संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.२० रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.२० रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.२० Translation - भाषांतर साङ्गोपाङ्गं अनेकयोगनिचयं सारं वरं चोद्धृतं युक्तं पारदबन्धनं मृदुहठात्दृष्टं परं यन्मया ।तत्सर्वं सुगमं प्रवच्मि सहसा सिद्धाननादागतं प्रत्यक्षानुभवेन वार्तिकगणैः साम्राज्यदं वीक्ष्यतात् ॥२०.१॥{पारदबन्धन (१)}शुद्धपारदभागैकं टङ्कणेन समं समम् ।मर्दयेत्त्रिफलाक्वाथैर्नरमूत्रैर्युतैस्ततः ॥२०.२॥कर्षांशा गुलिकाः कृत्वा माषचूर्णैर्जलान्वितैः ।सूतादृष्टगुणैर्लिप्त्वा छायाशुष्कां धमेद्दृढम् ॥२०.३॥कोष्ठीयन्त्रे वंकनाले किट्टं भित्त्वा समाहरेत् ।रसोऽसौ वर्तुलाकारः षण्डबद्धो भवत्यलम् ॥२०.४॥{पारदबन्धनं (२)}आरण्यमल्लिकाद्रावैर्मूषां कन्याद्रवैश्च वा ।द्रवैर्हरिणखुर्या वा नरमूत्रयुतं रसम् ॥२०.५॥त्रिदिनं मर्दयेत्खल्वे मूत्रं दत्त्वा पुनः पुनः ।तद्वटीं माषपिष्टेन लिप्त्वा धाम्यं च पूर्ववत् ॥२०.६॥तद्वत्सूतो भवेद्बद्धस्तच्छोध्यं काचटंकणैः ॥२०.७॥{पारदबन्धनं (३)}मर्कटीमूलजद्रावैः पारदं मर्दयेद्दिनम् ।मर्कटीमूलजे पिण्डे क्षिपेत्तन्मर्दितं रसम् ॥२०.८॥तत्पिण्डे वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ।जायते खोटबद्धोऽयं सर्वकार्यकरक्षमः ॥२०.९॥{पारदबन्धनं (४)}अर्कमूलं रविक्षीरैः पिष्ट्वा मूषां घनं क्षिपेत् ।तन्मध्ये जारितं सूतं क्षिप्त्वा रुद्ध्वाथ रोधयेत् ॥२०.१०॥मृण्मये संपुटे तं च निरुन्ध्याल्लोहसंपुटे ।ततो गजपुटे पच्यात्पारदो बन्धमाप्नुयात् ॥२०.११॥{पारदबन्धनं (५)}जलकुम्भ्या द्रवैः सूतं मर्दयेद्दिवसत्रयम् ।जलकुम्भ्या दलैर्मूषां कृत्वा तत्र क्षिपेत्तु तत् ॥२०.१२॥रुद्ध्वा तां वज्रमूषायां छायाशुष्कां पुटेल्लघु ।उत्पलैकैकवृद्ध्या तु विंशद्वारं पुटैः पचेत् ॥२०.१३॥ततो गजपुटं देयं सम्यग्बद्धो भवेद्रसः ॥२०.१४॥{पारदबन्धनं (६)}एकवीराद्रवैर्मर्द्यं त्रिदिनं शुद्धपारदम् ।एकवीराकन्दकल्कैर्वज्रमूषां प्रलेपयेत् ।तस्यां पूर्वरसं रुद्ध्वा ध्माते बद्धो भवेद्रसः ॥२०.१५॥{पारदबन्धनं (७)}आरक्तक्षीरकंदोत्थद्रवैस्त्रीन्स्तन्यसंयुतैः ।त्रिदिनं पारदं मर्द्यं वज्रकंदद्रवैस्त्र्यहम् ॥२०.१६॥क्षीरकंदस्य कल्केन वज्रमूषां प्रलेपयेत् ।तत्र पूर्वरसं रुद्ध्वा ध्माते बद्धो भवेद्रसः ॥२०.१७॥{पारदबन्धनं (८)}कृत्वा ताम्रमयं चक्रं विस्तीर्णं चतुरङ्गुलम् ।उन्नतं चाङ्गुलीकं तु सुदृढं वर्तुलं समम् ॥२०.१८॥गंधकं पारदं तुत्थं कुर्यात्खल्वेन कज्जलीम् ।तत्कज्जलं ताम्रतुल्यं मूषामध्ये विनिक्षिपेत् ॥२०.१९॥तं चक्रं मूषिकावक्त्रे दत्त्वा रुद्ध्वाथ शोषयेत् ।तं पचेद्धण्डिकायंत्रे द्वियामं लघुवह्निना ॥२०.२०॥उद्धृत्य ग्राहयेच्चक्राद्रसराजं पुनः पुनः ।तत्तुल्यं टंकणं काचमूर्ध्वाधस्तस्य दापयेत् ॥२०.२१॥अंधमूषागतं धाम्यमेवं वारत्रये कृते ।रसेन्द्रो जायते बद्धो ह्यक्षीणो नात्र संशयः ॥२०.२२॥{पारदबन्धनं (९)}शुद्धसूतं समं गंधं द्वाभ्यां तुल्यं च तालकम् ।मर्द्यमुन्मत्तकद्रावैः खल्वे यामचतुष्टयम् ॥२०.२३॥पातयेत्पातनायंत्रे दिनैकं मन्दवह्निना ।ऊर्ध्वलग्नमधःस्थं च तत्सर्वं तु समाहरेत् ॥२०.२४॥मर्द्यं उन्मत्तकद्रावैर्दृढं यामचतुष्टयम् ।तद्गोलं पूर्ववत्पाच्यं पुनरादाय मर्दयेत् ॥२०.२५॥पुनः पाच्यं पुनर्मर्द्यं ऊर्ध्वाधःस्थं प्रयत्नतः ।सर्वं यावदधो भाण्डे तिष्ठते तावतावधिः ॥२०.२६॥तत्सर्वं पूर्ववन्मर्द्यं गोलं कृत्वाथ शोषयेत् ।सम्यक्संपेषयेदम्लैर्नलिकं कुष्ठमेव च ॥२०.२७॥पीताञ्जनं वा पेष्यं च तेन गोलं प्रलेपयेत् ।वज्रमूषोदरे चाथ तेन कल्केन लेप्य वै ॥२०.२८॥गोलकं तापयेत्तत्र वंकनालेन तं धमन् ।खोटबद्धो भवेत्साक्षात्तीव्रधामानलेन तु ॥२०.२९॥{पारदबन्धनं (१०)}पलं सूतं पलं नागं द्वाभ्यां तुल्या मनःशिला ।पूर्ववत्क्रमयोगेन खोटबद्धो भवेद्रसः ॥२०.३०॥{पारदबन्धनं (११)}नागं तारं समं द्राव्यं तच्चूर्णं पलमात्रकम् ।शुद्धसूतं पलैकं च सर्वतुल्या मनःशिला ।पूर्ववत्क्रमयोगेन खोटबद्धो भवेद्रसः ॥२०.३१॥{मेर्चुर्यः: बन्धन}पलं सूतं पलं तारं पिष्टमम्लेन केनचित् ।द्वाभ्यां तुल्या शिला योज्या पूर्वयोगेन पाचयेत् ॥२०.३२॥{मेर्चुर्यः: बन्धन}तारवत्स्वर्णपिष्टीं च गंधकेन च पूर्ववत् ॥२०.३३॥{मेर्चुर्यः: बन्धन}कृष्णाभ्रकस्य सत्वं च तीक्ष्णं कांतं च हाटकम् ।शुल्बं तारं च माक्षीकं समं सूक्ष्मं विचूर्णयेत् ।वज्रमूषागतं रुद्ध्वा ध्माते खोटं भवेत्तु तत् ॥२०.३४॥{मेर्चुर्यः: बन्धन}श्वेताभ्रकस्य सत्वं च तारं तीक्ष्णं च माक्षिकम् ।समं चूर्ण्य कृतं खोटं खोटांशं शुद्धसूतकम् ॥२०.३५॥हरितालं द्वयोस्तुल्यं सूक्ष्मं मर्द्यं च पूर्ववत् ।महदग्निगतं ध्मातं खोटं भवति तद्रसम् ॥२०.३६॥{मेर्चुर्यः: बन्धन}पारदं गंधकं तुल्यं मर्द्यं कन्याद्रवैर्दिनम् ।तद्गोलं द्विगुणं गंधं दत्त्वा मूषाधरोत्तरम् ॥२०.३७॥रुद्ध्वा संधिं विशोष्याथ कोष्ठीयन्त्रे दृढं धमन् ।तत्सूतं जायते खोटं गन्धबद्धमिदं भवेत् ॥२०.३८॥{मेर्चुर्यः: बन्धन}पञ्चाङ्गं राजवृक्षस्य क्वाथमष्टावशेषितम् ।तद्द्रवं तु रसे क्षिप्त्वा पाच्यं यामद्वयं शुभम् ॥२०.३९॥चोवाबद्धो भवत्येष खोटो वै सर्वकार्यकृत् ॥२०.४०॥{मेर्चुर्यः: बन्धन}चन्द्रवल्ल्या द्रवैर्मर्द्यं त्रिदिनं शुद्धपारदम् ।टंकणेन तु संयोज्य वटिकां कारयेद्बुधः ।कोष्ठयन्त्रगतं ध्मातं खोटबद्धो भवेद्रसः ॥२०.४१॥{मेर्चुर्यः: बन्धन}भल्लातकानां तैलान्तः पलमेकं क्षिपेद्रसम् ।यावत्तैलं पचेत्तावद्रविक्षीरं क्षिपन्क्षिपन् ॥२०.४२॥घट्टयेल्लोहदण्डेन खोटबद्धो भवेद्रसः ॥२०.४३॥{... पारदबन्धनं (२०)}द्रवैः समूलकार्पास्यास्त्रिदिनं मर्दयेत्समम् ।टंकणेन पादांशेन वटिकाः कारयेल्लघु ॥२०.४४॥वल्मीकमृत्तिकामाषगोधूमानां च चूर्णकम् ।समं मर्द्योदकेनैव मूषां तेनैव कारयेत् ॥२०.४५॥तदन्तर्मर्दितं सूतं वटीं क्षिप्त्वा धमेद्दृढम् ।खोटबद्धो भवेत्सोऽपि अंधमूषागतो रसः ॥२०.४६॥{पारदबन्धनं (२१)}रसं पञ्चगुणं चैव द्विगुणं श्वेतटंकणम् ।श्वेतवातारितैलानां मज्जामश्वस्य कोमला ॥२०.४७॥त्रिदिनं मर्दयेत्खल्वे नरमूत्रेण साधकः ।ततो गोधूमचूर्णं तु क्षिप्त्वा कुर्याद्वटीः शुभाः ॥२०.४८॥विशोष्याथ धमेत्पश्चात्काचटंकणयोगतः ।खोटबद्धो भवेत्सूतस्तेजस्वी सर्वकार्यकृत् ॥२०.४९॥{पारदभस्म (१)}कर्कोटी लाङ्गलीकंदद्रवैर्मर्द्यं दिनत्रयम् ।वंध्याकर्कोटकीकंदे तं रसं तु निवेशयेत् ॥२०.५०॥कंदबाह्ये मृदा लेप्यं सर्वतोऽङ्गुलमात्रकम् ।शुष्कं तुषपुटे पच्यात्त्रिदिनं परिवर्तयन् ॥२०.५१॥समुद्धृत्य पुनर्मर्द्यं पूर्वकंदद्रवैस्त्र्यहम् ।पूर्ववत्पुटपाकेन पारदो जायते मृतः ॥२०.५२॥{पारदभस्म (२)}हंसपाद्या द्रवैर्मर्द्यं सप्ताहं शुद्धपारदम् ।क्षीरकंदोदरान्तर्वै क्षिप्त्वा कंदं मृदा लिपेत् ॥२०.५३॥करीषाग्नौ दिनं पच्यात्पूर्ववन्मर्दयेत्पुनः ।कंदे क्षिप्त्वा पचेत्तद्वत्ततो मर्द्यं च पूर्ववत् ॥२०.५४॥क्षीरकंदोदरे रुद्ध्वा मृदा लिप्तं च शोषयेत् ।सम्यग्गजपुटे पच्यात्मृतो भवति निश्चितम् ॥२०.५५॥{पारदभस्म (३)}हंसपादीक्षीरकंदद्रवैर्मर्द्यं दिनत्रयम् ।रसं तत्क्रौञ्चपादान्तः क्षिप्त्वा पादं मृदा लिपेत् ॥२०.५६॥करीषाग्नौ दिनं पच्यान्मर्द्यात्पूर्वद्रवैस्त्र्यहम् ।दिनं तद्वत्पुटे पच्यात्पुनर्मर्द्यं च पाचयेत् ।जायते भस्मसूतोऽयं सर्वकार्यकरक्षमः ॥२०.५७॥{मुखकरणम्; सिल्वेर्, चोप्पेर्, लेअद्=> गोल्द्}उक्तानां खोटबद्धानां मुखं कुर्यात्तदुच्यते ।वचा चण्डालिनीकंदं ब्रह्मदण्डीयमूलकम् ॥२०.५८॥गंधकं टंकणं तुल्यं भानुदुग्धेन पेषयेत् ।चणमात्रां वटीं कृत्वा पूर्वसूते द्रुते क्षिपेत् ॥२०.५९॥एकां एकां धमन्नेव वटिकासप्तकं क्रमात् ।ग्रसते सर्वलोहानि यथेष्टानि न संशयः ॥२०.६०॥ग्रासो देयो यथाशक्त्या पूर्ववन्मारयेत्पुनः ।मुखं बद्ध्वा नियुञ्जीत तारे ताम्रे भुजंगमे ॥२०.६१॥तत्सर्वं जायते स्वर्णं वेधो दशगुणो मतः ।सिद्धयोगः समाख्यातः सम्यग्दृष्ट्वा गुरोर्मुखात् ॥२०.६२॥{चोप्पेर्=> गोल्द्}सूताभ्रं गंधकं शुद्धं तृणज्योतोयमूलकम् ।तत्सर्वं मातुलिंगाम्लैर्दिनं एकं समं समम् ॥२०.६३॥शुद्धानि ताम्रपत्राणि तेन कल्केन लेपयेत् ।रुद्ध्वा गजपुटे पच्यात्पुनरुत्थाप्य लेपयेत् ॥२०.६४॥एवं पुटत्रये पक्वं तत्ताम्रं कांचनं भवेत् ॥२०.६५॥{चोप्पेर्=> गोल्द्}रक्तस्नुहीपयोभिश्च ताम्रपत्राणि लेपयेत् ।कारयेदग्नितप्तानि तस्मिन्क्षीरे निषेचयेत् ॥२०.६६॥इत्येवं सप्तधा कुर्याल्लेपतापनिषेचनम् ।समावर्त्य तु तत्ताम्रं दिव्यं भवति कांचनम् ॥२०.६७॥{चोप्पेर्, लेअद्, सिल्वेर्=> गोल्द्}रसकं दरदं गंधं गगनं कुनटी समम् ।आरक्तस्नुक्पयोभिस्तन्मर्दयेद्दिवसत्रयम् ॥२०.६८॥तेन वेध्यं द्रुतं ताम्रं नागं वा तारमेव वा ।सहस्रांशेन तद्दिव्यं सुवर्णं जायते ध्रुवम् ॥२०.६९॥{नागस्य स्वर्णम्}रक्तस्नुहीभवैः क्षीरै रजनीं मर्दयेत्त्र्यहम् ।तेन नागस्य पत्राणि प्रलिप्तानि पुटे पचेत् ।पुनर्लेप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् ॥२०.७०॥{चोप्पेर्=> लेअद्}पद्मिनीपत्रपुष्पाभा विज्ञेया स्थलपद्मिनी ।भङ्गे रक्तं स्रवेत्क्षीरं ज्ञात्वा तामुद्धरेत्ततः ॥२०.७१॥पारदं गंधकं तालं माहिषी कुनटी समम् ।पूर्वोक्तपद्मिनीयुक्तं मर्दयेद्दिनसप्तकम् ।तेन शुल्बं भवेत्स्वर्णं सहस्रांशेन वेधितम् ॥२०.७२॥{तारबीजकल्कः}नागं बंगं तीक्ष्णसारं तारं च क्रमश उत्तरम् ।पञ्चानां तु समं ताम्रं सर्वं मूषागतं धमेत् ॥२०.७३॥प्रकटं वंकनालेन यावत्तारावशेषितम् ।तत्तारं पद्मरागाभं जायते द्रावयेत्पुनः ॥२०.७४॥वेध्यं रसकसत्वेन पञ्चमांशेन यत्नतः ।तद्भवेत्कांचनं दिव्यं सिद्धयोग उदाहृतः ॥२०.७५॥{तिन्=> सिल्वेर्}रक्तचित्रकपञ्चाङ्गं छायाशुष्कं विचूर्णयेत् ।तद्वापं द्रुतबंगस्य रुद्ध्वा रुद्ध्वा त्रिवारकम् ॥२०.७६॥देयं तज्जायते तारं शंखकुन्देन्दुसन्निभम् ॥२०.७७॥{चोप्पेर्=> गोल्द्}रक्तचित्रकमूलं तु कांजिकं शुद्धपारदम् ।कङ्गुणीतैलसंयुक्तं सर्वं कल्कं प्रलेपयेत् ॥२०.७८॥ताम्रपत्राणि तप्तानि तस्मिन्सिञ्चेत्त्रिसप्तधा ।एतत्ताम्रं द्विषड्भागं तारं षोडशभागकम् ॥२०.७९॥एकीकृत्य समावर्त्य तेन पत्राणि कारयेत् ।रक्तचित्रकमूलानि भल्लाततैलपेषितम् ॥२०.८०॥अनेन पूर्वपत्राणि प्रलिप्तानि पुटे पचेत् ।एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ॥२०.८१॥{चोप्पेर्=> गोल्द्}नागिनीकन्दसूतेन्द्ररक्तचित्रकमूलकम् ।पिष्ट्वा तेनैव पत्राणि पूर्वोक्तानि प्रलेपयेत् ।तद्वत्पच्यात्पुटैरेवं दिव्यं भवति कांचनम् ॥२०.८२॥{चोप्पेर्=> गोल्द्}ज्योतिष्मतीभवैस्तैलैस्ताम्रकुम्भं प्रपूरयेत् ।मुखं रुद्ध्वा क्षिपेद्भूमौ पृष्ठे तुषपुटं सदा ॥२०.८३॥एवं षण्मासपर्यन्तं पुटयेदुद्धरेत्क्रमात् ।बहिस्तुषपुटे पच्यात्त्रिदिनं तद्दिवनिशम् ॥२०.८४॥तत्ताम्रं हाटकं तुल्यं समावर्तं तु कारयेत् ।क्षिप्ते ज्योतिष्मतीतैले सर्वं भवति कांचनम् ॥२०.८५॥{चोप्पेर्=> गोल्द्}क्षीरकन्दभवे क्षीरे तप्तं ताम्रं निषेचयेत् ।शतवारं प्रयत्नेन तत्ताम्रं कांचनं भवेत् ॥२०.८६॥{सिल्वेर्=> गोल्द्}गंधकं रसकं ताप्यं पारदं रक्तचन्दनम् ।मर्द्यं रुदन्तिकाद्रावैरविच्छिन्नं दिनत्रयम् ॥२०.८७॥तेन तारस्य पत्राणि लिप्त्वा रुद्ध्वा पुटे पचेत् ।इत्येवं सप्तधा कुर्यात्दिव्यं भवति कांचनम् ॥२०.८८॥{चोप्पेर्=> गोल्द्}कृष्णाया वाथ पीताया देवदाल्या फलद्रवम् ।विष्णुक्रान्ताद्रवं तुल्यं कृत्वा तेनैव मर्दयेत् ॥२०.८९॥सप्ताहं पारदं शुद्धं ततस्ताम्रं प्रलेपयेत् ।रुद्ध्वा गजपुटे पच्यात्ततस्तीव्राग्निना धमेत् ॥२०.९०॥दशांशं तद्रसं क्षिप्त्वा दिव्यं भवति कांचनम् ॥२०.९१॥{सोफ़्तेनिन्गोफ़् फ़िस्सुरेद्मिनेरल्स्}वसुभट्टरसेनाथ त्रिधा सिञ्चेत्सुतापितम् ।लोणवत्स्फुटितो धातुर्मृदुः स्यात्सिक्थको यथा ॥२०.९२॥{तिन्=> सिल्वेर्}देवदाल्या फलं मूलं ईश्वरीफलजद्रवम् ।पिष्ट्वा तत्कल्कवापेन द्रुतं बंगं दृढं भवेत् ॥२०.९३॥भूयो भूयस्त्वयं वाप्यस्तारं भवति शोभनम् ॥२०.९४॥{चोप्पेर्=> गोल्द्}कृष्णपक्षे चतुर्दश्यामष्टम्यां ग्रहणेऽथवा ।नृकपाले श्वेतगुंजां वापयेच्छुद्धभूमिषु ॥२०.९५॥सेचयेत्सलिलं नित्यं यावत्फलवती भवेत् ।मन्त्रपूजां ततः कृत्वा पुष्ये ग्राह्य फलानि वै ॥२०.९६॥शुद्धताम्रपलं श्वेतं विंशत्युत्तरकं शतम् ।एकैकं पूर्वबीजानां सम्यग्रुद्ध्वा धमेद्दृढम् ॥२०.९७॥तत्ताम्रं जायते तारं शंखकुन्देन्दुसन्निभम् ।तारं तज्जायते स्वर्णं सुशुद्धा बद्धरीतिका ॥२०.९८॥{चोप्पेर्=> सिल्वेर्}भूनागानां रसैर्मर्द्यं शुद्धं तालं दिनावधि ।तत्पिण्डं हण्डिकामध्ये तालकांशं निरोधयेत् ॥२०.९९॥ताम्रपत्राणि तत्पश्चात्ढङ्कणेन निरुध्य च ।हंडिका भस्मना पूर्या रुद्ध्वा चण्डाग्निना पचेत् ॥२०.१००॥पञ्चयामात्समुद्धृत्य निष्कटंकणसंयुतम् ।मूकमूषागतं धाम्यं गुटिकां तां समुद्धरेत् ॥२०.१०१॥स्वांगशीतं समाहृत्य मूषायां प्रकटं धमेत् ।वारत्रयं क्षिपेत्तस्मिन्वटिकां वेधनान्मुखम् ॥२०.१०२॥मुखं तस्य भवेत्तीव्रं शुद्धं बंगं द्रवत्यलम् ।यदा न ग्रसते तस्माद्वटी देया पुनः पुनः ॥२०.१०३॥जीर्णे शतगुणे वङ्गे ततरताम्रस्य दापयेत् ।द्रुतस्य शतभागेन तत्तारं जायते शुभम् ॥२०.१०४॥{नागमुखकरणम्}गंधकं धूमसारं च फट्करी टंकणं समम् ।एरण्डबीजमज्जापि सर्वेषां द्विगुणा भवेत् ॥२०.१०५॥भूनागाः सर्वतुल्याः स्युः सर्वमेकत्र मर्दयेत् ।चणमात्रा वटीः कार्या ख्यातेयं वडवामुखा ॥२०.१०६॥शुद्धनागं द्रुतं क्षेप्यं तैले एरण्डके पुनः ।द्राव्यं द्राव्यं पुनः क्षेप्यं यावद्वारं शृतं भवेत् ॥२०.१०७॥पुनस्तस्मिन्द्रुते देया वटिका वडवामुखा ।द्वित्रिवारं प्रयत्नेन नागस्येत्थं मुखं भवेत् ॥२०.१०८॥ग्रसते सर्वलोहानि सत्वानि विविधानि च ।यदा न ग्रसते तस्माद्वटी देया पुनः पुनः ॥२०.१०९॥{कठिनधातोर्मृदूकरणम्}मधूकपुष्पी यष्टीकं रंभाकंदं घृतं गुडम् ।तिलतैलं अजाक्षीरं क्षौद्रं च तुल्यतुल्यकम् ॥२०.११०॥तन्मध्ये कठिनं धातु त्रिधा सिञ्च्यात्सुतापितम् ।मृदुत्वं याति नो चित्रं सूत्रयोग्यं न संशयः ॥२०.१११॥{कठिनधातोर्मृदूकरणं (२)}वसुभद्ररसेनाथ त्रिधा सिञ्च्य सुतापितम् ।लोणवत्स्फुटितो धातुर्मृदुः स्यात्सिक्थकोपमः ॥२०.११२॥{कठिनधातोर्मृदूकरणं (३)}अतिस्थूलस्य भेकस्य निवार्यान्त्राणि तत्र वै ।चूर्णितं टंकणं क्षिप्त्वा तद्भाण्डस्थं खनेद्भुवि ॥२०.११३॥त्रिसप्ताहं समुद्धृत्य तद्वापे मृदुतां व्रजेत् ।स्वर्णं वा यदि वा रौप्यं मृदु स्यात्पत्रयोग्यकम् ॥२०.११४॥{अभ्रग्रासी रसः}तृणज्योतीयमूलेन मातुलिंगरसेन च ।त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ॥२०.११५॥{गुह्याख्यसूतेन नागवेधः}भूनागसूक्ष्मचूर्णं तु टंकणेन समं भवेत् ।तच्चूर्णं तु द्रुते नागे वाह्यं शतगुणं धमन् ॥२०.११६॥गुह्याख्यं तद्भवेत्सिद्धं ग्रासं तस्यैव वक्ष्यते ।शिलागंधकमाक्षीकैर्भूनागद्रवपेषितैः ॥२०.११७॥मूषागर्भं लिपेत्तेन गुह्याख्यं तत्र निक्षिपेत् ।भुक्तं तस्मिन्क्षिपेत्स्वर्णं स्तोकं स्तोकं धमन्धमन् ॥२०.११८॥ग्रसते भारसंख्या तु मूषा लेप्या पुनः पुनः ।मुञ्चत्यसौ द्रुते नागे गुह्याद्गुह्यं प्रकाशितम् ॥२०.११९॥{गुह्याख्यसूतेन वङ्गवेधः}भूनागं टंकणं तुल्यं सूक्ष्मचूर्णानि कारयेत् ।तं वाहयेद्द्रुते बंगे यावच्छतगुणं धमन् ॥२०.१२०॥ततः शतगुणं बंगं तस्यैवोपरि वाहयेत् ।स्तोकं स्तोकं धमन्नेव ग्रसते नात्र संशयः ॥२०.१२१॥{गुह्यवङ्गकरणं तेन वेधः}तालकं सैंधवं तुल्यं भूनागद्रवपेषितम् ।मूषागर्भे लिपेत्तेन तद्बंगं तत्र निक्षिपेत् ॥२०.१२२॥स्तोकं स्तोकं क्षिपेत्तस्मिन्बिडं दत्त्वा धमन्धमन् ।भारसंख्या ग्रसत्येवं गुह्यवङ्गमिति स्मृतम् ॥२०.१२३॥द्रुते बंगे विनिक्षिप्तं यावत्संख्या न संशयः ।तावद्द्रुते न संदेहः सिद्धयोग उदाहृतः ॥२०.१२४॥क्षिप्त्वाथ माहिषे शृङ्गे मर्दयन्नग्निना पचेत् ।निष्कमेकं भवेद्यावत्तावन्मर्द्यं क्षिपन्क्षिपन् ॥२०.१२५॥तद्भवेद्रसतुल्यं तु समादायाथ तत्समम् ॥२०.१२६॥{गुह्ययोगः}पारदं शुद्धहेमाथ सत्वं भूनागसंभवम् ।चत्वारिंशन्नागभागा मर्द्यं जंबीरजद्रवैः ॥२०.१२७॥तद्गोलकं विशोष्याथ कल्के भूनागसंभवे ।मूषागर्भे विलेप्यादौ तस्यां गोलं निरोधयेत् ॥२०.१२८॥धमेत्तीव्राग्निना तावद्यावन्नात्रावशेषितम् ।सर्ववद्ग्रसते दत्ते गुह्याख्यं योगमुत्तमम् ॥२०.१२९॥{कामधेनुः (१)}अथातः सम्प्रवक्ष्यामि गुटिकाबंधमुत्तमम् ।समजीर्णं कृतं व्योम समतो रसं जारयेत् ॥२०.१३०॥रविसंख्यांशकं शुल्बं दत्त्वा पिष्टिं च कारयेत् ।धान्याभ्रकसमं गंधं शुल्बे क्षिप्त्वा विमर्दयेत् ॥२०.१३१॥तयोर्मूषाकृतिं कृत्वा पिष्टीमध्ये विमोचयेत् ।नरमांसेन संवेष्ट्य माषपिष्ट्या तथैव च ॥२०.१३२॥पचेदतसीतैलेन मासमात्रं तु साधकः ।अक्षया कामधेनुश्च वङ्गस्तम्भनकारिणी ॥२०.१३३॥{कामधेनुः (२)}पारदे जार्यं कृष्णाभ्रं रुक्मं अष्टगुणं यदि ।रञ्जितं गन्धरागेण नरमांसेन वेष्टितम् ॥२०.१३४॥माषपिष्ट्या प्रलिप्याथातसीतैलेन पाचयेत् ।कामधेनुरियं ख्याता नागस्तम्भनकारिणी ॥२०.१३५॥{कामधेनुः (३)}रसात्पादांशकं हेमपिष्टिं कुर्याच्च सुन्दराम् ।विलिप्य कामधेनुं च नागद्रावे नियोजयेत् ॥२०.१३६॥तं नागं कुरुते रुक्मं वाञ्छितार्थेषु सिद्धिदम् ।गुटिकां कामधेनुं तां प्रत्यहं धारयेन्मुखे ।शस्त्रास्त्रैर्न च भिद्येत दिव्यदेहमवाप्नुयात् ॥२०.१३७॥{सिल्वेर्=> गोल्द्}शिलया मारितो नागः सूतराजसमन्वितः ।रञ्जितो गन्धरागेण समहेम्ना च सारयेत् ।तारवेधः प्रदातव्यो दिव्यं भवति कांचनम् ॥२०.१३८॥{लेअद्=> गोल्द्}शिलया रविदुग्धेन नागपत्राणि लेपयेत् ।मारयेत्पुटयोगेन दिव्यं भवति कांचनम् ॥२०.१३९॥{सितस्वर्ण => गोल्द्}मेषीक्षीराम्लवर्गाभ्यां दरदं घर्मभावितम् ।शतधा तत्प्रयोगेन शोष्यं पेष्यं खरातपे ॥२०.१४०॥सितस्वर्णस्य पत्राणि लिप्त्वा लिप्त्वा पुटे पचेत् ।एवं त्रिसप्तधा कुर्याद्दिव्यं भवति कांचनम् ॥२०.१४१॥{गगनग्रासः}तृणजातीयमूलं तु मातुलिङ्गरसेन च ।त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ॥२०.१४२॥सिद्धैर्गणैः सुरवरै रससिद्धिकामैर्बद्धं हठात्परममन्त्रबलेन तैश्च ।तस्माद्विशिष्टं अनुजैः कृतमन्त्रजापैः कार्यं ततो रसवरे वरबन्धनं च ॥२०.१४३॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP