संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण १.१ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण १.१ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण १ Translation - भाषांतर स्वर्गापवर्गविस्फारौ भुवनस्योदये यथा ।भवरोगहरौ वन्दे चण्डिकाचन्द्रशेखरौ ॥१.१॥रसोपरसलोहानां तैलमूलफलैः सह ।असाध्यं प्रत्ययोपेतं कथ्यते रससाधनम् ॥१.२॥वैद्यानां यशसेऽर्थाय व्याधितानां हिताय च ।वादिनां कौतुकार्थाय वृद्धानां देहसिद्धये ॥१.३॥मन्त्रिणां मन्त्रसिद्ध्यर्थं विविधाश्चर्यकारणम् ।पञ्चखण्डं इदं शास्त्रं साधकानां हितप्रदम् ॥१.४॥रसखण्डे तु वैद्यानां व्याधितानां रसेन्द्रके ।वादिनां वादखण्डे च वृद्धानां च रसायने ॥१.५॥मन्त्रिणां मन्त्रखण्डे च रससिद्धिः प्रजायते ।सुतरां नास्ति संदेहः तत्तत्खण्डविलोकिनाम् ॥१.६॥हतो हन्ति जरामृत्युं मूर्छितो व्याधिघातकः ।धत्ते च खेगतिं बद्धः कोऽन्यः सूतात्कृपाकरः ॥१.७॥जरामरणदारिद्र्यरोगनाशकरोमतः ।मूर्छितो हरते व्याधीन्नसो देहे चरन्नपि ॥१.८॥मोहयेद्यः परान्बद्धो जीवयेच्च मृतः परान् ।मूर्छितो बोधयेदन्यांस्तं सूतं को न सेवते ॥१.९॥आयुर्द्रविणमारोग्यं वह्निर्मेधा महद्बलम् ।रूपयौवनलावण्यं रसोपासनया भवेत् ॥१.१०॥मारयेज्जारितं सूतं गन्धकेनैव मूर्छयेत् ।बद्धः स्याद्द्रुतिसत्वाभ्यां रसस्यैवं त्रिधा गतिः ॥१.११॥दोषहीनो रसो ब्रह्मा मूर्छितस्तु जनार्दनः ।मारितो रुद्ररूपः स्याद्बद्धः साक्षान्महेश्वरः ॥१.१२॥वेधको देहलोहाभ्यां सूतो देवि सदाशिवः ।दर्शनाद्रसराजस्य ब्रह्महत्यां व्यपोहति ॥१.१३॥स्पर्शनान्नाशयेद्देवि गोहत्यां नात्र संशयः ।किं पुनर्भक्षणाद्देवि प्राप्यते परमं पदम् ॥१.१४॥अल्पमात्रोपयोगित्वादरुचेरप्रप्सङ्गतः ।क्षिप्रमारोग्यदायित्वाद्भेषजेभ्यो रसोऽधिकः ॥१.१५॥यदुक्तं शम्भुना पूर्वं रसखण्डे रसायने ।रसस्य वन्दनार्थे च दीपिका रसमङ्गले ॥१.१६॥व्याधितानां हितार्थाय प्रोक्तं नागार्जुनेन यत् ।उक्तं चर्पटिसिद्धेन स्वर्गवैद्यकपालिके ॥१.१७॥अनेकरसशास्त्रेषु संहितास्वागमेषु च ।यदुक्तं वाग्भटे तन्त्रे सुश्रुते वैद्यसागरे ॥१.१८॥अन्यैश्च बहुभिः सिद्धैर्यदुक्तं च विलोक्य तत् ।तत्र यद्यदसाध्यं स्याद्यद्यद्दुर्लभमौषधम् ॥१.१९॥तत्तत्सर्वं परित्यज्य सारभूतं समुद्धृतम् ।क्वचिच्छास्त्रे क्रिया नास्ति क्रमसंख्या न च क्वचित् ॥१.२०॥मात्रा युक्तिः क्वचिन्नास्ति सम्प्रदायो न च क्वचित् ।तेन सिद्धिर्न तत्रास्ति रसे वाथ रसायने ॥१.२१॥वैद्ये वादे प्रयोगे च यस्माद्यत्नो मया कृतः ।यद्यद्गुरुमुखाज्ज्ञातं स्वानुभूतं च यन्मया ।तत्तल्लोकहितार्थाय प्रकटीक्रियतेऽधुना ॥१.२२॥श्रीमान्सूतनृपो ददाति विलसंल्लक्ष्मीं वपुः शाश्वतंस्वानां प्रीतिकरीं अचञ्चलमनो मातेव पुंसां यथा ।अन्यो नास्ति शरीरनाशकगदप्रध्वंसकारी ततः कार्यं नित्यमहोत्सवैः प्रथमतः सूताद्वपुःसाधनम् ॥१.२३॥साक्षादक्षयदायको भुवि नृणां पञ्चत्वमुच्चैः कुतो मूर्च्छां मूर्छितविग्रहो गदभृतां हन्त्युञ्चकैः प्राणिनाम् ।बद्धं प्राप्य सुरासुरेन्द्रचरितां तां तां गतिं प्रापयेत् ।सोऽयं पातु परोपकारचतुरः श्रीसूतराजो जगत् ॥१.२४॥यदन्यत्र तदत्रास्ति यदत्रास्ति न तत्क्वचित् ।रसरत्नाकरः सोऽयं नित्यनाथेन निर्मितः ।ततः कुर्यात्प्रयत्नेन रससंस्कारं उत्तमम् ॥१.२५॥अविज्ञात्या च शास्त्रार्थं प्रयोगकुशलो भिषक् ।यम एव स विज्ञेयः मर्त्यानां मृत्युरूपधृक् ॥१.२६॥{रसस्य महादोषाः}नागो वङ्गो मलो वह्निश्चांचल्यं च विषं गिरिः ।असह्याग्निर्महादोषा निषिद्धाः पारदे स्थिताः ॥१.२७॥जायं गण्डस्तनौ नागात्कुष्ठं वङ्गाद्रुजा मलात् ।वह्नेर्दाहो बीजनाशश्चाञ्चल्यान्मरणं विषात् ॥१.२८॥गिरेः स्फोटो ह्यसह्याग्नेर्दोषान्मोह उपजायते ।{निर्दोषपारदस्य गुणाः}दोषहीनो यदा सूतस्तदा मृत्युजरापहः ॥१.२९॥साक्षादमृतमप्येष दोषयुक्तो रसो विषम् ।तस्माद्दोषविशुद्ध्यर्थं रसशुद्धिर्विधीयते ॥१.३०॥रसो ग्राह्यः सुनक्षत्रे पलानां शतमात्रकम् ।पञ्चाशतं पञ्चविंशद्वा द्वादशं चैकमेव वा ॥१.३१॥पलादूनं न कर्तव्यं रससंस्कारं उत्तमम् ।अघोरेण च मन्त्रेण रससंस्कारपूजनम् ॥१.३२॥अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।सर्वेभ्यः सर्वसर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥१.३३॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP