संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण २.२ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण २.२ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण २.२ Translation - भाषांतर धर्मज्ञैः शिववत्सलैर्निर्जरैर्भूपैर्महासाधकैः सम्यग्दिव्यरसायनेन सततं कल्पान्तसीमावधि ।रक्ष्यं गात्रं अनन्तपुण्यनिचये मुक्तिश्च यस्माद्भवेत्तद्वक्ष्ये परमाद्भुतं सुखकरं साम्राज्यदं धीमताम् ॥२.१॥अभ्रकं भक्षयेदादौ मारितं चामृतीकृतम् ।मासैकं निष्कनिष्कं वै क्षेत्रीकरणहेतवे ॥२.२॥यस्मादभ्रं रसक्षेत्रं ततः कुर्याद्रसायनम् ।अक्षेत्रीकरणे सूतो ह्यमृतो विषतां व्रजेत् ॥२.३॥फलसिद्धिः कुतस्तस्य सुबीजस्योषरे यथा ।वज्रपारदयोर्भस्म समभागं प्रकल्पयेत् ॥२.४॥सूतपादं मृतं स्वर्णं सर्वं मर्द्यं दिनावधि ।हंसपाद्या द्रवैरेव तद्गोलं चान्धितं पुटेत् ॥२.५॥अर्कक्षीरैः पुनर्मर्द्यं तद्वद्गजपुटे पचेत् ।भक्षयेत्सर्षपवृद्धं यावन्माषं विवर्धयेत् ॥२.६॥शरण्यः साधकानां तु रसोऽयं वज्रपञ्जरः ।चित्रकार्द्रकसिन्धूत्थमृततीक्ष्णसुवर्चलम् ॥२.७॥समं सर्वं सदा चानु भक्ष्यं स्यात्क्रामणे हितम् ।मासषट्कप्रयोगेण जीवेदाचन्द्रतारकम् ॥२.८॥वलीपलितनिर्मुक्तो दिव्यकायो महाबलः ।मृतसूताद्द्वादशांशं मृतं वज्रं प्रकल्पयेत् ॥२.९॥द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् ।तत्सर्वं भृङ्गजैर्द्रावैर्मर्दितं भावयेत्त्र्यहम् ॥२.१०॥त्र्यहं गोक्षुरकद्रावैः क्षौद्रैर्माषं ततो लिहेत् ।रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् ॥२.११॥चतुर्मासैर्जरां हन्ति जीवेद्ब्रह्मदिनं किल ।भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत्त्रिफलासमम् ॥२.१२॥पलैकं मधुना लेह्यं क्रामकं परमं रसे ।वज्रसूताभ्रहेम्नां तु भस्म शुद्धं तु माक्षिकम् ॥२.१३॥तुल्यं सप्तदिनं मर्द्यं दिव्यौषधिरसैर्दृढम् ।रुद्ध्वा तं त्रिदिनं पच्याद्वालुकायन्त्रगं पुनः ॥२.१४॥उद्धृत्य त्रिदिनं भाव्यं भृङ्गसर्पाक्षिजैर्द्रवैः ।माषैकं मधुसर्पिर्भ्यां वज्रधारारसं लिहेत् ॥२.१५॥मासषट्कप्रयोगेण रुद्रतुल्यो भवेन्नरः ।वलीपलितनिर्मुक्तो वायुवेगो महाबलः ॥२.१६॥पुनर्नवाभृङ्गतिलवाजिगन्धाः समांशकाः ।सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत्पलम् ॥२.१७॥सुवर्णं पारदं कान्तं मृतं सर्वं समं भवेत् ।शतावर्याः शिफाद्रावैर्भावयेद्दिवसत्रयम् ॥२.१८॥त्रिदिनं त्रिफलाक्वाथैर्भृङ्गद्रावैर्दिनत्रयम् ।भावितं मधुसर्पिर्भ्यां भक्षयेद्भैरवं रसम् ॥२.१९॥माषैकैकं वर्षमात्रं जीवेच्चन्द्रार्कतारकम् ।मूलचूर्णं शतावर्याः कृष्णाजपयसा युतम् ॥२.२०॥पलैकैकं पिबेच्चानु क्रामकं परमं हितम् ।रसभस्म समं गन्धं शिलाजत्वम्लवेतसम् ॥२.२१॥यामैकं मर्दयेत्सर्वं मधुसर्पिर्युतं लिहेत् ।निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥२.२२॥जराकालं निहन्त्याशु जीवेद्वर्षशतत्रयम् ।पलार्धं मुसलीचूर्णं भृङ्गराजरसैः पिबेत् ॥२.२३॥धात्रीफलरसैर्वाथ क्रामकं ह्यनुपानकम् ।मेघनादद्रवैर्मर्द्यं शुद्धसूतं दिनत्रयम् ॥२.२४॥विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् ।आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥२.२५॥चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् ।सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयत्पचेत् ॥२.२६॥तत्पिण्डं कर्षं एकैकं भक्षयेदमृतार्णवः ।वर्षमात्राञ् जरां हन्ति जीवेद्वर्षशतत्रयम् ॥२.२७॥वाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् ।पारदाद्द्विगुणं गन्धं शुद्धं सर्वं विमर्दयेत् ॥२.२८॥मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः ।एतत्तुल्यं शुद्धताम्रं सम्पुटे तन्निरोधयेत् ॥२.२९॥वेष्टयेद्वस्त्रखण्डेन वज्रमृत्तिकया बहिः ।लिप्त्वा विशोषयेत्तं वै सम्यग्गजपुटे पचेत् ॥२.३०॥उद्धृत्य सम्पुटं चूर्ण्यं देवदाल्या द्रवैस्त्र्यहम् ।भङ्गीपुनर्नवाद्रावैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥२.३१॥तत्तुल्यं नागराच्चूर्णं क्षिप्त्वा मध्वाज्यसंयुतम् ।लिहेन्माषद्वयं नित्यं यावत्संवत्सरावधि ॥२.३२॥रसोऽयं उदयादित्यो जरामृत्युहरः परः ।पुनर्नवादेवदालीभृङ्गचूर्णं समं समम् ॥२.३३॥मध्वाज्याभ्यां लिहेत्कर्षं अनु स्यात्क्रामणं परम् ।पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥२.३४॥भृङ्गधात्रीफलद्रावैश्छायायां भावयेत्त्र्यहम् ।सितामध्वाज्यकैस्तुल्यं सर्वं भाण्डे निरोधयेत् ॥२.३५॥धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् ।भक्षयेच्च पिबेत्क्षीरं कर्षैकं त्रिफलां अनु ॥२.३६॥रात्रौ शुण्ठीं कणां खादेद्वर्षैकादमरो भवेत् ।जीवेद्ब्रह्मदिनं वीरः स्याद्रसो गगनेश्वरः ॥२.३७॥वटक्षीरैस्त्र्यहं मर्द्यं गन्धं शुद्धरसं समम् ।वटकाष्ठाग्निना पच्यान्मृत्पात्रे यामपञ्चकम् ॥२.३८॥क्षिपन्क्षिपन्वटक्षीरं तत्काष्ठेनैव चालयेत् ।समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥२.३९॥उष्णकाले तु गुञ्जैकं ताम्बूलपत्रसंयुतम् ।चन्द्रवृद्ध्या सदा भक्ष्यं यावत्षोडशगुञ्जकम् ॥२.४०॥चूर्णं उत्तरवारुण्या वाकुच्या देवदालिजम् ।मध्वाज्याभ्यां लिहेत्कर्षं क्रामकं ह्यनुपानकम् ॥२.४१॥वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् ।रसो वटेश्वरो नाम वज्रकायकरो नृणाम् ॥२.४२॥मृतं सूतं शुद्धगन्धं त्रिफलां गुग्गुलुं समम् ।सर्वं वातारितैलेन मिश्रं कर्षं लिहेत्सदा ॥२.४३॥षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम् ॥२.४४॥अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि ।सितायुक्तं पिबेच्चानु रसोऽयं अचलेश्वरः ॥२.४५॥रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् ।माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर्द्रवैः ॥२.४६॥सप्ताहं मर्दयेत्खल्वे तद्गोलं चान्धितं पुटेत् ।भूधरे दिनं एकं तु ख्यातः सिद्धरसः परः ॥२.४७॥माषैकं मधुना लेह्यं वर्षान्मृत्युजरापहम् ।दिव्यकायो नरः सिद्धो भवेद्विष्णुपराक्रमः ॥२.४८॥श्वेतपौनर्नवं मूलं क्षीरपिष्टं सदा पिबेत् ।भक्षयेद्वा सिता सार्धं क्रामकं परमे रसे ॥२.४९॥मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् ।दिनैकं कन्यकाद्रावैर्मर्दयित्वा निरोधयेत् ॥२.५०॥दिनैकं मधुना पच्यान्निष्कैकं मधुना लिहेत् ।गन्धामृतो रसो नाम वत्सरान्मृत्युजिद्भवेत् ॥२.५१॥समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् ।तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥२.५२॥एकीकृत्य पलैकैकं भक्षयेदनुपानकम् ।पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥२.५३॥तत्सर्वं भृङ्गजैर्द्रावैर्मर्दयेद्दिनसप्तकम् ।षड्वारं चाङ्कुलीतैलैर्भावयित्वाथ भक्षयेत् ॥२.५४॥माषमात्रं तु वर्षैकं रसोऽयं कालकण्टकः ।पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेदनु ॥२.५५॥जरामृत्युविनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ।मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥२.५६॥तुल्यांशं मधुसर्पिर्भ्यां लिहेद्गुञ्जात्रयं सदा ।षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥२.५७॥अश्वगन्धामूलचूर्णं सप्तभागघृतैः समम् ।भागाष्टकं गुडं तस्मिन्क्षिपेद्भागं च पिप्पलीम् ॥२.५८॥मृद्वग्निना च तत्सर्वं पिण्डितं भक्षयेत्पलम् ।क्रामकं ह्यमृतेशस्य रसराजस्य सिद्धये ॥२.५९॥त्रिगुणं शुद्धसूतस्य योजयेच्छुद्धगन्धकम् ।लोहपर्पटिकाचूर्णं सूततुल्यं विनिक्षिपेत् ॥२.६०॥स्नुह्यर्कपयसा मर्द्यं तत्सर्वं दिवसत्रयम् ।तच्छुष्कं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ॥२.६१॥ततश्च टङ्कणं काचं दत्त्वा रुद्ध्वा धमेद्दृढम् ।गुञ्जैकं मधुना खादेद्रसवीरो महारसः ॥२.६२॥अब्दैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ।मुसलीमूलचूर्णं तु गुञ्जापत्रद्रवैः पिबेत् ॥२.६३॥छागीमूत्रेण वा तं वै कर्षैकं क्रामकं परम् ।मृतसूतसमं गन्धं काकमाच्या द्रवैर्दिनम् ॥२.६४॥मर्दितं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ।दिव्यौषधदलद्रावैर्दिनं मर्द्यं तं अन्धयेत् ॥२.६५॥ध्मातं तस्मात्समुद्धृत्य तत्तुल्यं हाटकं मृतम् ।एकीकृत्य घृतैर्लेह्यं माषैकं वत्सरावधि ॥२.६६॥जरां मृत्युं निहन्त्याशु सत्यं काञ्चायनो रसः ।काकमाचीद्रवैर्भाव्यं चूर्णं धात्रीफलोद्भवम् ॥२.६७॥मधुना भक्षयेत्कर्षं अनु स्यात्क्रामकं परम् ।मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥२.६८॥शिग्रुमूलद्रवैर्मर्द्यं तद्गोलं भाण्डमध्यगम् ।रुद्ध्वा पच्याल्लघुत्वेन शाककाष्ठैर्दिनावधि ॥२.६९॥परानन्दो रसो नाम घृतैर्निष्कं सदा लिहेत् ।दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग्विपाचयेत् ॥२.७०॥तच्छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेदनु ।संवत्सरप्रयोगेण जीवेदाचन्द्रतारकम् ॥२.७१॥मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् ।लोहांशं शोधितं गन्धं भावयेद्दिनसप्तकम् ॥२.७२॥तत्सर्वं त्रिफलाक्वाथैर्भृङ्गशिग्रुकचित्रकैः ।द्रवैः पृथक्पृथग्भाव्यं सप्तधा सप्तधा क्रमात् ॥२.७३॥सप्तधा कटुकीक्वाथैर्भावितं चूर्णयेत्पुनः ।चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥२.७४॥सर्वमेकीकृतं खादेन्निष्कैकं वत्सरावधि ।महाकालो रसो नाम जराकालभयंकरः ॥२.७५॥तिलकोरण्टपत्त्राणि गुडेन भक्षयेदनु ।मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥२.७६॥त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः ।मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥२.७७॥तस्मिन्पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः ।मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥२.७८॥तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् ।जरामृत्युं निहन्त्याशु हेमपर्पटको रसः ॥२.७९॥अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् ।भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥२.८०॥स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् ।कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥२.८१॥तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् ।समं सूतान्मृतं वज्रं पादांशं तत्र योजयेत् ॥२.८२॥सर्वं जम्बीरजैर्द्रावैस्तप्तखल्वे विमर्दयेत् ।दिनैकं तं निरुध्याथ भूधरे पावयेद्दिनम् ॥२.८३॥उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद्द्रुतम् ।तच्चूर्णं मधुनाज्येन माषमात्रं लिहेत्सदा ॥२.८४॥रसः श्रीकण्ठनामायं खेचरत्वं प्रयच्छति ।संवत्सरप्रयोगेन जीवेत्कल्पान्तमेव च ॥२.८५॥तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥२.८६॥शुद्धताम्रस्य भागैकं द्विषट्शुद्धरसस्य च ।त्रयं भूनागसत्त्वस्य भागमेकत्र वारयेत् ॥२.८७॥सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् ।तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥२.८८॥कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च ।यावज्जीर्णं पुटे पच्यादेवं षड्गुणगन्धकम् ॥२.८९॥जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् ।यामं जम्बीरजैर्द्रावैस्ततो निश्चन्द्रमभ्रकम् ॥२.९०॥अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे ।षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥२.९१॥कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधि ।तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत् ॥२.९२॥दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् ।उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि ॥२.९३॥अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् ।एव पुनः पुनर्जार्यं गगनं सूततुल्यकम् ॥२.९४॥शिखिपित्तप्रलिप्तानि स्वर्णपत्त्राणि तस्य वै ।चतुःषष्ट्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ॥२.९५॥स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् ।इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै ॥२.९६॥ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् ।तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम् ॥२.९७॥ततो दिव्यौषधद्रावैस्तं सूतं मर्दयेत्त्र्यहम् ।वज्रमूषान्धितं धाम्यं बद्धं स्याच्चूर्णयेत्पुनः ॥२.९८॥मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् ।रसः खेचरबद्धोऽयं षण्मासान्मृत्युजिद्भवेत् ॥२.९९॥वलीपलितनिर्मुक्तो महाबलपराक्रमः ।सप्ताहं भृङ्गजैर्द्रावैर्नीलमुण्डीफलत्रयम् ॥२.१००॥भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु ।शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कञ्जलम् ॥२.१०१॥तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा ।सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः ॥२.१०२॥दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् ।आच्छाद्यैरण्डपत्त्रैस्तु यामार्धेऽत्युष्णतां व्रजेत् ॥२.१०३॥धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् ।कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डीचित्रकम् ॥२.१०४॥कोरण्टवाकुचीब्राह्मीसहदेवीपुनर्नवाः ।शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥२.१०५॥सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः ।कषायैर्भावितं चूर्ण्यं जातीफललवंगकम् ॥२.१०६॥त्रिकटु त्रिफला चैला चूर्णयेन्नवकं समम् ।तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम् ॥२.१०७॥वर्षैकं लेहयेन्नित्यं जराकालप्रशान्तये ।स्वयमग्निरसो नाम सिद्धानां सुमुखागतः ॥२.१०८॥तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् ।निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥२.१०९॥शतपुष्पा मुद्गपर्णी श्वेतार्को वानरी जया ।पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम् ॥२.११०॥एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् ।शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥२.१११॥वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ।तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत् ॥२.११२॥पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् ।रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत् ॥२.११३॥जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः ।वर्षैकेन न संदेहो रसकायो भवेन्नरः ॥२.११४॥भल्लातबीजचूर्णं च हयगन्धामृताघृतैः ।पलैकं भक्षयेच्चानु क्रामकं परमं हितम् ॥२.११५॥मृतसूताभ्रकं वज्रं कान्ततारार्कहाटकम् ।तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥२.११६॥सर्वं पालाशतैलेन मर्दयेद्दिनसप्तकम् ।महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा ॥२.११७॥षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।वत्सरात्सप्तकल्पानि जीवत्येव न संशयः ॥२.११८॥इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् ।तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥२.११९॥पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् ।क्रामकं ह्यनुपानं स्यात्सम्यक्छक्त्या प्रकाशितम् ॥२.१२०॥लोहितं वाथ वा कृष्णं वैक्रान्तं मारितं पलम् ।स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥२.१२१॥बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद्दिनम् ।शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका ॥२.१२२॥इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् ।तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद्दिनत्रयम् ॥२.१२३॥तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् ।सप्तधा भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्पुनः ॥२.१२४॥त्रिफलात्र्यूषमध्वाज्यैः समं चूर्णं विमिश्रयेत् ।माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥२.१२५॥सर्वरोगजरामृत्यून्वत्सरान्नाशयत्यलम् ।दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम् ॥२.१२६॥मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् ।पिबेन्निष्कद्वयां तक्रैः क्रामकं परमं शुभम् ॥२.१२७॥सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे ।अम्लवेतससम्पिष्टं तेनैव द्रुतिमाप्नुयात् ॥२.१२८॥एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् ।मर्दितं लेहयेन्माषं मासाद्बालो भवेन्नरः ॥२.१२९॥वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः ।वाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु ॥२.१३०॥चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् ।पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥२.१३१॥मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् ।शोधितं निक्षिपेत्तस्मिन्पूर्वोक्तैर्मर्दयेद्दिनम् ॥२.१३२॥माषमात्रां वटीं खादेद्वत्सरान्मृत्युजिद्भवेत् ।जीवेद्ब्रह्मदिनं वीरो रसोऽयं ब्रह्मपञ्जरः ॥२.१३३॥वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् ।शाल्मलीत्वग्दलद्रावैर्भावयेद्दिवसत्रयम् ॥२.१३४॥त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः ।पुरातनगुडैस्तुल्यं कर्षैकमनु भक्षयेत् ॥२.१३५॥रक्तभूमौ तु भूनागान्ग्राहयित्वा परीक्षयेत् ।छेदे निर्याति रक्तं चेत्तान्स्वीकुर्यात्प्रयत्नतः ॥२.१३६॥कृष्णवर्णागवाज्येन समेन सह तान्पचेत् ।लोहजे चालयन्पात्रे यावत्सिन्दूरवर्णकम् ॥२.१३७॥तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् ।मधुनालोडितं सर्वं गुञ्जार्धार्धं विवर्धयन् ॥२.१३८॥पश्चाद्गुञ्जां सदा खादेद्यावत्संवत्सरावधि ।शिवामृतो रसो नाम जरामृत्युहरो नृणाम् ।आयुर्ब्रह्मदिनं दत्ते शिवाम्बु पाययेदनु ॥२.१३९॥एवं दिव्यरसायनैः समुचितैः सारातिसारैः शुभैः सिद्धं देहमनेकसाधनबलाद्येषां तु दृष्टं मया ।तानाराध्य च तेषु सारमखिलं संगृह्य शास्त्रादपि भूपानां विदुषां महामतिमतां प्रोक्तं हितार्थाय वै ॥२.१४०॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP