संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.१६ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.१६ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.१६ Translation - भाषांतर यासां छेदेन रक्तं प्रवहति सततं प्रायशो रक्तभूमौ ।संग्राह्या भूलतास्ता विषहरधनदं पातयेत्तेषु सत्त्वम् ।तद्युक्त्या पारदेन्द्रे चरति यदि समं सारणाकर्मयोगैर्बद्धोऽयं कोटिवेधी समरविरजते योजयेद्भास्करे वा ॥१६.१॥{भूनागसत्त्व (१)}भूलता कांतपाषाणं चूर्णं कृत्वा समं समम् ।तत्सत्वमभ्रवद्ग्राह्यं तत्रत्यैरौषधैः सह ॥१६.२॥{भूनागसत्त्व (२)}सौवीरं कांतपाषाणं तीक्ष्णं पाषाणचूर्णकम् ।एतेषां तुल्यभूनागचूर्णमेकत्र कल्पयेत् ॥१६.३॥अभ्रवद्ग्राहयेत्सत्वं तत्रत्यैरौषधैर्धमन् ॥१६.४॥{भूनागसत्त्व (३)}कांतपाषाणसौवीरचूर्णं स्याद्भूलतासमम् ।अभ्रवद्ग्राहयेत्सत्वं रसराजस्य बन्धकम् ॥१६.५॥{भूनागसत्त्व (४)}सौवीरकांततीक्ष्णानां चूर्णं भूनागमृत्समम् ।धार्यं भाण्डे क्षिपेत्तस्मिन्सजीवा भूलता पुनः ॥१६.६॥उदकैः सेचयेन्नित्यं यावत्तद्भक्षयन्ति वै ।तत्सत्त्वं अभ्रवत्पिण्डं बद्ध्वा सत्वं समाहरेत् ॥१६.७॥{भूनागसत्त्व (५)}कांतपाषाणचूर्णं तु भूलताचूर्णसंयुतम् ।अजामूत्रैस्त्रिसप्ताहं भावयेदातपे खरे ।तत्पिण्डं धारयेत्कोष्ठ्यां सत्वं ग्राह्यं सुशोभनम् ॥१६.८॥{भूनागसत्त्व (६)}गोमूत्रं रजनी राजी लवणं कल्कयेत्समम् ।तेन सिञ्च्यात्तु भूनागं खरे घर्मे द्रवत्यलम् ॥१६.९॥कंकुष्ठं तद्द्रवं तुल्यं कृत्वा सत्वं समाहरेत् ।व्योमवत्क्रमयोगेन रसबन्धकरं भवेत् ॥१६.१०॥{भूनागसत्त्व (७)}गंधकं रसकं चूर्ण्य भूलताचूर्णतुल्यकम् ।वज्रमूषान्धितं ध्मातं सत्वं भवति शोभनम् ॥१६.११॥एतत्सत्वं विचूर्ण्याथ पूर्ववच्चाभिषेकितम् ॥१६.१२॥{भूनागतैल}दिनं भूनागसंतुल्यं मर्द्यं सौवीरमञ्जनम् ।पञ्चमाहिषसंमिश्रं कृत्वाथ वटकीकृतम् ।तस्मात्पातालयंत्रेण तैलं ग्राह्यं पुटेन वै ॥१६.१३॥{भूनागतैल}भूलतास्तु गवां मूत्रैः क्षालयेत्ताभिराहरेत् ।तैलं पातालयंत्रेण तत्तैलं जारणे हितम् ॥१६.१४॥{गुह्यसूत}तप्तखल्वे शुद्धसूतं जीवद्भूनागसंयुतम् ।त्रिदिनं मर्दयेद्गाढं तत्समस्तं समुद्धृतम् ॥१६.१५॥भूनागचूर्णयुक्तायां मूषायां संनिवेशयेत् ।तदूर्ध्वं भूलताचूर्णं दत्त्वा रुद्ध्वाथ शोषयेत् ॥१६.१६॥गर्तान्तर्गोमयं सार्धं क्षिप्त्वा मूषां निवेशयेत् ।पादमात्रं तु तां गर्भे करीषं तुषवह्निना ॥१६.१७॥पुटे पच्याद्दिनैकं तु समुद्धृत्याथ दापयेत् ।ऊर्ध्वाधो भूलताचूर्णं दत्त्वा तद्वत्पुटे पचेत् ॥१६.१८॥मासमात्रमिदं कुर्याद्भवेदग्निसहो रसः ।जायते मूर्तिबद्धस्य राक्षसो वडवामुखम् ॥१६.१९॥ग्रसते सर्वलोहानि सत्वानि विविधानि च ।वज्रादिसर्वलोहानि दत्तानि च मृतानि च ।गुह्यसूतमिदं ख्यातं वक्ष्यते चास्य जारणम् ॥१६.२०॥{चन्द्रार्क => गोल्द्}अस्यैव षोडशांशेन दत्त्वा भूनागसत्त्वकम् ।तप्तखल्वे दिनं मर्द्यं ततः सिद्धविडान्वितम् ॥१६.२१॥भूनागतैललिप्तायां मूषायां तन्निवेशयेत् ।रुद्ध्वा स्वेद्यं करीषाग्नौ जीर्णसत्वं च पूर्ववत् ॥१६.२२॥दत्त्वा मर्द्यं तप्तखल्वे विडं देयं दशांशतः ।पूर्ववल्लिप्तमूषायां जारयेत्स्वेदनेन वै ॥१६.२३॥एवं सत्वं समं जार्यं पूर्ववत्कच्छपेन वा ।गर्भद्रावेण बीजं च पूर्ववत्षड्गुणं शनैः ॥१६.२४॥जारयेद्द्रावितं गर्ते मूषायन्त्रे तु पूर्ववत् ।ततस्तु रंजकं बीजं जार्यं अस्यैव षड्गुणम् ॥१६.२५॥ततस्तु पक्वबीजेन सप्तशृङ्खलिकाक्रमात् ।सारणं जारणं कुर्यान्मुखं बद्ध्वा तु बन्धयेत् ॥१६.२६॥अनेन कोटिभागेन चंद्रार्कं कांचनं भवेत् ॥१६.२७॥{चोप्पेर्=> गोल्द्}गुह्यसूतं सुवर्णं च तुल्यमम्लेन मर्दयेत् ।यावद्गोलं तु तं कृत्वा सारणायां तु मध्यतः ॥१६.२८॥द्वयोस्तुल्यं तु भूनागसत्वं मूषागतं द्रुतम् ।तस्मिन्सत्वे तु तं ढाल्यं सर्वं खोटं भवेत्तु तत् ॥१६.२९॥भूनागतैललिप्तायां मूषायां चान्धितं पुटेत् ।यावत्सूतावशेषं स्यात्तावल्लघुपुटैः पचेत् ॥१६.३०॥एवं पुनः पुनः कुर्यात्लिप्त्वा मूषागतं पुटम् ।अथवा बिडलिप्तायां मूषायां चान्धितं पुटेत् ॥१६.३१॥यावत्सूतावशेषं स्यात्तावल्लघुपुटैः पचेत् ।गर्भद्रावणबीजं च समं तस्यैव सारयेत् ॥१६.३२॥सारणायन्त्रमध्ये तु पूर्ववज्जारयेत्ततः ।ततो व्योमादिसत्वानि तुल्यतुल्यानि तस्य वै ॥१६.३३॥मारितानि पृथग्भूयो जारितानि च कारयेत् ।ततस्तु रंजकं बीजं सारितं तस्य जारयेत् ॥१६.३४॥चतुर्गुणं यथा पूर्वं लिप्तमूषागतं पुटेत् ।तत्सार्यं पक्वबीजेन यथा पूर्वं क्रमेण वै ॥१६.३५॥सप्तशृङ्खलिकायोगान्मुखं बद्ध्वाथ बन्धयेत् ।कोटिभागेन तेनैव ताम्रं भवति कांचनम् ॥१६.३६॥{चन्द्रार्क => गोल्द्}भूनागसत्वसंतुल्यं गुह्यसूतं तु मर्दयेत् ।दिव्यौषधीद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ॥१६.३७॥तत्सर्वं वज्रमूषायां रुद्ध्वा सन्धिं विशोषयेत् ।कारीषाग्नौ दिवारात्रौ त्रिशतं वा तुषाग्निना ॥१६.३८॥स्वेदयेन्मृदुपाकेन समुद्धृत्याथ मर्दयेत् ।दिव्यौषधीद्रवैरेव तप्तखल्वे दिनावधि ॥१६.३९॥ततो रुद्ध्वा धमेद्गाढं खोटं भवति तद्रसः ।गुह्यसूतं पुनस्तुल्यं दत्त्वा तस्मिन्दिनत्रयम् ॥१६.४०॥मर्दयेत्स्वेदयेत्तद्वत्कुर्याद्बन्धं च पूर्ववत् ।तुल्येन कांजिकेनैव सारयेच्चाथ तेन वै ।वेधयेच्छतभागेन चंद्रार्कं कांचनं भवेत् ॥१६.४१॥{चन्द्रार्क, चोप्पेर्, लेअद्=> गोल्द्}रक्तवर्णं तु वैक्रांतं सुशुद्धं पलमात्रकम् ।व्याघ्रीकंदोदरे पच्याद्दोलायां हयमूत्रकैः ॥१६.४२॥अर्धयामात्समुद्धृत्य व्याघ्रीकंदद्रवैः पुनः ।भावयेत्सप्तधा घर्मे पश्चात्तत्समकांचने ॥१६.४३॥शुद्धसूतं पलैकं तु त्रयमेकत्र मर्दयेत् ।व्याघ्रीकंदद्रवैश्चाश्वमूत्रैर्यामचतुष्टयम् ॥१६.४४॥तद्गोलं हण्डिकायन्त्रे यामं लघ्वग्निना पचेत् ।उद्धृत्य मर्दयेद्यामं पूर्वद्रावैः समूत्रकैः ॥१६.४५॥शतं पलं स्वर्णपत्रे अनेनैव तु लेपयेत् ।रुद्ध्वा लघुपुटैः पच्याद्विंशद्वारं पुनः पुनः ॥१६.४६॥व्याघ्रीकंदद्रवैश्चाश्वमूत्रैश्चैव तु मर्दयेत् ।एतत्स्वर्णं साभिषिक्तं सत्ववत्समुखे रसे ॥१६.४७॥चारयेज्जारयेदेवं यावच्छतगुणं शनैः ।तद्रसं चाश्वमूत्रेण व्याघ्रीकंदद्रवेण च ॥१६.४८॥बीजैर्दिव्यौषधीनां च तप्तखल्वे विमर्दयेत् ।त्रिदिनान्ते समुद्धृत्य वज्रमूषान्धितं पुटेत् ॥१६.४९॥दिवारात्रौ करीषाग्नौ त्रिरात्रं च तुषाग्निना ।एवं पुनः पुनः कुर्यान्मर्दनं पुटपाचनम् ॥१६.५०॥सप्तधा तत्प्रयत्नेन तद्रसो म्रियते ध्रुवम् ।अनेनैवायुतांशेन क्रामणान्तेन वेधयेत् ॥१६.५१॥चंद्रार्कं वा द्रुतं ताम्रं नागं वा कांचनं भवेत् ।चारितं पूर्वसूतं यन्मारणेन विना तु तत् ॥१६.५२॥मारयेत्पक्वबीजानि त्रिधा तं जारयेत्क्रमात् ।पूर्ववद्बंधनत्वं च कृत्वा तं क्रामणेन वै ॥१६.५३॥योजयेल्लक्षभागेन चंद्रार्के द्राविते तु तम् ।स्वर्णं भवति रूपाढ्यं शंभुना परिकीर्तितम् ॥१६.५४॥{मेर्चुर्यः: कोटिवेधिन्}पीतवर्णं तु वैक्रांतं शुद्धं भाव्यं दिनावधि ।व्याघ्रीद्रवाश्वमूत्राभ्यां व्याघ्रीकंदगतं पचेत् ॥१६.५५॥दोलायंत्रे दिवारात्रं समुद्धृत्याथ चूर्णयेत् ।एतच्चूर्णं पलैकं तु सूते दशगुणे क्षिपेत् ॥१६.५६॥व्याघ्रीकंदद्रवैश्चाश्वमूत्रैर्मर्द्यं दिनावधि ।अनेन लेपयेत्स्वर्णपत्रं शतपलं पुनः ॥१६.५७॥वज्रमूषागतं रुद्ध्वा त्रिदिनं तुषवह्निना ।स्वेदयेद्वा दिवारात्रौ कारीषाग्नावथोद्धरेत् ॥१६.५८॥व्याघ्रीकंदाश्वमूत्राभ्यां मर्द्यं तद्वत्पुटे पचेत् ।एवं शतपुटैः पक्वं अभिषिक्तं च कारयेत् ॥१६.५९॥समुखे रसराजेन्द्रे चार्यमेतच्च जारयेत् ।व्योमसत्वक्रमेणैव यावत्शतगुणं शनैः ॥१६.६०॥मूषायन्त्रेऽथवा जार्यं यथा पूर्वं क्रमेण वै ।तत्रस्थस्य रसेन्द्रस्य गर्भद्रावणबीजकम् ॥१६.६१॥पूर्ववद्द्रावितं गर्ते क्रमाज्जार्यं चतुर्गुणम् ।तत्रस्थं पक्वबीजेन जारयेत्सप्तशृङ्खलैः ॥१६.६२॥मुखं बद्ध्वा रसं बद्ध्वा कोटिवेधी भवेद्रसः ॥१६.६३॥{चोप्पेर्=> सिल्वेर्}कृष्णवर्णं तु वैक्रांतं व्याघ्रीकंदोदरे क्षिपेत् ।अश्वमूत्रैर्दिनं स्वेद्यं तद्भागैकं विचूर्णयेत् ॥१६.६४॥शुद्धसूतस्य भागैकं तप्तखल्वे दिनावधि ।व्याघ्रीकंदद्रवैश्चाश्वमूत्रैश्चैव तु मर्दयेत् ॥१६.६५॥तारं दत्त्वा षडंशेन पुनस्तद्वच्च मर्दयेत् ।सर्वतुल्यं पुनः सूतं दत्त्वा तत्रैव मर्दयेत् ॥१६.६६॥जातं गोलं समुद्धृत्य निगलेन तु लेपयेत् ।वज्रमूषागतं रुद्ध्वा त्रिदिनं तुषवह्निना ॥१६.६७॥स्वेदयेद्वा दिवारात्रौ निर्वाते करिषाग्निना ।उद्धृत्य मर्दयेच्चाथ बीजैर्दिव्यौषधीद्रवैः ॥१६.६८॥त्रिदिनं तप्तखल्वे तु हयमूत्रेण संयुतम् ।पूर्ववल्लेपितं रुद्ध्वा तद्वत्पाच्यं पुटेन वै ॥१६.६९॥अनेन क्रमयोगेन सप्तधा पाचयेत्पुटैः ।अनेन वेधयेत्ताम्रं द्रावितं शतमांशतः ।पूर्ववत्क्रामणं दत्त्वा तारं भवति शोभनम् ॥१६.७०॥{चोप्पेर्=> सिल्वेर्}श्वेतवर्णं तु वैक्रांतं सुशुद्धं पूर्ववत्क्रमात् ।रक्तवैक्रांतयोगेन तारं तेनैव मारयेत् ॥१६.७१॥तत्तारं जारयेत्सूते तद्वच्छतगुणैः शनैः ।तद्वन्मार्यं पुटेनैव भवेदयुतवेधकः ॥१६.७२॥तद्वत्वै तारबीजेन सारितं जारयेत्क्रमात् ।मुखं बद्ध्वा रसं बद्ध्वा लक्षवेधी भवेद्रसः ॥१६.७३॥द्रुते ताम्रे प्रदातव्यं तत्तारं जायते शुभम् ॥१६.७४॥{सिल्वेर्=> गोल्द्}ताम्रवर्णं तु वैक्रांतं शुद्धहिंगुलसंयुतम् ।मर्दयेदम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥१६.७५॥अनेन स्वर्णपत्राणि प्रलिप्तानि पुटे पचेत् ।समुद्धृत्य पुनर्मर्द्यमम्लवर्गेण संयुतम् ॥१६.७६॥पचेत्सप्तपुटैरेवं तद्भस्म पलमात्रकम् ।शुद्धसूतपलैकं तु दिव्यौषधीद्रवैस्त्र्यहम् ॥१६.७७॥मर्दितं कारयेद्गोलं निर्मलेन च लेपयेत् ।रुद्ध्वा दिनत्रयं स्वेद्यं करीषतुषवह्निना ॥१६.७८॥ततो दिव्यौषधीद्रावैर्मर्दितं निगलेन च ।रुद्ध्वा लिप्त्वा धमेद्गाढं बंधमायाति निश्चितम् ॥१६.७९॥अनेन शतमांशेन तारं भवति कांचनम् ॥१६.८०॥{सिल्वेर्=> गोल्द्}रक्तवैक्रांतसत्वं तु सह हेम्ना तु चूर्णयेत् ।द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ॥१६.८१॥तत्खोटं वाभिषिक्तं तु समुखे जारयेद्रसे ।अभ्रसत्वप्रकारेण जारयेत्पारदं समम् ॥१६.८२॥तद्रसं पक्वबीजेन सारयेत्पूर्ववत्त्रिधा ।तद्वच्च जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ॥१६.८३॥सहस्रांशेन तेनैव तारं भवति कांचनम् ॥१६.८४॥{सिल्वेर्, चोप्पेर्, लेअद्=> गोल्द्}रक्तवैक्रांतसत्वं च शुद्धसूतं समं समम् ।मर्द्यं दिव्यौषधीद्रावैस्तप्तखल्वे दिनत्रयम् ॥१६.८५॥ततो निगललिप्तायां मूषायां चान्धितं पुटेत् ।करीषाग्नौ दिवारात्रौ त्रिदिनं च तुषाग्निना ॥१६.८६॥समुद्धृत्य पुनर्लेप्यं तद्गोलं निगलेन च ।मूषान्ते लवणं दत्त्वा रुद्ध्वा संधिं विशोषयेत् ॥१६.८७॥पुनश्च लवणं दत्त्वा रुद्ध्वा संधिं विशोषयेत् ।लेपयेत्शंखचूर्णेन तां मूषां सर्वतोऽङ्गुलम् ।कोष्ठीयन्त्रे हठाद्धाम्यं बद्धो भवति तद्रसः ॥१६.८८॥तारे ताम्रे भुजंगे वा सहस्रांशेन वेधयेत् ।जायते कनकं दिव्यं देवाभरणमुत्तमम् ॥१६.८९॥{चपलाभेदाः}रक्ता पीता सिता कृष्णा चपला तु चतुर्विधा ।वैक्रांतस्य प्रकारेण शोध्याः स्यू रसबन्धकाः ॥१६.९०॥{चपलाः: वेध wइथ्~}लांगली करवीराग्निगिरिकर्णी च टंकणम् ।सौवीराञ्जनतुल्यांशं नारीस्तन्येन पेषयेत् ॥१६.९१॥वज्रमूषोदरं तेन लेपयेत्सर्वतोऽङ्गुलम् ।चपला रक्तपीता वा भागमेकं विचूर्णयेत् ॥१६.९२॥सुवर्णभागाश्चत्वारो द्विभागं शुद्धपारदम् ।दिव्यौषधीद्रवैर्मर्द्यं सर्वमेतद्दिनत्रयम् ॥१६.९३॥पूर्वमूषां निरुध्याथ छायाशुष्कं धमेद्धठात् ।तत्सर्वं जायते खोटं शतांशेन तु तेन वै ॥१६.९४॥सुशुद्धं वेधयेन्नागं भवेद्गुंजानिभं तु तत् ।नागेनानेन शुल्बं तु शतांशेनैव वेधयेत् ॥१६.९५॥अरुणाभं भवेच्छुल्बं तेन शुल्बेन वेधयेत् ।शुद्धतारं शतांशेन तत्तारं कांचनं भवेत् ॥१६.९६॥तद्वच्च जारणा कार्या मुखं बद्ध्वाथ बन्धयेत् ।सहस्रांशेन तेनैव तारं भवति कांचनम् ॥१६.९७॥सुशुद्धं वेधयेन्नागं भवेद्गुंजानिभं च तत् ।नागेनानेन शुल्बं तु शतांशेनैव वेधयेत् ॥१६.९८॥{लेअद्=> चोप्पेर्=> सिल्वेर्=> गोल्द्}षड्भागं चपलाचूर्णं तारं स्यात्सप्तभागकम् ।भागाष्टकं सुवर्णं च नवभागं च पारदम् ॥१६.९९॥सर्वं दिव्यौषधीद्रावैर्मर्दयेद्दिवसत्रयम् ।तद्गोलं निगलेनैव सर्वतो लेपयेद्घनम् ॥१६.१००॥लांगली करवीराग्निगृध्रविष्ठा समं समम् ।पेषयेन्मातुलिंगाम्लैस्तेन मूषां प्रलेपयेत् ॥१६.१०१॥तद्रुद्ध्वा पूर्ववद्गोलं धमेत्खोटं भवेत्तु तत् ।तेनैव तु शतांशेन नागे वेधं प्रदापयेत् ॥१६.१०२॥तेन नागेन शुल्बं च शतांशेनैव वेधयेत् ।ताम्रेण वेधयेत्तारं पूर्ववत्कांचनं भवेत् ॥१६.१०३॥{सिल्वेर्=> गोल्द्}पलैकं शुद्धसूतं च काचपात्रे विनिक्षिपेत् ।पूर्ववज्जारितं गंधं क्षिपेत्तस्मिन्पलत्रयम् ॥१६.१०४॥जंबीराणां द्रवं दत्त्वा गंधतुल्यं शनैः पचेत् ।वालुकाभाण्डमध्ये तु यावज्जीर्यति गंधकम् ॥१६.१०५॥पूर्वसंस्कृतधान्याभ्रं पलमेकं च तत्र वै ।क्षिप्त्वा जंबीरनीरं च बिडं दत्त्वाथ पाचयेत् ॥१६.१०६॥जीर्णे यावद्भवेत्तत्तु ह्यम्लं तावत्क्षिपन्पचेत् ।तस्मिन्स्वर्णं पलैकं तु चूर्णितं चाभिषेकितम् ॥१६.१०७॥क्षिपेत्तस्मिन्विडं चाथ देयं जंबीरसंयुतम् ।पचेज्जीर्णं भवेद्यावत्तत्रैव मृदुवह्निना ॥१६.१०८॥बिडमम्लं क्षिपन्नेव जीर्णे चोद्धृत्य मर्दयेत् ।त्रिदिनं तप्तखल्वे तु दिव्यौषधीद्रवैर्युतम् ॥१६.१०९॥मूलमीश्वरलिङ्ग्युत्थं शिग्रुमूलं च पेषयेत् ।वज्रमूषामनेनैव लिप्त्वा पूर्वरसं क्षिपेत् ॥१६.११०॥रुद्ध्वा स्वेद्यं करीषाग्नावहोरात्रात्समुद्धरेत् ।पूर्ववन्मर्दितं रुद्ध्वा धमेद्बद्धो भवेद्रसः ॥१६.१११॥चतुःषष्टितमांशेन दत्ते तारमनेन वै ।वेधयेज्जारयेद्दिव्यं कांचनं सिद्धसंमतम् ॥१६.११२॥{सिल्वेर्=> गोल्द्}शतनिष्कं शुद्धसूतं दशनिष्कं तु गंधकम् ।क्षणं कन्याद्रवैर्मर्द्यं पातनायंत्रगं पचेत् ॥१६.११३॥ऊर्ध्वलग्नं समादाय गंधकं दशनिष्ककम् ।दत्त्वा मर्द्यं पुनस्तद्वद्यंत्रे पच्यात्समुद्धरेत् ॥१६.११४॥एवं पुनः पुनः कुर्यादेकविंशतिवारकम् ।गौरीयन्त्रे तु तत्सूतं क्षिप्त्वा देयं तु गंधकम् ॥१६.११५॥भावितं पूर्वयोगेन विंशत्यंशेन चूर्णितम् ।रुद्ध्वा लघुपुटे पच्याज्जीर्णे गंधं प्रदापयेत् ॥१६.११६॥एवं पुनः पुनर्जार्यं यथाशक्ति क्रमेण वै ।जीर्णे शतगुणे गन्धे शतवेधी भवेद्रसः ॥१६.११७॥सहस्रगुणिते जीर्णे सहस्रांशेन वेधयेत् ।लक्षजीर्णे लक्षवेधी कोटिवेधी भवेद्रसः ॥१६.११८॥जीर्णे कोटिगुणे गन्धेऽप्येवं स्यादुत्तरोत्तरम् ।सारयेत्पक्वबीजेन पूर्ववज्जारयेत्क्रमात् ॥१६.११९॥मुखं बद्ध्वा रसं बद्ध्वा तारे वेधं प्रदापयेत् ।जायते कनकं दिव्यं देवाभरणभूषणम् ॥१६.१२०॥भूसत्त्वकैः परमगुह्यतमैः ससूतैर्वैक्रान्तकैः सचपलै रसगंधकैश्च ।दृष्ट्वानुभूय सकलं सुखसाध्ययोगैः सम्यक्सुवर्णकरणं गदितं सुधीनाम् ॥१६.१२१॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP