: शब्दवेधिन्}ततस्तस्मात्समुद्धृत्य दोलायंत्रे त्र्यहं पचेत् ॥९.१२३॥उद्धृत्य विडलिप्तायां मूषायां प्रकटं धमेत् ।ग्रसन्त्येव न संदेहस्तीव्रध्मातानलेन च ॥९.१२४॥वज्रं वा पद्मरागं वा जार्यं दशगुणे रसे ।कारयेद्वज्रबीजेन शब्दवेधी भवेद्रसः ॥९.१२५॥{सप्फिरेः: द्रावण}अथवा मारिते तस्मिन्जारणं सारयेत्पुनः ।उच्चटा मीननयना सर्पाक्षी रक्तचित्रकम् ॥९.१२६॥एतासां निक्षिपेद्द्रावं द्रुते मूषागते रसे ।इन्द्रनीलं क्षिपेत्तत्र द्रवत्येव न संशयः ॥९.१२७॥{सप्फिरेः: => खेचरी}पूर्ववत्स्वेदनेनैव विडयोगेन जारयेत् ।इत्येवं त्रिगुणं जार्यं इन्द्रनीलं क्रमेण तु ॥९.१२८॥तद्रसं वक्त्रमध्ये तु यः करोति नरोत्तमः ।स पूज्यो देवदेवानां खेचरत्वेन मोदते ॥९.१२९॥तस्य मूत्रपुरीषाभ्यां सर्वलोहानि कांचनम् ।जायते दिव्यरूपाढ्यं सत्यं शंकरभाषितम् ॥९.१३०॥इत्येवं विष्टिखोटं परिरसं अपरं संकरैः खोटबद्धं जातं तद्द्रावितं वै मृतमथ विमलं स्वर्णराशिं करोति ।किंवा सा पक्वबीजं ग्रसति यदि द्रुतो जायते कोटिवेधी वज्राभ्रं रत्नजातं चरति यदि रसः खेचरत्वं प्रदत्ते ॥९.१३१॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP