संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.१९ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.१९ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.१९ Translation - भाषांतर संसारे सारभूतं सकलसुखकरं सुप्रभूतं धनं वै तत्साध्यं साधकेन्द्रैर्गुरुमुखविधिना वक्ष्यते तस्य सिद्ध्यै ।रत्नादीनां विशेषात्करणमिह शुभं गंधवादं समग्रं ज्ञात्वा तत्तत्सुसिद्धं ह्यनुभवपथगं पावनं पण्डितानाम् ॥१९.१॥{पद्मरागकरणम्}चतुर्गुणेन तोयेन लाक्षां पिष्ट्वा तु तद्द्रवैः ।वस्त्रपूतं शतपलं गृह्य मृद्भाण्डगं पचेत् ॥१९.२॥मृद्वग्निना पादशेषं जातं यावच्च तस्य वै ।क्षिपेत्पलं पलं चूर्णं सर्जिटंकणलोध्रकम् ॥१९.३॥किंचित्पच्यात्ततः शीतं काचकूप्यां सुरक्षयेत् ।स्थूलमत्स्यत्वचं पच्याद्दिवारात्रं जलेन तत् ॥१९.४॥घनीभूतं समुत्तार्य ख्यातोऽयं मत्स्यकज्जलम् ।एतत्कर्षद्वयं तस्याः काचकूप्यां विनिक्षिपेत् ॥१९.५॥वर्षोपलास्तु तेनैव लालयित्वा सुपाचिते ।मधूकतैलमध्ये तु क्षणं पक्त्वा समुद्धरेत् ।जायन्ते पद्मरागाणि दिव्यतेजोमयानि च ॥१९.६॥{इन्द्रनीलकरणम्}नीलीचूर्णं पलैकं तु पूर्वकूप्यां तु तद्द्रवम् ।तद्द्रवं द्विपलं चूर्णे क्षिप्त्वा सर्वं विलोलयेत् ॥१९.७॥क्षिप्त्वा वर्षोत्पलांस्तेन पूर्वतैलगतान्पचेत् ।इन्द्रनीलानि तान्येव जायन्ते नात्र संशयः ॥१९.८॥{मरकतमणिकरणम्}मञ्जिष्ठां तालकं नीली समचूर्णं प्रकल्पयेत् ।काचकूप्यां स्थितैर्द्रावैः सर्वमेतत्सुलोलयेत् ॥१९.९॥वर्षोत्पलांस्तु तेनैव सिक्त्वा पच्याच्च पूर्ववत् ।सर्वे मरकतास्तेन समीचीना भवन्ति वै ॥१९.१०॥{गोमेदमणिकरणम्}मञ्जिष्ठायाः कषायेण पेषयेन्मत्स्यकज्जलम् ।वर्षोत्पलांस्तु तेनैव सिक्त्वा पच्याच्च पूर्ववत् ॥१९.११॥गोमेदानि तु तान्येव प्रवर्तन्ते न संशयः ॥१९.१२॥{पुष्परागकरणम्}पिष्ट्वा तालकतुल्यं तु जलैके रसकुङ्कुमम् ।तन्मध्ये चाष्टमांशं तु क्षिपेन्मत्स्योत्थकज्जलम् ॥१९.१३॥तत्सर्वं पाचयेद्यामं अवतार्य सुरक्षयेत् ।वर्षोपलांस्तु तेनैव सिक्तान्पच्याच्च पूर्ववत् ।भवन्ति पुष्परागास्ते यथा खन्युत्थितानि च ॥१९.१४॥{नीलमाणिक्यकरणम्}नीलीचूर्णस्य तुल्यांशं क्षिपेन्मत्स्योत्थकज्जलम् ।बीजकाष्ठं च तुल्यांशं जले स्थाप्यं दिनावधि ॥१९.१५॥तत्सर्वं पाचयेद्याममवतार्य सुरक्षयेत् ।वर्षोपलांस्तु तेनैव सिक्ताः पच्याच्च पूर्ववत् ।नीलमाणिक्यसदृशास्ते भवन्ति न संशयः ॥१९.१६॥{मुक्ताकरणं (१)}प्रोक्तानि रङ्गद्रव्याणि काचकूप्यां पृथक्पृथक् ।रक्षयित्वा प्रयत्नेन प्राप्ते कार्ये नियोजयेत् ॥१९.१७॥सूर्यकांतस्य मध्ये तु बिलं कुर्यात्सुवर्तुलम् ।तथान्यं सूर्यकान्तं च कुर्यादाच्छादने हितम् ॥१९.१८॥सूक्ष्ममुक्ताफलान्यादौ द्रावयेत्पूर्वयोगतः ।तद्द्रुतं सूर्यकांतस्य बिले पूर्यं प्रयत्नतः ॥१९.१९॥सूर्यकान्तेनापरेण छादितं घर्मधारितम् ।याममात्राद्भवेद्बद्धं मौक्तिकं चातिशोभनम् ॥१९.२०॥छिद्रं कृत्वा निबध्याथ सुशुभ्रे वस्त्रखण्डके ।सुशुभ्रैस्तण्डुलैः सार्धं कण्डयेत्तदुलूखले ॥१९.२१॥लघुहस्तेन यामैकं तत उद्धृत्य क्षालयेत् ।त्वचारिष्टफलानां तु जलेन सह पेषयेत् ।तेनैव क्षालिते मुक्ताफलं भवति शोभनम् ॥१९.२२॥{मुक्ताकरणं (२)}मौक्तिकानि सुसूक्ष्माणि चूर्णितानि विनिक्षिपेत् ।प्रसूताया इडायास्तु सद्यः क्षीरैः क्षणावधि ॥१९.२३॥तेनैव वर्तुलाकारा गुटिकाः कारयेत्ततः ।काचपात्रे स्थिताः शोष्याः छायायां दिनमात्रकम् ॥१९.२४॥प्रोतयेदश्ववालेन मालां कृत्वाथ शोषयेत् ।छायायां कठिना यावत्तावत्स्थाप्या विलम्बिताः ॥१९.२५॥स्थूलस्य कृष्णमत्स्यस्य एककण्टस्य चोदरात् ।निवार्यान्त्राणि तत्रैव पूर्वमालां निवेशयेत् ॥१९.२६॥उदरं सीवयेत्सूत्रेणैव भाण्डे निरुध्य तत् ।मासमात्रात्समुद्धृत्य छायायां शोषयेत्पुनः ॥१९.२७॥कण्डनं क्षालनं चैव पूर्ववत्कारयेच्छनैः ।भवन्ति तानि शुभ्राणि सम्यङ्मुक्ताफलानि वै ॥१९.२८॥{मुक्ताकरणं (३)}मुक्ताशुक्तिं समादाय जलशुक्तिमथापि वा ।घर्षयेत्पृष्ठभागं तु तस्य कार्ष्ण्यापनुत्तये ॥१९.२९॥ताः शुभ्राश्चूर्णयेच्छ्लक्ष्णं ईडाक्षीरादिपूर्ववत् ।कारयेत्क्षालनान्तं च मौक्तिकानि भवन्ति वै ॥१९.३०॥{मुक्ताकरणं (४)}सद्य उद्धृत्य मत्स्यस्य स्थूलस्य चक्षुषी हरेत् ।एकैकं बन्धयेद्वस्त्रे ईडाक्षीरैर्दिनं पचेत् ॥१९.३१॥छायायां शोषयेत्पश्चात्कण्डनं क्षालनं ततः ।कारयेत्पूर्ववत्तानि मौक्तिकानि भवन्ति वै ॥१९.३२॥{प्रवालकरणं (१)}दग्धशंखं च दरदं समं चूर्णं प्रकल्पयेत् ।प्रसूताया महिष्यास्तु पञ्चमे दिवसे हरेत् ॥१९.३३॥क्षीरं तेनैव तन्मर्द्यं यामैकं पूर्वचूर्णकम् ।वर्तुलां गुटिकां कृत्वा प्रोतयेत्ताम्रसूत्रके ॥१९.३४॥रम्भागर्भदलेनैव मध्यमांगुष्ठतर्जनी ।वेष्टयित्वा तु तैर्ग्राह्या गुलिकास्ताः पृथक्पृथक् ॥१९.३५॥आवर्त्यावर्त्य संस्थाप्या रंभापत्रैः प्रयत्नतः ।छायाशुष्काः शुभाः प्रोत्यास्ताम्रसूत्रेण वै पुनः ॥१९.३६॥मधुकं तप्ततैलाक्तं धूमेन स्वेदयेच्छनैः ।जायते पद्मरागाभं प्रवालं नात्र संशयः ॥१९.३७॥{प्रवालकरणं (२)}दग्धः शंखः ससिन्दूरं समांशं चूर्णयेत्ततः ।क्षीरैः सद्यःप्रसूताया एडाया मर्दयेद्दृढम् ॥१९.३८॥पूरयेच्च तृणोत्थे वा नाले वंशादिसंभवे ।सुपक्वे चान्नभाण्डे तु यवागूवर्जिते क्षिपेत् ॥१९.३९॥आच्छाद्य पच्यान्मन्दाग्नौ घटिकान्ते समुद्धरेत् ।प्रवाला नलिकागर्भे जायन्ते पद्मरागवत् ॥१९.४०॥{हिङ्गुलकरणम्}अशुद्धं पारदं भागं चतुर्भागं च टंकणम् ।उभौ क्षिप्त्वा लोहपात्रे क्षणं मृद्वग्निना पचेत् ॥१९.४१॥तस्मिन्मनःशिलाचूर्णं पारदाद्दशमांशतः ।क्षिप्त्वा चाल्यमयोदर्व्या ह्यवतार्य सुशीतलम् ॥१९.४२॥कृत्वाथ खण्डशः क्षिप्त्वा काचकूप्यां निरुध्य च ।वस्त्रमृत्तिकया सम्यक्काचकूपीं प्रलेपयेत् ॥१९.४३॥सर्वतोऽङ्गुलमानेन छायाशुष्कं तु कारयेत् ।वालुकायंत्रगर्भे तु द्विदिनं मृदुनाग्निना ॥१९.४४॥क्रमवृद्धाग्निना पश्चात्पचेद्दिवसपञ्चकम् ।सप्ताहात्तत्समुद्धृत्य हिंगुलं स्यान्मनोहरम् ॥१९.४५॥{सिन्दूरकरणं (१)}चिंचात्वग्भस्मपादांशं द्रुते नागे विनिक्षिपेत् ।पाचयेल्लोहजे पात्रे लोहदर्व्या निघर्षयेत् ।चण्डाग्निना दिनैकं तु सिन्दूरं जायते शुभम् ॥१९.४६॥{सिन्दूरकरणं (२)}रक्तशाखिन्यपामार्गकुटजस्य तु भस्मकम् ।चतुर्थांशं द्रुते नागे दत्त्वा मर्द्यं दिनद्वयम् ॥१९.४७॥पूर्ववल्लोहपात्रे तु सिन्दूरं जायते शुभम् ॥१९.४८॥{सिन्दूरकरणं (३)}भस्मना पूर्ववन्नागं शाकस्य वारिजस्य वा ।सिन्दूरं जायते दिव्यं यथेष्टं नात्र संशयः ॥१९.४९॥{सिन्दूरकरणं (४)}पलानां द्विशतं नागं द्रावयेल्लोहभाजने ।समूलवासकाभस्म पादांशं तत्र निक्षिपेत् ॥१९.५०॥पीतवर्णं भवेद्यावत्तावत्पच्यात्प्रचालयेत् ।ततः सुशीतलं कृत्वा जलेन चालयेत्पुनः ॥१९.५१॥पलमात्रा वटी कृत्वा वासाभस्मोपरि क्षिपेत् ।छायाशुष्का समाहृत्य मृद्भाण्डे नूतने क्षिपेत् ॥१९.५२॥क्षिप्त्वा रुद्ध्वा पचेच्चुल्ल्यां निर्वाते तीव्रवह्निना ।छिद्रं कुर्याद्भाण्डवक्त्रे शलाकां लोहजां क्षिपेत् ॥१९.५३॥रक्तवर्णा यदा स्यात्सा तावत्पच्यात्परीक्षयेत् ।सिन्दूरं जायते दिव्यं सिद्धयोग उदाहृतः ॥१९.५४॥{सैन्धवकरणम्}नवभाण्डे पलशतं सामुद्रलवणं क्षिपेत् ।निष्कं निष्कं सूतगंधौ क्षिप्त्वा चण्डाग्निना पचेत् ॥१९.५५॥द्वियामान्ते क्षिपेत्तस्मिंल्लोहनाराचकं यदि ।रक्तवर्णं भवेत्तद्वै तदा वह्निं निवारयेत् ॥१९.५६॥स्वभावशीतलं ग्राह्यं सिन्धूत्थं लवणं भवेत् ॥१९.५७॥{सुवर्चलकरणम्}आरनालं पलैकं तु द्विनिष्कं च सुवर्चलम् ।माषैकं गंधकं पिष्ट्वा सर्वं पात्रे तु धारयेत् ॥१९.५८॥पलैकं सैंधवं तप्तं कृत्वा तत्र निषेचयेत् ।पुनस्ताप्यं पुनः सेच्यं द्रवो यावद्विशुष्यति ।सुवर्चलं भवेत्तावन्नात्र कार्या विचारणा ॥१९.५९॥{हिङ्गुकरणं (१)}हिङ्गुनागरमेकैकं लशुनस्य पलद्वयम् ।चतुष्पलं निम्बबीजं माषचूर्णं पलाष्टकम् ॥१९.६०॥सर्वतुल्यां बिल्वमज्जां अजाक्षीरेण पेषयेत् ।तत्सर्वं बन्धयेद्गाढं सार्द्रगोचर्मगर्भतः ।पक्षत्रयं धान्यराशौ क्षिपेद्धिंगु भवेत्ततः ॥१९.६१॥{हिङ्गुकरणं (२)}बब्बूलवृक्षनिर्यासं सामुद्रलवणं तथा ।त्वग्वर्ज्यं च कणा तुल्यं मेषीक्षीरेण पेषयेत् ॥१९.६२॥अस्य पिण्डस्य पादांशं शुद्धहिंगु नियोजयेत् ।तत्सर्वं पूर्ववद्बद्धं चर्मणा दिवसत्रयम् ॥१९.६३॥निर्वाते लम्बितं रक्षेत्हिंगु स्याच्छुद्धहिंगुवत् ॥१९.६४॥{हिङ्गुकरणं (३)}पलैकैकं गुडं शुण्ठी द्विकं टंकणगुग्गुलुम् ।एरण्डबीजमज्जा च तुषवर्ज्यं पलद्वयम् ॥१९.६५॥निस्त्वङ्माषा पलद्वंद्वं एकीकृत्य प्रपेषयेत् ।त्रिकर्षं हिङ्गु तन्मध्ये क्षिप्त्वा तोयेन लोलयेत् ॥१९.६६॥तत्सर्वं पूर्ववद्बद्ध्वा सप्ताहाद्धिङ्गुतां व्रजेत् ॥१९.६७॥{हिङ्गुकरणं (४)}द्विपले शुद्धहिंगु स्यादेडाक्षीरं च विंशतिः ।गोधूममाषयोश्चूर्णं प्रत्येकं तु चतुष्पलम् ॥१९.६८॥अलाबुपात्रमध्यस्थं तत्सर्वं लोलितं क्षिपेत् ।छायाशुष्कं भवेत्तावद्यावद्धिंगु शुभं भवेत् ॥१९.६९॥{वङ्गकरणं (१)}धत्तूरबीजचूर्णं तु वज्रीक्षीरेण भावयेत् ।शोष्यं पेष्यं पुनर्भाव्यं एवं घर्मे त्रिसप्तधा ॥१९.७०॥तद्वाप्यं द्रुतनागस्य दशमांशेन दापयेत् ।ढालयेत्स्नुक्पयोमध्ये तद्वङ्गं जायते शुभम् ।भावयेद्रजनीमध्ये तद्बंगं जायते शुभम् ॥१९.७१॥{वङ्गकरणं (२)}भावयेद्रजनीचूर्णं वज्रीदुग्धेन सप्तधा ।तद्वापं दशमांशेन द्रुते नागे प्रदापयेत् ॥१९.७२॥तद्वापं द्रुतनागस्य दशमांशेन दापयेत् ।तत्ढाल्यं त्रिफलाक्वाथे पुनस्तद्वच्च वापयेत् ॥१९.७३॥टंकणं नवसारं च दत्त्वा सेच्यं नृमूत्रके ।द्रावितं च पुनर्ढाल्यं नृमूत्रे वङ्गतां व्रजेत् ॥१९.७४॥{अम्लवेतसकरणम्}त्वग्बीजरहितं चिंचाफलं कांजिकसंयुतम् ।पक्त्वा कुर्याद्वस्त्रपूतं जम्बीराम्लं तु तत्समम् ॥१९.७५॥चाङ्गेरीमातुलिंगाम्लैर्यथाप्राप्तं समाहरेत् ।वस्त्रपूतं तु तत्सर्वं पचेत्पादावशेषितम् ॥१९.७६॥सौराष्ट्री तुत्थकासीसं त्रिक्षारं पटुपञ्चकम् ।मूलसारं च तुल्यांशं सर्वं चूर्णं विनिक्षिपेत् ॥१९.७७॥पूर्वपक्वे तु पादांशं पुनर्मृद्वग्निना पचेत् ।घनीभूतं भवेद्यावच्चट्टकेनैव चालयेत् ।अम्लवेतसमित्येतज्जायते शोभनं परम् ॥१९.७८॥{साहीकरणम्}त्रिफला भृङ्गकोरण्टभल्लातकरवीरकम् ।बीजाम्रसममेतेषां समांशं बोलकज्जले ॥१९.७९॥क्षिप्त्वा मर्द्यं ताम्रपात्रे पञ्चाहाज्जायते मषी ।तालपत्त्रेषु भूर्जेषु लिख्यते परमं दृढम् ॥१९.८०॥{घृतकरणम्}नारिकेलात्फलरसं ग्राह्यं भागचतुष्टयम् ।तन्मध्ये घृतमेकं तु क्षिप्त्वा भाण्डे विलोलयेत् ॥१९.८१॥शतांशेन क्षिपेत्तस्मिन्रक्तशाकिनिमूलकम् ।मृद्वग्निना पचेत्किंचित्तत्सर्वं जायते घृतम् ॥१९.८२॥{घृतकरणं (२)}घृतं तोयं समं कृत्वा विंशत्यंशेन चुन्नकम् ।क्षिप्त्वा सर्वं तु मृद्भांडे क्षणं हस्तेन मर्दयेत् ।घृतं तज्जायते सर्वं न चाग्निं सहते क्वचित् ॥१९.८३॥{घृतकरणं (३)}मेषीमेदः पञ्चपलं तिलतैलं च तत्समम् ।पचेन्मृद्वग्निना तावद्यावत्फेनं निवर्तते ॥१९.८४॥द्विनिष्कं कांजिकं तस्मिन्क्षिप्त्वा वस्त्रेण चालयेत् ।पादांशं च घृतं तस्मिन्दद्यात्सर्वं घृतं भवेत् ॥१९.८५॥{घृतकरणं (४)}तिलतैलं विपच्यादौ यावत्फेनं निवर्तते ।गुग्गुलुं निक्षिपेत्तस्मिन्किंचिद्गंधनिवृत्तये ॥१९.८६॥विंशत्यंशेन तोयस्य क्षिप्त्वा चुन्नं विलोलयेत् ।जलतुल्यं पूर्वतैलं मिश्रयेत्तत्सुशीतलम् ॥१९.८७॥मर्दयेन्मृण्मये पात्रे हस्तेन क्षणमात्रकम् ।घनीभूते घृतं चार्धं क्षिप्त्वा सर्वं घृतं भवेत् ॥१९.८८॥{चन्दनकरणम्}संछेद्य निम्बवृक्षं तु हस्तैकं रक्षयेदधः ।तस्य मूर्ध्नि बिलं कुर्यात्तत्रैव नवगुग्गुलुम् ॥१९.८९॥पूरयेत्तेन काष्ठेन बिलं रुद्ध्वाथ लेपयेत् ।संधिं मृल्लवणेनैव शुष्कं गजपुटे पचेत् ॥१९.९०॥स्वभावशीतलं ग्राह्यं तन्मूलं चन्दनं भवेत् ॥१९.९१॥{कर्पूरकरणम्}पलत्रयं पचेद्भक्तं सम्यग्राजान्नतण्डुलम् ।तद्भक्तं शीतलं कृत्वा गवां क्षीरैः प्रयत्नतः ॥१९.९२॥निष्कमात्रं च कर्पूरं क्षिप्त्वा तस्मिंश्च पेषयेत् ।शुष्कस्य वंशनालस्य स्थूलस्य तेन चोदरम् ॥१९.९३॥लेप्यमङ्गुलमानेन छायाशुष्कं च कारयेत् ।छित्त्वाथ कदलीपुष्पं तन्निर्यासेन पूरयेत् ॥१९.९४॥वंशनालं पुनर्वस्त्रखण्डे रुद्ध्वा च तन्मुखम् ।आतपे त्रिदिनं शोष्यं भूगर्ते निखनेत्ततः ॥१९.९५॥त्रिसप्ताहात्समुद्धृत्य शोषयित्वा समाहरेत् ।कर्पूरं तस्य गर्भस्थं रक्षेत्कर्पूरभाजने ।कर्पूरं जायते दिव्यं यथा बीजं न संशयः ॥१९.९६॥{जवादीयाङ्कस्तूरीकरणम्}पनसस्यार्धं पक्वस्य बीजान्येकस्य खण्डयेत् ।नवभाण्डे विनिक्षिप्य निष्कं शुण्ठी पलं तथा ॥१९.९७॥चूर्णयित्वा क्षिपेत्तस्मिन्तत्सर्वं द्रवतां व्रजेत् ।तेन घृष्ट्वा क्षिपेत्तस्मिन्चतुर्निष्कं च चन्दनम् ॥१९.९८॥मृद्वग्नौ पाचयेत्तावद्यावदारक्ततां गतम् ।तच्छीतलं काचपात्रे क्षिप्त्वा तस्योपरि क्षिपेत् ॥१९.९९॥चम्पकं केतकीमल्लीजातीपुष्पाणि तत्पुनः ।दिनं शुभ्रपटे बद्ध्वा मुखं तस्यैव रक्षयेत् ॥१९.१००॥ततः पुष्पाणि संत्यक्त्वा कस्तूरीं माषमात्रकाम् ।माषैकं शुद्धकर्पूरे तस्मिन्नेव विनिक्षिपेत् ॥१९.१०१॥निक्षिपेद्विंशदंशेन सम्यग्जावादिकामपि ।तत्सर्वं मथितं पूर्वं सम्यग्जावादिभाजने ॥१९.१०२॥वेष्टयेन्मल्लिकापुष्पैस्तद्भांडं दिवसत्रयम् ।सम्यग्भवति जावादि वर्णैः परिमलैरपि ॥१९.१०३॥{कस्तूरीकरणम्}मधूकतैलं तैलं वा तिलोत्थं पलपञ्चकम् ।मुण्डीद्रावं दशपलं सर्वमेकत्र योजयेत् ॥१९.१०४॥मल्लिका मालती जाती केतकी शतपत्त्रिका ।अन्यानि च सुगन्धीनि पुष्पाणि तत्र निक्षिपेत् ॥१९.१०५॥दिनैकं मुद्रितं रक्षेत्पुष्पं निष्पीड्य संत्यजेत् ।सिक्थकं विंशतिर्निष्कान्क्षिप्त्वा तस्मिन्पचेच्छनैः ॥१९.१०६॥यावत्तैलावशेषं स्यात्कर्पूरं चार्धनिष्ककम् ।निष्कं मार्जारजावादिं क्षिप्त्वा तदवतारयेत् ॥१९.१०७॥अन्यपात्रे विनिक्षिप्य शीतलं तत्पुनः पचेत् ।क्षणमात्रात्तदुत्तार्य क्षिपेज्जावादि भाजने ॥१९.१०८॥सान्द्रं भवति तत्सर्वं यथा बीजं न संशयः ।पुष्पाणि बकुलस्यैव रत्नमालां समं समम् ॥१९.१०९॥तच्चूर्णमिक्षुदण्डस्य कृतनालस्य चोदरे ।क्षिप्त्वा तस्य मुखं रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ॥१९.११०॥पुटेत्तृणाग्निना तावद्यावद्गंधो न दह्यते ।द्रवन्ति तानि पुष्पाणि मुखं भित्त्वा द्रवं हरेत् ॥१९.१११॥कस्तूरीचर्म निर्लोमं मुस्तातुल्यं विचूर्णयेत् ।चूर्णस्य दशमांशेन सम्यक्कस्तूरिकां क्षिपेत् ॥१९.११२॥पूर्वद्रावेण तत्सर्वं पेषितं गोलकीकृतम् ।कस्तूरीमदनाकारा किंचित्कार्या प्रयत्नतः ॥१९.११३॥तत्सर्वं छायया शोष्यं मदना रक्षयेत्पृथक् ।गुटिकाः खण्डशः कृत्वा मदनैः सह मिश्रयेत् ।कस्तूरीचर्मणा बद्ध्वा सम्यङ्मृगमदो भवेत् ॥१९.११४॥{कुण्कुमकरणं (१)}नारिकेलकपालं वा घृष्टं वा निम्बकाष्ठकम् ।यत्किंचिच्छुभ्रकाष्ठं वा तोयेन सह कारयेत् ॥१९.११५॥तत्पादं रजनी चाथ तस्मिन्मध्ये विनिक्षिपेत् ।गैरिकं वा रजन्यर्धं तत्सर्वं कुंकुमं भवेत् ॥१९.११६॥{कुङ्कुमकरणं (२)}पालाशपुष्पजं क्वाथं घर्मे धार्यं तु खर्परे ।विंशत्यंशं क्षिपेत्तस्मिन्पेषितं शुभ्रतण्डुलम् ॥१९.११७॥तण्डुलार्धं तथा चुन्नं सर्वं काष्ठेन लोलयेत् ।घनीभूतं भवेद्यावत्तावद्घर्मे प्रचालयेत् ।ततस्तेनैव वटिकाः कृत्वा स्युः कुङ्कुमोपमाः ॥१९.११८॥{कुङ्कुमकरणं (३)}पालाशपुष्पपादांशं सम्यक्शुभ्रं च तण्डुलम् ।पिष्ट्वाथ वटिकाः कार्या शोष्याः स्युः कुंकुमोपमाः ॥१९.११९॥{दिव्यधूप (१)}क्रमात्तरगुणं कुर्यात्कस्तूरी शशिकुङ्कुमम् ।नखमांसी सर्जरसमुस्ता कृष्णागुरुः सिता ॥१९.१२०॥चन्दनं च दशैतानि चूर्णितानि विमिश्रयेत् ।चूर्णतुल्यैर्गुग्गुलुभिः सर्वमेकत्र कुट्टयेत् ॥१९.१२१॥स्तोकं स्तोकं क्षिपेत्तैलं शिलायां लोहमुष्टिना ।दिनमेकं प्रयत्नेन वर्तिकां तेन कारयेत् ॥१९.१२२॥तदग्रज्वलितं कुर्याज्ज्वालां निवार्य तत्क्षणात् ।देवानां दिव्यधूपोऽयं मन्त्राणां साधने हितः ॥१९.१२३॥{दिव्यधूप (२)}पाषाणभेदचूर्णं तु गुग्गुलुं च पलं पलम् ।मांसी मुस्ता नखं बोलचन्दनागुरुवालकम् ॥१९.१२४॥लाक्षागुडं सर्जरसं सिताकर्पूरसंयुतम् ।प्रति निष्कद्वयं चूर्ण्य कस्तूरी कुंकुमं तथा ॥१९.१२५॥माषैकैकं क्षिपेत्तस्मिन्सर्वं कुट्यादुलूखले ।तिलतैलं क्षिपेत्किंचिल्लोहदण्डेन तद्दृढम् ॥१९.१२६॥यामैकं कुट्टयेत्सिद्धो दिव्यो धूपः शिवोदितः ।देवादेवाकरो देयः पूर्ववद्वर्तकीकृतः ।सर्वसौभाग्यजनकः सर्वमन्त्रोऽघनायकः ॥१९.१२७॥{पुष्पद्रुति}वज्रीक्षीरेण संयुक्तं शुद्धं वस्त्रं पुनः पुनः ।आतपे शोषितं कुर्यादित्येवं दिनसप्तकम् ॥१९.१२८॥जातीपुष्पपलैकं तु निष्कं चूर्णितटंकणम् ।क्षौद्रं निष्कत्रयं योज्यं सर्वमेकत्र लोलयेत् ॥१९.१२९॥मृत्पात्रे धारयेद्घर्मे रम्ये वा काचभाजने ।आच्छादयेत्तु वस्त्रेण जलसिक्तेन तत्क्षणात् ॥१९.१३०॥द्रवन्ति तानि पुष्पाणि युञ्ज्याद्योगेषु तद्द्रवम् ।अनेनैव प्रकारेण पुष्पाणां च पृथक्पृथक् ।द्रुतिः कार्या सुगन्धानां गंधवादेषु योजयेत् ॥१९.१३१॥{धान्यवृद्धिकरणं (१)}मन्दारमूलमार्द्रायां भरण्यां वा कुशोद्भवम् ।ऊर्ध्वं संग्राह्य यत्नेन धवमाल्ये विनिक्षिपेत् ॥१९.१३२॥प्रवातातिमुखं यत्तु तत्काष्ठं तु समाहरेत् ।धान्यस्य राशिगं कुर्याद्धान्यवृद्धिकरं परम् ॥१९.१३३॥{धान्यवृद्धिकरणं (२)}कृकलासस्य वामाक्षि हेम्नावेष्ट्याभिमन्त्रितम् ।धान्यराशौ विनिक्षिप्य धान्यवृद्धिकरं परम् ॥१९.१३४॥{धनधान्यवृद्धिकरणं (३)}तस्यैव दक्षिणं नेत्रं हेम्नावेष्ट्य ततः क्षिपेत् ।यस्मिन्कस्मिन्भवे द्रव्ये धान्ये वा वृद्धिकारकम् ॥१९.१३५॥{द्रव्यादिवृद्धिकरणम्}कृष्णचित्रकमूलं तु क्षिप्तं यस्मिन्सुवस्तुनि ।तत्सर्वं चाक्षयं नित्यं व्ययीकृत्य न क्षीयते ॥१९.१३६॥धनं धान्यं घृतं तैलं सुवर्णं नवरत्नकम् ।यत्किंचिद्द्रव्यजातं तदक्षय्यं तिष्ठति ध्रुवम् ॥१९.१३७॥{धान्यवृद्धिकरणं (४)}मूलं सुश्वेतगुंजाया जलमध्ये विनिक्षिपेत् ।तन्मूलं धान्यराशौ च क्षिप्त्वा मन्त्रविधानतः ॥१९.१३८॥तद्धान्यं वर्धते नित्यं भक्ष्यमाणं सहस्रशः ।मन्त्रखण्डे यथा प्रोक्तं गुञ्जामूलस्य साधनम् ।तथैवात्र प्रकर्तव्यं सिद्धिर्भवति नान्यथा ॥१९.१३९॥आदौ सर्वदिशान्तरेषु गमनं कृत्वा गुरोः संमुखात्प्राप्तं भक्तिबलेन युक्तिविधिना सारातिसारं महत् ।तत्सर्वं धनवर्धनं निगदितं भूयिष्ठमध्वां क्वचिद्भूपानां विदुषां महामतिमतां विद्वान्भवेत्पालनैः ॥१९.१४०॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP