संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.१२ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.१२ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.१२ Translation - भाषांतर समुखविमुखसूते जारणार्थं प्रवक्ष्ये विविधसुलभयोगैर्भोजनं गंधकस्य ।तदनु च घनचूर्णैर्भोजनं पाचनं स्यात्निखिलसूतविभूत्यै वार्तिकानां सुखाय ॥१२.१॥{मेर्चुरः: जारण ओफ़् सुल्फ़ुर्}गंधकं सूक्ष्मचूर्णं तु सप्तधा बृहतीद्रवैः ।भावयेद्वाथ वृन्ताकरसेनैव तु सप्तधा ॥१२.२॥पलैकं पारदं शुद्धं काचकूप्यन्तरे क्षिपेत् ।कर्षकं भावितं गंधं कर्पूरं माषमात्रकम् ॥१२.३॥क्षिप्त्वा तत्र मुखं रुद्ध्वा मृदा कूपीं च लेपयेत् ।दीपाग्निना दिनं पच्यान्मुखमुद्घाटयेत्पुनः ॥१२.४॥जीर्णे गंधं च कर्पूरं दत्त्वा तद्वच्च जारयेत् ।एवं शतगुणे जीर्णे गंधकं जारयेद्रसे ॥१२.५॥{मेर्चुर्यः: जारण ओफ़् सुल्फ़ुर्}कासीसं चैव सौराष्ट्री सज्जीक्षारेण मोदकम् ।शिग्रुतोयेन संयुक्तं कृत्वा भाव्यमनेन वै ॥१२.६॥सप्ताहं चूर्णितं गंधं तं गंधं जारयेत्पुनः ।इष्टिकागर्तमध्ये तु सम्यक्शुद्धरसं क्षिपेत् ॥१२.७॥मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः ।दशांशं गंधकं दत्त्वा श्रावकेण निरोधयेत् ॥१२.८॥पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् ।एवं शतगुणं जार्यं गंधकं पारदे शनैः ॥१२.९॥{मेर्चुर्यः: जारण ओफ़् पक्वबीज}तं रसं तप्तखल्वे तु क्षिपेद्वस्त्रेण गालितम् ।पादांशकं पक्वबीजं दत्त्वाम्लैर्मर्दयेद्दिनम् ॥१२.१०॥तं क्षिपेच्चारणायन्त्रे जंबीररससंयुतम् ।तं यंत्रं धारयेद्घर्मे जारितो जायते रसः ॥१२.११॥{मेर्चुर्यः: जारण ओफ़् पक्वबीज}सविडं कलयेद्यंत्रे दिनैकं तु पुटे पचेत् ।जारितं स्यात्पुनर्बीजं दत्त्वा जार्यं च पूर्ववत् ।जारयेच्च पुनस्तद्वदेवं जार्यं समं क्रमात् ॥१२.१२॥{मेर्चुर्यः: सारणा wइथ्पक्वबीज}जारितं सारणायन्त्रे क्षिपेत्तैलं वसान्वितम् ।द्रावितं नालमूषायां पक्वबीजरसान्वितम् ॥१२.१३॥तद्यंत्रे धारयेदेवं सारितो जारयेद्रसः ।सारितं तत्पुनर्मर्द्यं पूर्ववद्बिडसंयुतम् ॥१२.१४॥जारयेत्कच्छपे यंत्रे जीर्णे बीजे तु सारयेत् ।पूर्ववत्सारणायन्त्रे बीजेन द्विगुणेन वै ॥१२.१५॥पुनस्तं जारयेत्तद्वत्तथैव प्रतिसारयेत् ।त्रिगुणेन तु बीजेन पूर्ववज्जारयेत्पुनः ॥१२.१६॥{मेर्चुर्यः: मुखः: ~बन्धन}तद्रसं तालकं तुल्यं तैलं धत्तूरसंभवम् ।दिव्यौषधीगणद्रावं सर्वं मर्द्यं दिनावधि ॥१२.१७॥वज्रमूषान्धितं पच्यात्करीषाग्नौ दिनावधि ।पुनर्दिव्यौषधीद्रावैर्मर्द्यं पाच्यं दिनावधि ।इत्येवं च पुनः कुर्यात्सूतो बद्धमुखो भवेत् ॥१२.१८॥{रसबन्धनम्}तं रसं धौतमाक्षीकं तीक्ष्णं शुल्बं रसः शशी ।समांशं देवदाल्युत्थद्रवैर्मर्द्यं दिनावधि ॥१२.१९॥त्रिदिनं मधुसर्पिर्भ्यां मर्दितं गोलकीकृतम् ।वज्रमूषागतं रुद्ध्वा शोष्यं तीव्राग्निना धमेत् ॥१२.२०॥खदिराङ्गारयोगेन खोटबद्धो भवेद्रसः ।तत्खोटं टंकणैः काचैः शोधयेद्वै धमन्धमन् ॥१२.२१॥तेजःपुञ्जो रसो बद्धो बालार्कसदृशो भवेत् ॥१२.२२॥{सिल्वेर्=> गोल्द्}तद्रसं सिक्थकेनैव वेष्टयित्वा प्रपूजयेत् ।शतांशं तु द्रुते तारे क्रामणेनैव संयुतम् ॥१२.२३॥तत्तारं जायते स्वर्णं जांबूनदसमप्रभम् ।अष्टानवतिभागं स्यादित्येवं वेधको मतः ॥१२.२४॥{मेर्चुर्यः: मुखकरण}अथ वक्ष्ये रसेन्द्रस्य वासितस्य मुखं क्रमात् ।येन व्योमादिवैक्रान्तं चरत्याश्वभिषेचितम् ॥१२.२५॥अम्लवेतसजंबीरबीजपूरकभूखगैः ।त्रिदिनं मर्दयेत्सूतं भूनागैश्च दिनत्रयम् ।तप्तखल्वे दिनं मर्द्यं सूतस्येत्थं मुखं भवेत् ॥१२.२६॥{मेर्चुर्यः: मुखकरण}मध्यगर्तसमायुक्तं कारयेदिष्टिकाद्वयम् ।धान्याभ्रं गंधकं शुद्धं प्रत्येकं दशनिष्ककम् ॥१२.२७॥यामं जम्बीरजैर्द्रावैर्मर्द्यं तेनैव लेपयेत् ।गर्तद्वयं समांशेन ह्यधोगर्तं सुशोधितम् ॥१२.२८॥विंशनिष्कं क्षिपेत्सूतं ऊर्ध्वं देयापरेष्टिका ।लिप्त्वा मृल्लवणैः संधिं दीप्ताग्निं ज्वालयेदधः ॥१२.२९॥अविच्छिन्नं दिवारात्रौ यावत्सप्तदिनावधि ।स्वांगशीतं समुद्धृत्य रसं किट्टविवर्जितम् ।इत्येवं तु त्रिधा कुर्याद्रसस्य तु मुखं भवेत् ॥१२.३०॥{मेर्चुर्यः: मुखकरण}वंशनालान्धितं सूतं भाण्डे गोमूत्रपूरिते ।त्रिसप्ताहं पचेच्चुल्ल्यां सूतस्येत्थं मुखं भवेत् ॥१२.३१॥{परल्लेल्बेत्wईन्संस्कारसन्द्रितुअल्}समुखे निर्मुखे सूते वक्ष्यते जारणं क्रमात् ।खल्वपीतं रसो लिङ्गं मर्दनं मार्जनं स्मृतम् ॥१२.३२॥नानौषधीरसैः स्नानं सत्त्वैर्बीजैः प्रपूजनम् ।स्वर्णादिरत्नजातैश्च उपहारं प्रकल्पयेत् ॥१२.३३॥नैवेद्यं रञ्जनं दिव्यं सारणा स्याद्विसर्जनम् ।वेधनं देहलोहेषु सम्यक्पूजाविधेः फलम् ॥१२.३४॥यावद्दिनानि वह्नौ तु धारणे जार्यते रसः ।तावद्युगसहस्राणि शिवलोके महीयते ॥१२.३५॥यत्किंचिद्रसराजस्य साधनार्थे व्ययो भवेत् ।तत्सर्वं कोटिगुणितं दत्ते श्री भैरवी ध्रुवम् ॥१२.३६॥साधकानां सुधीराणां इह लोके परत्र च ।अतो भूपैर्वार्तिकेन्द्रैः साध्यः स्याद्भुक्तिमुक्तिदः ॥१२.३७॥{अभ्रः: प्रेपरतिओन्फ़ोर्चारण}अर्कक्षीरेण धान्याभ्रं दिनं मर्द्यं निरुध्य च ।कपोताख्ये पुटे पच्यात्क्षीरैर्यामं विमर्दयेत् ॥१२.३८॥रुद्ध्वाधः पूर्ववत्पच्यादेवं वारचतुष्टयम् ।त्रिधा च मूलकद्रावै रम्भाकन्दद्रवैस्त्रिधा ॥१२.३९॥अपामार्गकाकमाचीमीनाक्षीभृङ्गराण्मुनिः ।पुनर्नवा मेघनादो विदारिश्चित्रकं तथा ॥१२.४०॥क्रमादेषां द्रवैरेव मर्दनं पुटपाचनम् ।एकैकेनैकवारं च दत्त्वा तद्भावयेत्पुनः ॥१२.४१॥शतावरी तालमूली कदली तण्डुलीयकम् ।अर्कः पुनर्नवा शिग्रुर्यवचिञ्चा ह्यनुक्रमात् ॥१२.४२॥प्रतिद्रवैर्दिनैकं तु भावितं चारणे हितम् ॥१२.४३॥{अभ्रः: वोर्बेरेइतुन्गौफ़् चारण}अर्कक्षीरैस्तु धान्याभ्रं यामं मर्द्यं निरुध्य च ।कपोताख्ये पुटे पच्यादेवं वारांश्चतुर्दश ॥१२.४४॥कदली मुसली शिग्रुर्वन्ध्याङ्कोल्लार्कपीलुकम् ।नागवल्ली कुबेराक्षी भूम्यपामार्गतुम्बरुः ॥१२.४५॥एषामेकद्रवं ग्राह्यं कांजिके व्योमसंयुतम् ।सर्वमेतत्क्षिपेद्भाण्डे तन्मध्ये पाचयेत्त्र्यहम् ॥१२.४६॥पूर्वाभ्रं दोलिकायन्त्रे समुद्धृत्याथ शोषयेत् ।कासीसं तुवरी सिन्धुष्टंकणं च समं समम् ॥१२.४७॥सर्वमेतद्दशांशं तु क्षिप्त्वा तस्मिन्विमर्दयेत् ।दिनैकं तप्तखल्वे तु क्षिप्त्वा तस्मिन्विमर्दयेत् ॥१२.४८॥दिनैकं तप्तखल्वे तु तदभ्रं चारणे हितम् ॥१२.४९॥{अभ्रः: प्रेपरतिओन्फ़ोर्चारण}शतवारं द्रुतं नागं मुण्डीद्रावे विनिक्षिपेत् ।तेन द्रावेण धान्याभ्रं मर्दितं सप्तधा पुटेत् ।मर्द्यं मर्द्यं निरुध्याथ कपोताख्ये पुटे पचेत् ॥१२.५०॥तत्तुल्यं गंधकं दत्त्वा पूर्वोक्तैर्मुण्डिकाद्रवैः ॥१२.५१॥सस्तन्यैर्बीजपूरोत्थैर्द्रावैर्भाव्यं दिनावधि ।एतदभ्रं तु सूतस्य चारणे परमं हितम् ॥१२.५२॥{सिद्धमूली}व्याघ्रपादी हंसपादी कदल्यग्निकुमारिकाः ।बृहती लाङ्गली वज्री खण्डजारीन्द्रवारुणी ॥१२.५३॥वन्ध्याकर्कोटकी मूषा सर्पाक्षी शङ्खपुष्पिका ।मण्डूकी अग्निमथनो विख्याता सिद्धमूलिका ॥१२.५४॥एताः समस्ता व्यस्ता वा चोक्तस्थाने नियोजयेत् ॥१२.५५॥{मेर्चुर्यः: समुखः: चारण ओफ़् अभ्र}अथातः समुखे सूते पूर्वाभ्रं षोडशांशकम् ।दत्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीद्रवैर्दिनम् ॥१२.५६॥ततस्तं चारणायंत्रे जंबीररससंयुतम् ।घर्मे धार्यं दिनैकं तु चरत्येव न संशयः ॥१२.५७॥{मेर्चुर्यः: लक्ष ।कोटिवेधिन्}चारितं बन्धयेद्वस्त्रे दोलायंत्रे दिनावधि ।सिद्धमूलीद्रवैर्युक्तैः पातनाज्जीर्यते ह्यलम् ॥१२.५८॥अजीर्णं चेत्पचेद्यंत्रे कच्छपाख्ये दिनावधि ।अष्टमांशं विडं दत्त्वा चरत्येव न संशयः ॥१२.५९॥अनेन क्रमयोगेन चार्यं जार्यं पुनः पुनः ।जीर्णे शतगुणे सम्यक्सहस्रांशेन विध्यति ॥१२.६०॥सहस्रगुणिते जीर्णे लक्षवेधी भवेद्रसः ।तद्वल्लक्षगुणे जीर्णे कोटिवेधी भवेद्रसः ॥१२.६१॥कृष्णाभ्रं वा सुवर्णं वा यथाशक्त्या तु जारयेत् ।पूर्ववत्क्रमयोगेन फलं स्यादुभयोः समम् ॥१२.६२॥{मेर्चुर्यः: फ़ोर्प्रोदुच्तिओनोफ़् सिल्वेर्}अनेनैव क्रमेणैव तारं वा श्वेतमभ्रकम् ।जारयेत्तु यथाशक्त्या तारकर्मणि शस्यते ॥१२.६३॥{मेर्चुर्यः: मुखबन्धन, कोटिवेधिन्}पूर्ववत्पक्वबीजेन सारणादि यथाक्रमम् ।कर्तव्यं रसराजस्य वेधनं क्रामणं तथा ॥१२.६४॥चंद्रार्कं जारयेत्सर्वं ताम्रं वा तारकर्मणि ।एवं शतगुणे जीर्णे सहस्रांशेन वेधयेत् ॥१२.६५॥सहस्रगुणिते जीर्णे पूर्ववत्सारणात्रयम् ।कृत्वा जार्यं पुनस्तद्वच्चारयेच्च त्रिधा पुनः ॥१२.६६॥इत्येवं च पुनः सार्यं पुनः सार्यं च जारयेत् ।मुखबन्धादिवेधान्तं कारयेत्पूर्ववद्रसे ॥१२.६७॥तेनैव लक्षभागेन दिव्यं भवति कांचनम् ।यदा लक्षगुणे जीर्णे त्रिधा सार्यं च जारयेत् ॥१२.६८॥इत्येवं सप्तधा कार्यं बन्धयेच्च ततो मुखम् ।पूर्ववत्क्रामणान्तं च कृतोऽसौ जायते रसः ॥१२.६९॥कोटिवेधी तु चंद्रार्के सत्यं शंकरभाषितम् ॥१२.७०॥{मेर्चुर्यः: निर्मुखः: चारण}अथ निर्मुखसूतस्य वक्ष्ये चारणजारणे ।शुद्धसूते तु वैक्रांतं मारितं षोडशांशकम् ॥१२.७१॥क्षिप्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीरसैस्त्र्यहम् ।संस्कारेण ह्यनेनैव निर्मुखश्चरति ध्रुवम् ॥१२.७२॥{मेर्चुर्यः: चारणः: निर्मुख}अथवा तप्तखल्वे तु भूलतासंयुतं रसम् ।मर्दयेत्त्रिदिनं पश्चात्पात्यं पातनयन्त्रके ॥१२.७३॥संस्कारेण ह्यनेनापि निर्मुखं चरति क्षणात् ॥१२.७४॥{मेर्चुर्यः: जारणः: निर्मुख}अस्यैव जारणायोग्यो व्योमसंस्कार उच्यते ।धान्याभ्रमम्लवर्गेण दोलायंत्रे त्र्यहं पचेत् ।स्नुहीक्षीरैस्ततो मर्द्यं यामैकं चान्धितं धमेत् ॥१२.७५॥कपोताख्यपुटैकेन तमादायाथ मर्दयेत् ।मूलकं कदलीकन्दं मीनाक्षी काकमाचिका ॥१२.७६॥मुनिरार्द्रकवर्षाभूमेघनादापामार्गकम् ।एरण्डश्च द्रवैरेषां पृथग्देयं पुटं लघु ॥१२.७७॥दोलायंत्रे ततः पच्याद्वज्रीक्षीरैर्दिनावधि ।वचा निम्बं धूमसारं कासीसं च सुचूर्णितम् ॥१२.७८॥अभ्रस्य षोडशांशेन प्रत्येकं मिश्रयेत्ततः ।मर्दयेत्ताम्रखल्वे तु चणकाम्लैर्दिनावधि ॥१२.७९॥नवसारैरयःपात्रं लेपयेत्तत्र निक्षिपेत् ।पारदं साधितं साभ्रं चणकाम्लं च कांजिकम् ॥१२.८०॥मृद्वग्निना पचेच्चुल्ल्यां रसश्चरति तत्क्षणात् ।जारयेत्पूर्वयोगेन ततश्चार्यं च जारयेत् ॥१२.८१॥मात्रा युक्तिर्यथापूर्वं सेयं निर्मुखजारणा ।कृष्णाभ्रकं सुवर्णं च जार्यं स्याद्धेमकर्मणि ॥१२.८२॥तारं वा श्वेतमभ्रं वा जार्यं स्यात्तारकर्मणि ।सारणादिक्रामणान्तं यथापूर्वं तु जारयेत् ॥१२.८३॥कर्तव्यं सूतराजे तु तद्वद्भवति कांचनम् ।श्वेतेन जारयेत्श्वेतं यथाबीजं तथाङ्कुरम् ॥१२.८४॥प्रोक्तं यथा सुगमसाधितपीतगंधं कृष्णाभ्रहेमरजतं सितमभ्रकं च ।संसार्य तद्रसवरे वरवार्तिकेन्द्रः कुर्यान्महाकनकभारसहस्रसंख्यम् ॥१२.८५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP