संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.७ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.७ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.७ Translation - भाषांतर धातुसत्त्वयुतपिष्टिकाक्रमस्तम्भनं च निगडेन लेपनम् ।खोटबन्धकृतविद्रुतिं तथा वेधयुक्तिरखिला निगद्यते ॥७.१॥{पिष्टिगोलम्}दिव्यौषधद्रवैर्मर्द्यं तप्तखल्वे दिनत्रयम् ।शुद्धं सूतं ततो घर्मे शोष्यं स्वच्छं समाहरेत् ॥७.२॥स्वर्णनागार्ककान्तं च तीक्ष्णं वङ्गं च रूप्यकम् ।यथेष्टैकं विचूर्ण्यादौ व्योमसत्त्वं अथापि वा ॥७.३॥पूर्वसूतेन संतुल्यं याममम्लेन मर्दयेत् ।महारसाष्टकादेकं सूततुल्यं विनिक्षिपेत् ॥७.४॥दिव्यौषधीद्रवैरेव यामात्स्विन्नातपे खरे ।मर्दयेत्खल्वके गाढं तद्गोलं वस्त्रवेष्टितम् ॥७.५॥गन्धतैले दिनं पच्यात्ततो वस्त्रात्समुद्धरेत् ।पिष्टिगोलमिदं ख्यातं तथान्यमतमुच्यते ॥७.६॥{पिष्टिगोल}पूर्वं यन्मर्दितं सूतं तस्य भागत्रयं भवेत् ।नागद्वयं यथेष्टैकं तस्मिन्नागं विनिक्षिपेत् ॥७.७॥वैक्रान्तं कुण्डगोलं च दिव्यौषधिद्रवं तथा ।मर्द्यं यामत्रयं खल्वे छायाशुष्कं तु गोलकम् ॥७.८॥कृत्वाथ बन्धयेद्वस्त्रे गन्धतैले दिनं पचेत् ।वस्त्रमध्यात्समुद्धृत्य पिष्टिगोलमिदं भवेत् ॥७.९॥{पिष्टिगोलः: निगड}अथास्य पिष्टिगोलस्य निगडः प्रोच्यते शुभः ।गुग्गुलुं ब्रह्मबीजानि तैस्तुल्यं चैव सैन्धवम् ॥७.१०॥स्नुह्यर्कपयसा मर्द्यं निगडोऽयं महोत्तमः ।{पिष्टिगोलः: निगड}पालाशं कोकिलाक्षस्य बीजानि सैन्धवं तथा ॥७.११॥उन्मत्तनीलिजैर्द्रावैर्मर्द्यः स्यान्निगडोत्तमः ।{पिष्टिगोलः: निगड}अभ्रकं सैन्धवं ताप्यं वालूमृल्लोहकिट्टकम् ।स्नुह्यर्कपयसा पिष्टं यामान्ते निगडो भवेत् ॥७.१२॥{पिष्टिगोलः: निगड}वाकुचीब्रह्मधत्तूरबीजानि चाम्लवेतसम् ॥७.१३॥काकविट्कदलीकन्दतालगन्धमनःशिला ।गुग्गुलुं पञ्चलोणानि गोजिह्वा कोकिलाक्षकम् ॥७.१४॥तिक्तकोशातकी नीली विषमुष्टीन्द्रवारुणी ।जीरद्वयं कर्कटास्थि स्त्रीरजोमूत्रमिश्रितम् ॥७.१५॥स्नुह्यर्कक्षीरतैलैश्च मर्द्यं यामद्वयं दृढम् ।व्यस्तं वाथ समस्तं वा निगडोऽयं महोत्तमः ।{मेर्चुर्यः: खोट}एतेष्वेकेन तद्गोलं लेप्यमङ्गुलमात्रकम् ॥७.१६॥मूषायां बिल्वमात्रायां लोणं किंचिदधः क्षिपेत् ॥७.१७॥लिप्तं गोलं क्षिपेत्तस्यां ऊर्ध्वं लोणं च दापयेत् ।रुद्ध्वा मृल्लवणैः सन्धिं सर्वतो दग्धशङ्खकैः ॥७.१८॥मूषालेपः प्रकर्तव्यः छायाशुष्कं तु कारयेत् ।करीषाग्नौ दिवारात्रौ त्रिरात्रं वा तुषाग्निना ॥७.१९॥मृदुना स्वेदयेत्पश्चात्समुद्धृत्याथ लेपयेत् ।सम्यङ्निगडकल्केन पूर्वमूषां निरोधयेत् ॥७.२०॥ऊर्ध्वाधो लवणं दत्त्वा रुद्ध्वा लेप्या च पूर्ववत् ।छायाशुष्कं धमेद्गाढं रसो भवति खोटताम् ॥७.२१॥सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा धमेद्दृढम् ।तच्छुद्धं जायते खोटं अभीक्ष्णं नात्र संशयः ॥७.२२॥इत्येवं सर्वसत्त्वैश्च पिष्टिकां कारयेत्पृथक् ।पूर्ववत्क्रमयोगेन खोटो भवति तद्रसः ॥७.२३॥{मेर्चुर्यः: खोट}भागद्वयं सुवर्णस्य त्रिभागं पारदस्य च ।पूर्ववत्कारयेत्पिष्टीं तद्वत्खोटं च शोधयेत् ॥७.२४॥इत्येवं पिष्टिखोटानि कृत्वा सर्वत्र योजयेत् ।{विडवटी}तत्खोटं स्वर्णसंतुल्यं समावर्तं तु कारयेत् ।माक्षिकं कान्तपाषाणं शिलागन्धं समं समम् ॥७.२५॥भूनागैर्मर्दयेद्यामं चणमात्रवटीकृतम् ।एषा विडवटी ख्याता योज्या सर्वत्र जारणे ॥७.२६॥एकैकं वाहयेत्सूते धाम्यमाने पुनः पुनः ।एवं दशगुणं हेम जारयेत्तत्क्रमेण तु ॥७.२७॥प्रकाशमूषागर्भे तु ग्रसते वडवानलः ।{मेर्चुर्यः: रञ्जन, => शतवेधिन्}माक्षिकं दरदं गन्धं राजावर्तं प्रवालकम् ।शिला तुत्थं च कङ्कुष्ठं समं चूर्णं प्रकल्पयेत् ॥७.२८॥वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह ।भावयेद्दिवसान्पञ्च सूर्यतापे पुनः पुनः ॥७.२९॥जारितं सूतखोटं तु कल्केनानेन संयुतम् ।वालुकाहण्डिमध्यस्थं श्रावसंपुटमध्यगम् ॥७.३०॥त्रिदिनं पाचयेच्चुल्ल्यां कल्कं देयं पुनः पुनः ।रञ्जितो जायते सूतः शतवेधी न संशयः ॥७.३१॥तारे ताम्रे भुजङ्गे वा चन्द्रार्के वाथ योजयेत् ।जायते कनकं दिव्यं जाम्बूनदसमप्रभम् ॥७.३२॥{द्रुतसूत}पिष्टिखोटं सूक्ष्मचूर्णं स्त्रीपुष्पेण तु भावयेत् ।दिनत्रयं खरे घर्मे शुक्तौ वा नालिकेरजे ॥७.३३॥मीनाक्षी कदलीकन्दं श्वेता रक्ता पुनर्नवा ।शिलाजतु ससिन्धूत्थं नारीपुष्पेण मर्दयेत् ॥७.३४॥पूर्ववद्भावितं खोटं तस्मिन्पिण्डे विनिक्षिपेत् ।पूर्ववद्भावितं खोटं तस्मिन्पिण्डं विनिक्षिपेत् ॥७.३५॥मुखं तत्पिण्डकल्केन रुद्ध्वा पिण्डं च बन्धयेत् ।भूर्जपत्त्रं त्र्यहं पच्याद्दोलायन्त्रे सकाञ्जिके ॥७.३६॥द्रुतं सूतं भवेत्साक्षात्पुनस्तस्मिंश्च दापयेत् ।पूर्ववद्भावितं खोटं खोटपादं पुनः पुनः ॥७.३७॥निक्षिपेत्पूर्वपिण्डे तु तद्वत्पच्याद्दिनत्रयम् ।एवं पुनः पुनर्देयं पिष्टिं खोटं सुभावितम् ॥७.३८॥आरोटस्य समं यावत्तावद्देयं द्रुतं भवेत् ।{द्रुतसूत}आर्द्रकं मूलकं शुण्ठी लशुनं हिङ्गुमाक्षिकम् ॥७.३९॥त्रिक्षारं पञ्चलवणं काङ्क्षी कासीसगन्धकम् ।अम्लवर्गेण संयुक्तं मर्द्यं पिण्डं तु कल्पयेत् ॥७.४०॥तस्मिन्पिण्डे यथा पूर्वं द्रुतं सूतं तु कारयेत् ।मार्जारी चेश्वरी गुञ्जा कुक्कुटी क्षीरकन्दकम् ॥७.४१॥एतेषां पिण्डमध्ये तु पूर्ववद्भावयेद्रसम् ।द्रुतसूतमिदं ख्यातं सर्वकर्मसु योजयेत् ॥७.४२॥{चन्द्रार्क => गोल्द्(wइथ्द्रुतसूत)}द्रुतसूतस्य भागौ द्वावेकं कृष्णाभ्रसत्त्वकम् ।भागं रसकसत्त्वस्य कृष्णोन्मत्तद्रवैर्दिनम् ॥७.४३॥मर्दितं कारयेद्गोलं गोलपादं मृतं पविम् ।दत्त्वाथ मर्दयेद्यामं सर्वमुन्मत्तवारिणा ॥७.४४॥रुद्ध्वाथ भूधरे पच्यात्पुटैकेन समुद्धरेत् ।पूर्वांशं द्रुतसूतं तु तं दत्त्वा मर्दयेत्पुनः ॥७.४५॥धत्तूरोत्थद्रवैर्यामं तद्वत्पच्याच्च भूधरे ।इत्येवं सप्तवाराणि सूतं दत्त्वा पुनः पुनः ॥७.४६॥भूधरे पाचयेद्यन्त्रे भस्मीभवति तद्रसः ।तेनैव शतभागेन क्षौद्रेण सह पेषयेत् ॥७.४७॥चन्द्रार्कजातपत्राणि अन्धमूषागतं धमेत् ।स्वर्णं भवति रूपाढ्यं जाम्बूनदसमप्रभम् ॥७.४८॥{लेअद्=> गोल्द्}तद्भस्म गन्धकं तुल्यमन्धमूषागतं धमेत् ।वेध्यं तेन शतांशेन नागं भवति काञ्चनम् ॥७.४९॥{चन्द्रार्क => गोल्द्}रसकाभ्रकयोः सत्त्वं द्रुतं सत्त्वं समं समम् ।त्रयाणां पलमेकं तु सिद्धचूर्णेन संयुतम् ॥७.५०॥मर्द्यमुन्मत्तकद्रावैर्दिनैकं चान्धितं धमेत् ।तत्खोटं चूर्णितं मर्द्यं मातुलुङ्गाम्लगन्धकैः ॥७.५१॥रुद्ध्वा गजपुटे पच्यादेवं वारांस्त्रयोदश ।मर्द्यं मर्द्यं पचेद्रुद्ध्वा आरण्योत्पलकैः क्रमात् ॥७.५२॥चन्द्रार्कशतभागेन मधुनाक्तेन तेन वै ।लिप्त्वा रुद्ध्वा धमेद्गाढं स्वर्णं भवति शोभनम् ॥७.५३॥{चोप्पेर्=> गोल्द्}रसकाभ्रकयोः सत्त्वं द्रुतसूतं च टङ्कणम् ।सर्वमेतत्समं मर्द्य कृष्णोन्मत्तद्रवैर्दिनम् ॥७.५४॥छायाशुष्कां वटीं कृत्वा महदग्निगतां धमेत् ।तत्खोटं शोधयेत्पश्चात्सितकाचेन टङ्कणैः ॥७.५५॥स्वर्णेन च समावर्त्य समेन जारयेत्ततः ।पूर्वा विडवटी या तु तामेकैकां प्रदापयेत् ॥७.५६॥धमन्प्रकटमूषायां यावत्सूतावशेषितम् ।ततः शुद्धसुवर्णेन सारयेत्सारणात्रयम् ॥७.५७॥वेध्यं तेन शतांशेन शुल्वं भवति काञ्चनम् ।{सिल्वेर्=> गोल्द्}भागैकं द्रुतसूतस्य सारणायन्त्रके क्षिपेत् ॥७.५८॥तस्माच्चतुर्गुणं नागं शुद्धं तद्द्रावितं पृथक् ।तस्मिन्यन्त्रे विनिक्षिप्य जातं खोटं समाहरेत् ॥७.५९॥तत्तुल्यं माक्षिकं शुद्धमेकीकृत्य विमर्दयेत् ।दिनं धत्तूरजैर्द्रावैर्मृद्भाण्डे पाचयेत्ततः ॥७.६०॥यावत्कुङ्कुमवर्णं स्यात्तावच्चुल्ल्यां समुद्धरेत् ।एतस्यैव पलैकं तु सिद्धचूर्णेन संयुतम् ॥७.६१॥रुद्ध्वा ध्माते भवेत्खोटं मध्वम्लैर्मर्दयेद्दिनम् ।आरण्योत्पलकैरेव रुद्ध्वा मधुपुटैः पचेत् ॥७.६२॥अनेन मधुयुक्तेन तारपत्राणि लेपयेत् ।रुद्ध्वा धाम्यं पुनर्लेप्यं त्रिभिर्वारैस्तु काञ्चनम् ॥७.६३॥जायते दिव्यरूपाढ्यं सत्यं शंकरभाषितम् ।माक्षिकस्य त्वभावे तु वैक्रान्तं वात्र योजयेत् ॥७.६४॥{मृत लेअद्, सिल्वेर्=> गोल्द्}द्रुतसूतं हिङ्गुलं च कङ्कुष्ठं गन्धकं शिला ।एकद्वित्रिचतुःपञ्चपलानि क्रमतो भवेत् ॥७.६५॥गोपित्तेन तु तत्सर्वं मर्द्यं यामचतुष्टयम् ।शुद्धानि नागपत्राणि सममानेन लेपयेत् ॥७.६६॥रुद्ध्वा गजपुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।समेन पूर्वकल्केन रुद्ध्वा तद्वत्पुटे पचेत् ॥७.६७॥एवं शतपुटैः पक्वो म्रियते पन्नगो ध्रुवम् ।अनेन शतभागेन तारवेधात्तु काञ्चनम् ॥७.६८॥{सिल्वेर्(+ मृतनाग अन्द्गोल्द्) => गोल्द्}तेन वा मृतनागेन ह्यम्लपिष्टेन लेपयेत् ।समांशं स्वर्णपत्रं तु रुद्ध्वा गजपुटे पचेत् ॥७.६९॥नागं पुनः पुनर्देयमेवं देयं पुटत्रयम् ।अनेन मृतहेम्ना तु द्रुतं तारं तु वेधयेत् ॥७.७०॥सहस्रांशेन तत्सिद्धं दिव्यं भवति कांचनम् ॥७.७१॥{मेर्चुर्यः: खोटबन्ध}द्रवैस्तुम्बरुवल्ल्यास्तु धान्याभ्रं सप्तधातपे ।भावयेत्खोटयेत्पश्चात्कर्षैके द्रुतसूतके ॥७.७२॥माषमात्रं क्षिपेदेतत्तप्तखल्वे विमर्दयेत् ।गोस्तनाकारमूषायां क्षिप्त्वा मृद्वग्निना पचेत् ।वालुकायन्त्रमध्ये तु जीर्णे वापं पुनः क्षिपेत् ।इत्येवं जारयेत्तुल्यं खोटबद्धो भवेद्रसः ॥७.७३॥{चोप्पेर्=> गोल्द्}अस्य बद्धस्य माषैकं माषार्धं शुद्धहाटकम् ।शुद्धसूतस्य माषार्धं सर्वमेकत्र मर्दयेत् ॥७.७४॥त्रिदिनं मातुलुङ्गाम्लैरेतत्कल्केन लेपयेत् ।कर्षैकं नागपत्राणि वृश्चिकाल्यास्तथा द्रवैः ॥७.७५॥लिप्त्वा तत्पातनायन्त्रे पाचयेद्दिवसत्रयम् ।पिष्ट्वा दिनावधि ॥७.७६॥अनेन तारपत्राणि कर्षमेकं प्रलेपयेत् ।पूर्ववत्पातनायन्त्रे पाचयेद्दिवसत्रयम् ॥७.७७॥अनेनैव द्रुतं शुल्बं सहस्रांशेन वेधयेत् ।जायते कनकं दिव्यं देवाभरणभूषणम् ॥७.७८॥{मेर्चुर्यः: मारणः: wहिते चोलोउर्}क्षीरेणोत्तरवारुण्यास्त्रिदिनं शुद्धपारदम् ।मर्दयेत्तप्तखल्वे व तं [... औ५ Zएइछेन्झ्] ॥७.७९॥करीषाग्नौ दिवारात्रौ त्रिदिनं वा तुषाग्निना ।समुद्धृत्य पुनर्मर्द्यं तद्वद्रुद्ध्वाथ पाचयेत् ॥७.८०॥तद्वन्मर्द्यं पुनः पाच्यं म्रियते पाण्डुरो रसः ।{चन्द्रार्क => गोल्द्}आर्द्रकं तुवरी सिन्धुकङ्गुणीतैलकं मधु ॥७.८१॥अम्लवेतसमेतैस्तु तद्रसं मर्दयेद्दिनम् ।गोलकं बन्धयेद्वस्त्रे दोलायन्त्रे त्र्यहं पचेत् ॥७.८२॥कङ्गुणीतैलमध्ये तु बद्धो भवति तद्रसः ।तद्रसं हाटकं नागं समं रुद्ध्वा धमेद्दृढम् ॥७.८३॥तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् ।अम्लैर्मर्द्यं भवेद्गोलं काञ्जिकैः स्वेदयेद्दिनम् ॥७.८४॥गंधकस्य त्रयो भागा गंधतुल्यं सुवर्चलम् ।कृष्णाभ्रकं तु भागैकं सर्वं स्तन्येन पेषयेत् ॥७.८५॥अनेन लेपितं गोलं अंधमूषागतं धमेत् ।यावत्सूतावशेषं स्यात्तावद्धाम्यं पुनः पुनः ॥७.८६॥पूर्वचूर्णं पुनर्दत्त्वा तद्वज्जार्यं क्रमेण तु ।इत्येवं हाटकं यावज्जारितं त्रिगुणं भवेत् ॥७.८७॥स्वर्णेन च समावर्त्य सारणात्रयसारितम् ।चन्द्रार्कं वेधयेत्तेन शतांशात्कांचनं भवेत् ॥७.८८॥{चोप्पेर्=> गोल्द्}पिष्टीखोटसमं स्वर्णं स्वर्णतुल्यं च पन्नगम् ।कान्तलोहं व्योमसत्त्वं एकैकं पन्नगार्धकम् ॥७.८९॥एकीकृत्य धमेत्तावद्यावत्स्वर्णावशेषितम् ।दत्त्वा विडवटीं चैव सारयेत्सारणात्रयम् ॥७.९०॥शतांशेन ह्यनेनैव शुल्बं भवति काञ्चनम् ।{मेर्चुर्यः: बन्धः: खोट}सुवर्णं रजतं ताम्रं कान्तं तीक्ष्णं च माक्षिकम् ।कृष्णाभ्रकस्य सत्त्वं च समं रुद्ध्वा धमेद्दृढम् ॥७.९१॥तत्खोटं सूक्ष्मचूर्णं तु पादांशं द्रुतपारदम् ।दत्त्वाथ मर्दयेदम्लैर्यावद्भवति गोलकम् ॥७.९२॥गोलकस्य चतुर्भागा भागैकं मृतवज्रकम् ।मर्दयेत्तप्तखल्वे तु दिनैकं कन्यकाद्रवैः ॥७.९३॥रुद्ध्वाथ भूधरे पच्याद्दिनान्ते तु समुद्धरेत् ।तन्मध्ये द्रुतसूतं च पुनः कन्यासु मर्दयेत् ॥७.९४॥पूर्ववद्भूधरे पच्यादेवं देयं तु सप्तधा ।द्रुतसूतं क्रमेणैव मर्दनं च पुटं तथा ॥७.९५॥तद्भस्म गंधतुल्यं च ह्यंधमूषागतं धमेत् ।जायते खोटबद्धं तु रञ्जनं चास्य कथ्यते ॥७.९६॥{तारारिष्ट, चन्द्रार्क, माक्षिक => गोल्द्}कृष्णाभ्रसत्त्वं वङ्गं च द्वंद्वं मेलापयेद्द्रुतम् ।तुल्यांशमंधमूषायां ध्मातं खोटं भवेत्तु तत् ॥७.९७॥तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ।मर्दयेद्गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ॥७.९८॥पुनर्मर्द्यं पुनः पाच्यं एवं वारांश्चतुर्दश ।अनेन पूर्वखोटे तु द्रावितं रञ्जयेत्क्रमात् ॥७.९९॥रञ्जयेच्छतवाराणि भवेत्कुंकुमसन्निभम् ।सुवर्णेन समावर्त्य सारयेत्सारणात्रयम् ॥७.१००॥सहस्रांशेन तेनैव तारारिष्टं च वेधयेत् ।चन्द्रार्कं ताप्यशुल्बं तु दिव्यं भवति कांचनम् ॥७.१०१॥{लेअद्, सिल्बेर्=> गोल्द्}तीक्ष्णं शुल्बं समं चूर्ण्य वज्रमूषान्धितं धमेत् ।तत्खोटं पलमेकं तु सिद्धचूर्णेन संयुतम् ॥७.१०२॥मर्दयेद्गंधकाम्लेन रुद्ध्वा गजपुटे पचेत् ।पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ॥७.१०३॥तद्देयं द्राविते स्वर्णे शतवारं पुनः पुनः ।पक्वबीजं भवेत्तत्तु द्रुतसूते समं दिनम् ॥७.१०४॥मर्दयेदम्लयोगेन तस्य भागचतुष्टयम् ।एवं वज्रस्य भागैकं तप्तखल्वे दिनावधि ॥७.१०५॥मर्दयेत्कन्यकाद्रावैस्तद्रुद्ध्वा भूधरे पचेत् ।द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटे ततः ॥७.१०६॥इत्येवं सप्तधा देयं द्रुतसूतं पुटान्तकम् ।ततस्तं मर्दयेदम्लै रुद्ध्वा मूषां पुटेत्तथा ॥७.१०७॥पुनर्मर्द्यं पुनः पाच्यं षष्ट्याधिकशतत्रयम् ।पुटं देयं प्रयत्नेन जायते सिन्दूरप्रभम् ॥७.१०८॥सहस्रांशेन नागस्य द्रुतस्य रजतस्य च ।देयो वेधो भवेत्स्वर्णं दिव्याभरणमुत्तमम् ॥७.१०९॥{सिल्वेर्=> गोल्द्}गंधकं सूक्ष्मचूर्णं तु चणकाम्लेन भावयेत् ।शतवारं प्रयत्नेन स्त्रीपुष्पेण तु सप्तधा ॥७.११०॥द्रुतपारदमध्ये तु किंचित्कर्पूरसंयुतम् ।गंधकं दापयेद्घर्मे वापयेत्ताम्रखल्वके ॥७.१११॥कर्पूरं गंधकं चैव किंचित्किंचित्पुनः पुनः ।त्रिसप्ताहं प्रदातव्यं जायते गन्धपिष्टिका ॥७.११२॥कटुकोशातकीबीजं चाण्डालीकन्दसंयुतम् ।स्तन्येन पेषितं तुल्यं पिष्टीं तेन प्रलेपयेत् ॥७.११३॥बाह्ये तु मृत्तिका लेप्या सर्वतोऽङ्गुलमात्रकम् ।शोषितं भूधरे पच्यादूर्ध्वाधः परिवर्तयेत् ॥७.११४॥जायते स्तम्भितं गोलं समुद्धृत्याथ तं पुनः ।तुल्यांशे संपुटे हेम्नि लिप्त्वा मूषान्धितं धमेत् ॥७.११५॥अनेन चाष्टमांशेन तारे वेधं प्रदापयेत् ।तत्तारं जायते दिव्यं जाम्बूनदसमप्रभम् ॥७.११६॥{चन्द्रार्क => गोल्द्}अथवा स्तम्भितं गोलं स्वर्णं संपुटवर्जितम् ।तस्यैव भागाश्चत्वारो भागैकं मृतवज्रकम् ॥७.११७॥मर्दयेत्कन्यकाद्रावैर्दिनमेकं ततः पुनः ।अन्धितं भूधरे पच्याद्यावद्यामचतुष्टयम् ॥७.११८॥समुद्धृत्य पुनस्तस्मिन्पूर्वांशं पूर्वसूतकम् ।दत्त्वा मर्द्यं पुटेत्तद्वदेवं कुर्यात्त्रिसप्तधा ॥७.११९॥तस्मिन्भस्मपलमेकं पारदं गंधकस्य तु ।अंधमूषागतं ध्मातं तत्खोटं पन्नगं समम् ॥७.१२०॥पन्नगस्य समं स्वर्णं त्रयाणां त्रिगुणं क्षिपेत् ।द्रुतं च तत्सर्वमम्लवर्गेण मर्दयेत् ॥७.१२१॥दिनान्ते वज्रमूषायां रुद्ध्वा धाम्यं प्रयत्नतः ।जायते पन्नगं स्वर्णं त्रयोत्थं जायते क्रमात् ॥७.१२२॥सारयेच्च त्रिधा हेम चन्द्रार्कं वेधयेत्ततः ।सहस्रांशेन तेनैव दिव्यं भवति काञ्चनम् ॥७.१२३॥{सितस्वर्ण => गोल्द्}हेमार्कतीक्ष्णचूर्णं च समं रुद्ध्वा धमेद्दृढम् ।तत्खोटं भागमेकं तु त्रिभागं द्रुतसूतकम् ॥७.१२४॥मर्दयेद्गंधकाम्लेन रुद्ध्वा सम्यक्पुटे पचेत् ।पुनर्मर्द्यं पुनः पाच्यमेवं वारांश्चतुर्दश ॥७.१२५॥अनेन शतमांशेन सितहेम च वेधयेत् ।जायते कनकं दिव्यं कङ्गुणीतैलसेचनात् ॥७.१२६॥बद्धे द्रुते रसवरे वरहेम्नि जीर्णे दृष्टो मया दशगुणः सुखसाध्यलाभः ।वज्रे मृते गगनसत्त्वयुते नराणां तत्रैव भूरिगुणितं फलमस्ति सत्यम् ॥७.१२७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP