संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण २.३ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण २.३ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण २.३ Translation - भाषांतर दिव्ययोगगुटिकारसायनं क्रामणेन रहितं न सिध्यति ।शीघ्रसिद्धिकरमेव सेव्यतां क्रामणार्थं अनुपानमत्र वै ॥३.१॥काकतुम्बी काकमाची निर्गुण्डी च कुमारिका ।गोजिह्वा सैन्धवं गुञ्जा ह्यार्द्रकं च समं समम् ॥३.२॥पिष्ट्वा तेन प्रलेप्तव्या मूषा सर्वाङ्गुलावधि ।पारदं व्योमसत्त्वं च कान्तं तीक्ष्णं च मुण्डकम् ॥३.३॥ताप्यसत्त्वं च तुल्यांशं सर्वं संचूर्ण्य मर्दयेत् ।दिनं जम्बीरजैर्द्रावैस्तन्मूषायां विनिक्षिपेत् ॥३.४॥आच्छाद्यालेप्य कल्केन चान्धयित्वा विशोषयेत् ।करीषाग्नौ दिवारात्रं पुटे पक्त्वा समुद्धरेत् ॥३.५॥पुनः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा पुटेत्ततः ।इत्येवं दशमूषासु प्रलिप्तासु विपाचयेत् ॥३.६॥जायते गुटिका दिव्या मृतसंजीवनी परा ।वक्त्रे शिरसि कण्ठे वा कर्णे वा धारिता करे ॥३.७॥हेम्ना सुवेष्टिता सम्यग्वयःस्तम्भकरी परा ।वलीपलितकालाग्निमृत्युशङ्काविनाशनी ॥३.८॥वर्षमात्रान्न संदेहो जीवेद्वर्षशतत्रयम् ।शुद्धपलैकं तु गवां क्षीरैः पिबेत्सदा ॥३.९॥अनेन त्वनुपानेन देहे संक्रमते रसः ।समुखं पारदं कान्तं मुण्डलोहाभ्रसत्त्वकम् ॥३.१०॥तत्त्वं मृतं वज्रं सर्वं जम्बीरजैर्द्रवैः ।सप्ताहं मर्दयेत्तुल्यं कृत्वा गोलं समुद्धरेत् ॥३.११॥निर्गुण्डी सैन्धवं क्षौद्रं गोजिह्वा काकतुण्डिका ।पिष्ट्वा तु लेपयेद्गोलं सर्वतोऽङ्गुलमात्रकम् ॥३.१२॥तं रुद्ध्वा वज्रमूषायां पचेद्यामं तु भूधरे ।लिप्त्वा रुद्ध्वा पुनः पाच्यमित्येवं पक्षमात्रकम् ॥३.१३॥यवचिञ्चापलाशोत्थराजीकार्पासबीजकैः ।सुपिष्टैर्लेपयेन्मूषां तन्मध्ये पूर्वगोलकम् ॥३.१४॥टङ्कणं श्वेतकाचं च दत्त्वा पृष्ठे निरुध्य च ।खदिराङ्गारयोगेन धमेद्यावद्द्रुतं भवेत् ॥३.१५॥ततस्तं विडलिप्तायां मूषायां च निवेशयेत् ।तत्तुल्यं दापयेत्स्वर्णं जयेत्तं धमन्धमन् ॥३.१६॥जीर्णे स्वर्णे समुद्धृत्य तप्तखल्वे विमर्दयेत् ।त्र्यहं दिव्यौषधिद्रावैर्वज्रमूषान्धितं धमेत् ॥३.१७॥जायते गुटिका दिव्या नाम्ना वज्रेश्वरी परा ।वक्त्रस्था सा जरां मृत्युं हन्ति संवत्सरात्किल ॥३.१८॥शस्त्रस्तम्भं च कुरुते ब्रह्मायुर्यच्छति ध्रुवम् ।कृष्णाष्टम्यां समादाय सहदेवीं सु चूर्णयेत् ॥३.१९॥कर्षैकां भक्षयेदाज्यैरनु स्यात्क्रामेण हितम् ।आरक्तं मेघनादं तु तथा पाषाणभेदकम् ॥३.२०॥स्त्रीस्तन्यसहितं पिष्ट्वा तेन मूषां प्रलेपयेत् ।भगैकं मृतवज्रस्य स्वर्णचूर्णस्य षोडश ॥३.२१॥क्षिप्त्वा तस्यां निरुध्याथ याममात्रं दृढं धमेत् ।उद्धृत्य निक्षिपेत्खल्वे शुद्धसूतं च तत्समम् ॥३.२२॥मर्दयेच्चार्द्रकद्रावैर्यावद्भवति गोलकः ।चण्डालीकन्दमादाय स्त्रीस्तन्येन सु पेषयेत् ॥३.२३॥अनेन गोलकं लिप्त्वा वज्रमूषायां निरोधयेत् ।पक्त्वा गजपुटे ग्राह्या गुटिका वज्रसुन्दरी ॥३.२४॥वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् ।ब्रह्मवृक्षस्य त्वक्चूर्णं क्षीरैर्नित्यं पलं पिबेत् ॥३.२५॥क्रामणं ह्यनुपानं स्यात्साधकस्यातिसिद्धिदम् ।तदुद्भवमलैर्लिप्तं ताम्रं तु धमनेन हि ॥३.२६॥जायते कनकं दिव्यं सत्यं शंकरभाषितम् ।समुखस्य रसेन्द्रस्य पूर्ववत्काञ्चनं समम् ॥३.२७॥जारयेद्विडयोगेन ततो मर्द्यं दिनत्रयम् ।दिव्यौषधैः सगोमूत्रैर्वज्रमूषान्धितं धमेत् ॥३.२८॥उद्धृत्य धारयेद्वक्त्रे गुटिका हेमसुन्दरी ।पलार्धं गन्धकं चाज्यैर्द्विगुणैर्लेहयेदनु ॥३.२९॥वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ।शुद्धसूतं मृतं वज्रं व्योमसत्त्वं सहाटकम् ॥३.३०॥अम्लवर्गे समं सर्वं मर्दयेद्दिवसत्रयम् ।तद्गोलकं दृढं कृत्वा छायायां शोषयेत्ततः ॥३.३१॥ब्रह्मकार्पासबीजानि राजिका यवचिञ्चिका ।वन्ध्या सर्वं समं पिष्ट्वा पूर्वगोलं प्रलेपयेत् ॥३.३२॥रुद्ध्वा गजपुटे पच्यात्समुद्धृत्याथ लेपयेत् ।रुद्ध्वा मूषायां धमेद्गाढं गुटिका वज्रखेचरी ॥३.३३॥जायते धारिता वक्त्रे वत्सरान्मृत्युनाशिनी ।भूतारवटचूर्णं तु पलैकं सितया युतम् ॥३.३४॥भक्षयेत्क्रामणार्थं तु ब्रह्मायुर्जायते नरः ।कार्पास्याः काकमाच्याश्च कन्यायाश्च दलद्रवैः ॥३.३५॥शुद्धसूतं दिनं मर्द्यं क्षाल्यं अम्लैः समुद्धरेत् ।तद्रसं निष्कचत्वारि निष्कार्धं ताम्रचूर्णकम् ॥३.३६॥पादोननिष्कमभ्रोत्थं सत्त्वं पादं च हाटकम् ।हेमतुल्यं मुण्डचूर्णं सर्वमम्लैर्विमर्दयेत् ॥३.३७॥दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् ।त्रिदिनं दोलकायन्त्रे पाचयेत्सारनालके ॥३.३८॥उद्धृत्य धारयेद्वक्त्रे गुटिका व्योमसुन्दरी ।वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥३.३९॥चित्रमूलस्य चूर्णं तु सक्षौद्रं कान्तपात्रके ।आलोड्य भक्षयेत्कर्षमनु स्यात्क्रामणे हितम् ॥३.४०॥निष्कमेकं स्वर्णपत्त्रं त्रिनिष्कं शुद्धपारदम् ।जम्बीरशरपुङ्खोत्थद्रवैर्मर्द्यं दिनावधि ॥३.४१॥तद्गोलं बन्धयेद्वस्त्रे पचेद्गोक्षीरपूरिते ।दोलायन्त्रे दिवारात्रं गुटिका हाटकेश्वरी ॥३.४२॥जायते धारिता वक्त्रे जरामृत्युविनाशिनी ।वर्षमात्रान्न संदेहो जीवेद्वर्षायुतं नरः ॥३.४३॥दिनैकं त्रिफलाचूर्णं क्वाथैः खदिरबीजकैः ।भावितं मधुसर्पिर्भ्यां पलैकं क्रामकं लिहेत् ॥३.४४॥रसनिष्कत्रयं शुद्धं निष्कैकं ताम्रचूर्णकम् ।चिञ्चाफलाम्लतक्राभ्यां खल्वे मर्द्यं दिनावधि ॥३.४५॥तद्गोलं बन्धयेद्वस्रैस्तक्रचिञ्चाम्लपूरिते ।दोलायन्त्रे दिनं पच्याद्गुटिकार्कप्रभावती ॥३.४६॥वर्षैकं धारयेद्वक्त्रे सूर्यतुल्यो भवेन्नरः ।पालाशबीजजं तैलं गोक्षीरैः कर्षमात्रकम् ॥३.४७॥क्रामकं ह्यनुपानं स्याज्जरामृत्युहरं परम् ।स्वर्णमेकं कान्तमेकं पञ्चतारं द्विपारदम् ॥३.४८॥त्रिभागं व्योमसत्त्वं स्यात्षड्भागं शुल्बचूर्णकम् ।सर्वमेतत्कृतं सूक्ष्मं तप्तखल्वे दिनत्रयम् ॥३.४९॥मर्दयेदम्लवर्गेण दोलायन्त्रे सकाञ्जिके ।तद्गोलं त्रिदिनं पच्याद्गुटिका सुरसुन्दरी ॥३.५०॥जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।भूतारवटमूलं च कर्षं क्षीरैः पिबेदनु ॥३.५१॥स्वर्णतारार्कमुण्डं च वङ्गसीसाभ्रसत्त्वकम् ।एतत्सर्वं समं चूर्णं चूर्णांशं मृतवज्रकम् ॥३.५२॥सर्वतुल्यं शुद्धसूतं सर्वं दिव्यौषधिद्रवैः ।मर्दयेद्दिनमेकं तु वज्रमूषान्धितं धमेत् ॥३.५३॥गुटिका वज्रतुण्डेयं जायते धारिता मुखे ।जरामृत्युं शस्त्रसंघं नाशयेद्वत्सरात्किल ॥३.५४॥वज्रकायो महावीरो जीवेद्वर्षशतत्रयम् ।कुमार्याः स्वरसं ग्राह्यं गुडेन सह लोडयेत् ॥३.५५॥पलैकं क्रामकं लेह्यमनुपानं सदैव हि ।स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम् ॥३.५६॥पादभागं मृतं वज्रं तत्सर्वं क्षीरकन्दजैः ।द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि ॥३.५७॥मर्दयेत्कान्तचूर्णं च वज्रतुल्यं क्षिपेच्च वै ।वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी ॥३.५८॥जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम् ॥३.५९॥मिश्रितं पाययेच्चानु लक्षायुर्जायते नरः ।लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत् ॥३.६०॥किंचिच्चाल्यं तु काष्ठेन मुहूर्तादवतारयेत् ।शतावरी क्षीरकन्दो वज्रवल्लीन्द्रवारुणी ॥३.६१॥पाठा पुनर्नवा चिञ्चा लाङ्गली सुरदालिका ।एतासां वस्त्रपूतैश्च द्रवैर्मर्द्यं दिनत्रयम् ॥३.६२॥तस्मिन्पात्रे लोहमुष्ट्या छायाशुष्कं वटीकृतम् ।लोहसम्पुटगं रुद्ध्वा संधिं मृल्लवणैर्दृढम् ॥३.६३॥तं धमेत्खदिराङ्गारे यावदारक्तमुद्धरेत् ।उत्खन्योत्खन्य तन्मध्यादुद्धरेत्तद्रसं पुनः ॥३.६४॥काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् ।गान्धारीगुटिका सिद्धा वर्षं वक्त्रे स्थिता सदा ॥३.६५॥काकतुण्डीबीजतैलं कर्षैकं नस्यमाचरेत् ।क्रामकं ह्यनुपानं स्याज्जीवेद्वर्षसहस्रकम् ॥३.६६॥शुद्धसूतसमं गन्धं मर्दनात्कज्जलीकृतम् ।तत्ताम्रसम्पुटे रुद्ध्वा लवणेन मृदा दृढम् ॥३.६७॥शुष्कं दीपाग्निना पच्याद्यामैकं भस्मयन्त्रके ॥३.६८॥सम्पुटस्योर्ध्वलग्नं तत्समुद्धृत्याथ मर्दयेत् ।तुल्यपारदसंयुक्तं पूर्ववत्सम्पुटे पचेत् ॥३.६९॥उद्धृत्य तुल्यसूतेन संयुक्तं मर्दितं पचेत् ।इत्येवं सप्तधा कुर्यात्पुनः पारदटङ्कणम् ॥३.७०॥तुल्यं तुल्यं क्षिपेत्तस्मिन्दिनं सर्वं विमर्दयेत् ।वज्रमूषागतं रुद्ध्वा ध्माते खोटो भवेद्रसः ॥३.७१॥मार्तण्डी गुटिका ह्येषा वर्षैकं यस्य वक्त्रगा ।वलीपलितमुक्तोऽसौ जीवेदाचन्द्रतारकम् ॥३.७२॥पलाशबीजजं तैलं पलैकं क्षीरतुल्यकम् ।क्रामणं प्रपिबेन्नित्यं तत्क्षणान्मूर्छितो भवेत् ॥३.७३॥तस्य वक्त्रे गवां क्षीरं स्तोकं स्तोकं निषेचयेत् ।प्रबुद्धे क्षीरमन्नं स्याद्भोजने परमं हितम् ॥३.७४॥तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ।वायुवेगो महासिद्धश्छिद्रां पश्यति मेदिनीम् ॥३.७५॥काकमाच्यमृताद्रावैः पारदं तालकं समम् ।मर्दयेद्दिनमेकं तु कृत्वा गोलं विशोषयेत् ॥३.७६॥निक्षिपेद्वज्रमूषायामाच्छाद्य लोहपर्पटैः ।रुद्ध्वा संधिं धमेद्गाढं खोटबद्धो भवेद्रसः ॥३.७७॥लोहपर्पटकं दत्त्वा तद्वद्धाम्यं त्रिधा पुनः ।वर्षैकं धारयेद्वक्त्रे गुटिका तारकेश्वरी ॥३.७८॥वाकुचीबीजकर्षैकं गवां क्षीरैः पिबेदनु ।व्योमसत्त्वं मृतं वज्रं स्वर्णतारार्कमुण्डकम् ॥३.७९॥तीक्ष्णं कान्तं तालकं च शुद्धं कृत्वा विमिश्रयेत् ।सूक्ष्मचूर्णं समं सर्वं चूर्णांशं शुद्धपारदम् ॥३.८०॥त्रिदिनं चाम्लवर्गेण मर्दितं चान्धितं धमेत् ।विद्यावागीश्वरी ख्याता गुटिका वत्सरावधि ॥३.८१॥यस्य वक्त्रे स्थिता तस्य जरा मृत्युर्न विद्यते ।कर्षं ज्योतिष्मतीतैलं क्रामणार्थं पिबेत्सदा ॥३.८२॥वाक्पतिर्जायते धीरो जीवेच्चन्द्रार्कतारकम् ।कान्तपाषाणमाक्षीकं टङ्कणं कर्कटास्थि च ॥३.८३॥स्नुह्यर्कक्षीरभूनागं सर्वमेतत्समं भवेत् ।स्त्रीस्तन्येन दिनं मर्द्यं तेन मूषां प्रलेपयेत् ॥३.८४॥तन्मध्ये द्रुतसूतं तु वज्रभस्म समं समम् ।क्षिप्त्वा रुद्ध्वा पुटे पच्याद्गजाख्ये याममात्रकम् ॥३.८५॥ततः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्धठात् ।एवं पुनः पुनः कार्यं वज्रसूतं मिलत्यलम् ॥३.८६॥ततस्तस्यैव दातव्यं समं काचं सटङ्कणम् ।एवं मूषाशते देयं तुल्यं तुल्यं धमन्धमन् ॥३.८७॥तेजःपुञ्जो रसेन्द्रोऽसौ भवेन्मार्तण्डसंनिभः ।गुटिका वज्रतुण्डेयं वक्त्रस्था मृत्युनाशिनी ॥३.८८॥वर्षमात्रान्न संदेहो रुद्रतुल्यो भवेन्नरः ।तस्य मूत्रपुरीषाभ्यां पूर्ववत्काञ्चनं भवेत् ॥३.८९॥पञ्चाङ्गं भक्षयेत्कर्षं रुदन्त्या मधुसर्पिषा ।टङ्कणं कर्कटास्थीनि ऊर्णा चैव शिलाजतु ॥३.९०॥महिषीकर्णनेत्रोत्थं मलं स्त्रीस्तन्यकैः समम् ।पिष्ट्वा तल्लिप्तमूषायां अभ्रसत्त्वं क्षिपेद्धमेत् ॥३.९१॥सत्त्वतुल्यं क्षिपेत्तत्र पूर्ववद्द्रुतपारदम् ।द्रवं दिव्यौषधीनां च दत्त्वा तत्रैव तद्धमेत् ॥३.९२॥मिलितो जायते बद्धः पूर्ववत्काचटङ्कणैः ।ध्मातो मूषाशतेनायं तेजःपुञ्जो भवेद्रसः ॥३.९३॥वर्षैकं धारयेद्वक्त्रे शिवतुल्यो भवेन्नरः ।अजरामरकारीयं गुटिका गगनेश्वरी ॥३.९४॥बिल्वबीजोत्थितं तैलं निष्कमात्रं पिबेदनु ।उदरे जायते वह्निः पिबेत्क्षीरं पुनः पुनः ॥३.९५॥साक्षाज्जातिस्मरत्वं च कवित्वं श्रुतधारणम् ।खेचरत्वमदृश्यत्वं जायते नात्र संशयः ॥३.९६॥अग्निमन्थो वज्रवल्ली सूरणं वनशूरणम् ।चित्रकश्च द्रवैरेषां शुद्धसूतं दिनावधि ॥३.९७॥मर्दयेत्तप्तखल्वे तु तं रसं पलमात्रकम् ।पलं पलं तालवङ्गौ तत्सर्वं चाम्लवेतसैः ॥३.९८॥मर्दयेद्दिनमेकं तु कृत्वा तं गोलकं पुनः ।चतुःपलां नागमूषां कृत्वा तस्यां तु तत्क्षिपेत् ॥३.९९॥चतुःपले शुद्धताम्रसम्पुटे तां निरोधयेत् ।मृण्मूषायां तु तां रुद्ध्वा आरण्योत्पलकैः पुटेत् ॥३.१००॥शतद्वयप्रमाणैस्तु स्वाङ्गशीतं समुद्धरेत् ।सर्वं दिव्यौषधद्रावैर्मर्दयेद्दिवसत्रयम् ॥३.१०१॥चतुर्निष्कमिता कार्या वटिका शोषयेत्ततः ।एकैकां वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥३.१०२॥आनन्दगुटिका ह्येषा वक्त्रस्था मृत्युनाशिनी ।वत्सरान्नात्र संदेहो जीवेद्ब्रह्मदिनत्रयम् ॥३.१०३॥तैलं वातारिबीजोत्थं गोक्षीरैर्निष्कमात्रकम् ।क्रामणार्थं पिबेन्नित्यं शीघ्रसिद्धिकरं परम् ॥३.१०४॥वज्रभस्मसमं सूतं हंसपाद्या द्रवैस्त्र्यहम् ।मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं पुटेत् ॥३.१०५॥भूधराख्ये दिवारात्रौ समुद्धृत्याथ तस्य वै ।पूर्वांशं पारदं दत्त्वा हंसपाद्या द्रवैस्त्र्यहम् ॥३.१०६॥मर्दितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।तत्खोटं धमनाच्छोध्यं काचटङ्कणयोगतः ॥३.१०७॥नक्षत्राभं भवेद्यावत्तावद्धाम्यं पुनः पुनः ।तद्रसं व्योमसत्त्वं च काञ्चनं च समं समम् ॥३.१०८॥समावर्त्य ततः कार्या गुटिका वक्त्रमध्यगा ।वज्रखेचरिका नाम वत्सरान्मृत्युनाशिनी ॥३.१०९॥वलीपलितनिर्मुक्तो दिव्यकायो भवेन्नरः ।निर्गुण्डीमुनिचूर्णं तु कर्षमाज्यैः पिबेदनु ॥३.११०॥कान्तं शुल्बं समं चूर्णं वज्रमूषान्धितं धमेत् ।तत्खोटसिद्धचूर्णं तु गन्धकाम्लेन मर्दयेत् ॥३.१११॥रुद्ध्वा सम्यक्पुटे पच्यात्समुद्धृत्याथ मर्दयेत् ।पूर्ववत्क्रमयोगेन पुटेद्वारांश्चतुर्दश ॥३.११२॥वज्रेण द्वंद्वितं स्वर्णमनेनैव तु रञ्जयेत् ।मूषामध्ये धमन्नेवं सप्तवारं समं क्षिपेत् ॥३.११३॥तत्खोटं चूर्णितं भाव्यं स्त्रीपुष्पेण दिनावधि ।तत्तुल्यं द्रुतसूतं तु सर्वं यामं विमर्दयेत् ॥३.११४॥वेष्टयेद्भूर्जपत्त्रेण वस्त्रे बद्ध्वा पचेत्त्र्यहम् ।दोलायन्त्रे सारनाले जातं गोलं समुद्धरेत् ॥३.११५॥गान्धारी जीवनी चैव लाङ्गली चेन्द्रवारुणी ।एतासां पिण्डकल्केन वेष्टयेत्पूर्वगोलकम् ॥३.११६॥अन्धयित्वा दिनं पच्याद्भूधरे तं समुद्धरेत् ।पुनर्लेप्यं पुनः पाच्यं चतुर्दशदिनावधि ॥३.११७॥गुटिका जायते दिव्या नाम्ना रत्नेश्वरी तथा ।वक्त्रस्था वर्षमात्रं तु नन्दितुल्यो भवेन्नरः ॥३.११८॥जीवेद्वर्षसहस्राणि दिव्यतेजा महाबलः ।वर्षद्वादशपर्यन्तं यस्य वक्त्रे स्थिता तु सा ॥३.११९॥तस्य प्रस्वेदसम्पर्कादष्टलोहानि काञ्चनम् ।जायन्ते नात्र संदेहः सत्यमीश्वरभाषितम् ॥३.१२०॥पञ्चाङ्गचूर्णं मध्वाज्यै रुदन्त्युत्थं लिहेदनु ।स्वर्णं कृष्णाभ्रसत्त्वं च तारं ताम्रं सुचूर्णितम् ॥३.१२१॥समांशं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।तत्खोटं भागचत्वारि भागैकं मृतवज्रकम् ॥३.१२२॥माक्षिकं तीक्ष्णकान्तं च भागैकैकं सुचूर्णितम् ।समस्तं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ॥३.१२३॥तत्खोटं सूक्ष्मचूर्णं तु चूर्णांशं द्रुतसूतकम् ।त्रिदिनं तप्तखल्वे तु मर्द्यं दिव्यौषधिद्रवैः ॥३.१२४॥रुद्ध्वाथ भूधरे पच्यादहोरात्रात्समुद्धरेत् ।द्रुतसूतं पुनस्तुल्यं दत्त्वा मर्द्यं पुटेत्तथा ॥३.१२५॥इत्येवं सप्तवारांस्तु द्रुतं सूतं समं समम् ।दत्त्वा मर्द्यं पुटे पच्याज्जायते भस्मसूतकः ॥३.१२६॥भस्मसूतसमं गन्धं दत्त्वा रुद्ध्वा धमेद्दृढम् ।जायते गुटिका दिव्या विख्याता दिव्यखेचरी ॥३.१२७॥वर्षैकं धारयेद्वक्त्रे जीवेत्कल्पसहस्रकम् ।तस्य मूत्रपुरीषाभ्यां सर्वलोहस्य लेपनात् ॥३.१२८॥जायते कनकं दिव्यं समावर्ते न संशयः ।पलद्वयं भृङ्गराजद्रव्यं चानु पिबेत्सदा ॥३.१२९॥पूर्वोक्तं भस्मसूतं वा गुञ्जामात्रं सदा लिहेत् ।वर्षैकं मधुनाज्येन लक्षायुर्जायते नरः ॥३.१३०॥वलीपलितनिर्मुक्तो महाबलपराक्रमः ।स्वर्णं वैक्रान्तसत्त्वं च द्वंद्वितं जारयेद्रसे ॥३.१३१॥समांशं तु भवेद्यावत्ततस्तेनैव सारयेत् ।समेन जायते बद्धो धारयेत्तं मुखे सदा ॥३.१३२॥संवत्सरप्रयोगेण जराकालापमृत्युजित् ।कुमार्या दलजं द्रावं सितायुक्तं पिबेदनु ॥३.१३३॥स्वर्णवैक्रान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् ।वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत् ॥३.१३४॥दिनं दिव्यौषधद्रावैस्तद्गोलं निगडेन वै ।लिप्त्वा लवणगर्भायां वज्रमूष्यां निरोधयेत् ॥३.१३५॥छायायां शोषयेत्संधिं त्रिदिनं तुषवह्निना ।स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत् ॥३.१३६॥तद्गोलं निगडेनैव लिप्त्वा तद्वन्निरुध्य च ।छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम् ॥३.१३७॥वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् ।वैक्रान्तगुटिका ह्येषा सर्वकामफलप्रदा ॥३.१३८॥कर्षैकं त्रिफलाचूर्णं मध्वाज्याभ्यां लिहेदनु ।हेम्ना यद्द्वंद्वितं वज्रं कुर्यात्तत्सूक्ष्मचूर्णितम् ॥३.१३९॥एतद्देयं गुह्यसूते मूषायामधरोत्तरम् ।पादमात्रं प्रयत्नेन रुद्ध्वा संधिं विशोषयेत् ॥३.१४०॥भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् ।दिव्यौषधफलद्रावैस्तप्तखल्वे दिनावधि ॥३.१४१॥रुद्ध्वाथ भूधरे पच्याद्दिनं लघुपुटैः पुटेत् ।समुद्धृत्य पुनस्तद्वन्मर्द्यं रुद्ध्वा दिनत्रयम् ॥३.१४२॥तुषाग्निना शनैः स्वेद्यं ऊर्ध्वाधः परिवर्तयन् ।जायते भस्मसूतोऽयं सर्वयोगेषु योजयेत् ॥३.१४३॥द्रुतसूतस्य भागैकं भागैकं पूर्वभस्मकम् ।शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत् ॥३.१४४॥अन्धमूषागतं धाम्यं खोटो भवति तद्रसः ।धमेत्प्रकटमूषायां यावन्नागक्षयो भवेत् ॥३.१४५॥द्रुतसूतप्रकारेण द्रावयित्वा त्विमं रसम् ।निक्षिपेत्कच्छपे यन्त्रे विडं दत्त्वा दशांशतः ॥३.१४६॥स्वर्णादिसर्वलोहानि क्रमेणैव च जारयेत् ।प्रत्येकं षड्गुणं पश्चाद्वज्रद्वंद्वं च जारयेत् ॥३.१४७॥त्रिगुणं तु भवेद्यावत्ततो रत्नानि वै क्रमात् ।जारयेद्द्रावितान्येव प्रत्येकं त्रिगुणं शनैः ॥३.१४८॥ततो यन्त्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् ।मर्द्यं रुद्ध्वा धमेद्गाढं जायते गुटिका शुभा ॥३.१४९॥पूजयेदङ्कुशीमन्त्रैर्नाम्नेयं दिव्यखेचरी ।यस्य वक्त्रे स्थिता ह्येषा स भवेद्भैरवोपमः ॥३.१५०॥दिव्यतेजा महाकायः खेचरत्वेन गच्छति ।यत्रेच्छा तत्र तत्रैव क्रीडते ह्यङ्गनादिभिः ॥३.१५१॥महाकल्पान्तपर्यन्तं तिष्ठत्येव न संशयः ।तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥३.१५२॥पलाशपुष्पचूर्णं तु तिलाः कृष्णाः सशर्कराः ।सर्वं पलत्रयं खादेन्नित्यं स्यात्क्रामणे हितम् ॥३.१५३॥चूर्णं अश्वखुरस्यैव गुह्यसूते समं क्षिपेत् ।त्रिदिनं मातुलुङ्गाम्लैस्तत्सर्वं मर्दयेद्दृढम् ॥३.१५४॥सूततुल्यं मृतं वज्रं तस्मिन्क्षिप्त्वाथ मर्दयेत् ।तप्तखल्वे दिनं चाम्लैस्तद्गोलं चान्धितं पुटेत् ॥३.१५५॥दिनैकं भूधरे यन्त्रे भागैकं पूर्वपारदम् ।क्षिप्त्वा तस्मिन्दृढं मर्द्यं मातुलुङ्गद्रवैर्दिनम् ॥३.१५६॥रुद्ध्वाथ पूर्ववत्पच्यात्पुनर्देयश्च पारदः ।मर्द्यं पाच्यं यथापूर्वमेवं कुर्याच्च सप्तधा ॥३.१५७॥रसं पुनः पुनर्दत्त्वा स्यादेवं भस्मसूतकः ।योजयेत्सर्वयोगेषु जरामृत्युहरो भवेत् ॥३.१५८॥भागैकं नागचूर्णस्य भागैकं पूर्वभस्मनः ।द्रुतसूतस्य भागैकं खोटं कुर्याच्च पूर्ववत् ॥३.१५९॥तद्वद्धाम्यं गते नागे द्रावितं जारयेत्पुनः ।पूर्ववल्लोहरत्नान्तं जीर्णे बद्धा स्थिता मुखे ॥३.१६०॥प्रचण्डखेचरीनाम्नी गुटिका खे गतिप्रदा ।पूर्ववल्लभते वीरः फलमत्यन्तदुर्लभम् ॥३.१६१॥निर्गुण्डीमूलचूर्णं तु कर्षं तक्रैः पिबेदनु ।शुद्धसूतस्य दातव्यं कलांशं मृतवज्रकम् ॥३.१६२॥तत्सर्वमम्लवर्गेण तप्तखल्वे दिनत्रयम् ।मर्दयित्वा ततस्तेन लेपयेत्समभागतः ॥३.१६३॥पक्वबीजस्य पत्त्राणि तानि भानुदलैः पुनः ।वेष्टितानि निरुध्याथ निखनेच्चुल्लिगर्भतः ॥३.१६४॥आच्छाद्य ज्वालयेत्तत्र काष्ठाग्निं दिवसत्रयम् ।उद्धृत्य द्वंद्वलिप्तायां मूषायां तं निरोधयेत् ॥३.१६५॥करीषाग्नौ पुटे पच्यादहोरात्रात्समुद्धरेत् ।वासनामुखिते सूते तुल्यमेतद्विनिक्षिपेत् ॥३.१६६॥अम्लेन मर्दयेद्यामं जातं गोलं समुद्धरेत् ।क्षिपेज्जम्बीरगर्भे तं वस्त्रे बद्ध्वा त्र्यहं पचेत् ॥३.१६७॥दोलायन्त्रे सारनाले जायते गुटिका शुभा ।कङ्कालखेचरी नाम्ना वक्त्रस्था मृत्युनाशिनी ॥३.१६८॥वर्षैकं धारयेद्यस्तु स जीवेद्ब्रह्मणो दिनम् ।गन्धकं गुग्गुलुं तुल्यमाज्यैः कर्षं लिहेदनु ॥३.१६९॥कृष्णाभ्रकस्य सत्त्वं तु कान्तमाक्षीककाञ्चनम् ।तीक्ष्णं सौवीरचूर्णं च तुल्यं रुद्ध्वा धमेद्दृढम् ॥३.१७०॥तत्खोटं सूक्ष्मचूर्णं तु द्रुतसूतसमं भवेत् ।सूतार्धं मारितं वज्रं सर्वमम्लेन मर्दयेत् ॥३.१७१॥दिनैकं तप्तखल्वे तु तं रुद्ध्वा भूधरे पचेत् ।अहोरात्रात्समुद्धृत्य तत्समं पूर्वसूतकम् ॥३.१७२॥दत्त्वा दिव्यौषधद्रावैर्मर्द्यं सर्वं दिनावधि ।पूर्ववद्भूधरे पच्याद्द्रुतसूतं पुनः समम् ॥३.१७३॥दत्त्वा मर्द्यं पुनः पच्यादित्येवं सप्तवारकम् ।एतद्भस्मसमं गन्धं दत्त्वा चान्ध्यं धमेद्दृढम् ॥३.१७४॥जायते गुटिका दिव्या कालविध्वंसिका परा ।यस्य वक्त्रे स्थिता ह्येषा तस्य कालः करोति किम् ॥३.१७५॥वर्षषट्कप्रयोगेण जीवेत्कल्पसहस्रकम् ।तद्गात्रस्वेदमात्रेण सर्वलोहानि काञ्चनम् ॥३.१७६॥जायन्ते नात्र संदेहः शिवाम्बु क्रामकं पिबेत् ।स्वर्णतारार्ककान्तं च तीक्ष्णचूर्णं समं समम् ॥३.१७७॥द्वंद्वमेलापलिप्तायां मूषायां चान्धितं धमेत् ।तत्खोटं चूर्णितं कृत्वा चाभिषिक्तं तु पूर्ववत् ॥३.१७८॥समुखे जारयेत्सूते यावत्पञ्चगुणं क्रमात् ।दिव्यौषधद्रवैस्तं वै मर्दयेद्दिवसत्रयम् ॥३.१७९॥अन्धमूषागतं ध्मातं जायते गुटिका शुभा ।नाम्ना पञ्चानना धार्या वक्त्रे संवत्सरावधि ॥३.१८०॥वलीपलितनिर्मुक्तो जीवेच्चन्द्रार्कतारकम् ।हस्तिकर्णी समूला तु चूर्ण्या मध्वाज्यसंयुता ॥३.१८१॥स्निग्धभाण्डे तु तां रुद्ध्वा धान्यराशौ निवेशयेत् ।त्रिसप्ताहात्समुद्धृत्य पलैकं भक्षयेदनु ॥३.१८२॥ऋद्धिखण्डे तु यत्प्रोक्तं विविधं रसबन्धनम् ।अत्र तस्यैव वक्ष्यामि देहवेधक्रमं यथा ॥३.१८३॥जारितैर्बन्धितैस्तैस्तै रसराजैः पृथक्पृथक् ।कारयेद्गुटिकां दिव्यां बदराण्डप्रमाणकाम् ॥३.१८४॥सा धार्या वत्सरं वक्त्रे स्वानुरूपफलप्रदा ।गुटिका शतवेधी स्याद्युगायुष्यकरी नृणाम् ॥३.१८५॥सहस्रवेधी गुटिका अष्टकल्पान्तरक्षिका ।लक्षवेधकरी या तु सा दत्ते विष्णुवद्बलम् ॥३.१८६॥वेधिका दशलक्षे या सा रुद्रपददायिनी ।कोटिवेधकरी या सा ईश्वरत्वकरी नृणाम् ॥३.१८७॥वेधिका दशकोटीनां सा सदाख्यपदप्रदा ।गुटिकार्बुदवेधी या सा श्रीकण्ठपदप्रदा ॥३.१८८॥सम्यग्भवपदं दत्ते गुटिका शङ्खवेधिका ।धूम्रवेधी तु या सिद्धा सा शक्तिपददायिनी ॥३.१८९॥पराशक्तिपदं दत्ते स्पर्शवेधकरी तु या ।शब्दवेधकरा या तु सा यस्य वत्सरावधि ॥३.१९०॥वक्त्रे स्थिता स वै सिद्धो नित्यं नित्यपदं लभेत् ।स्वेच्छाचारी वज्रकायो वज्रपातैर्न भिद्यते ॥३.१९१॥तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।जायन्ते स्वेदसम्पर्काद्गात्रसंस्पर्शनादपि ॥३.१९२॥सर्वेषां उक्तयोगानां अनु स्याच्छुद्धगन्धकम् ।पलार्धं भक्षयेन्नित्यं रससंक्रामणे हितम् ॥३.१९३॥कालि कालि महाकालि मांसशोणितभोजिनि ।रक्तकृष्णमुखे देवि रससिद्धिं ददस्व मे ॥३.१९४॥स्वाहा अनेन सिद्धमन्त्रेण शक्तिचक्रं प्रपूजयेत् ।कालिकां भैरवं सिद्धान्कुमारीं साधितं रसम् ॥३.१९५॥ततो रसायनं दिव्यं सेवयेत्सिद्धिमाप्नुयात् ।गुटिकां धारयेद्वक्त्रे पूर्वमन्त्रं जपेत्सदा ॥३.१९६॥रसमन्त्रप्रयोगेण शीघ्रं सिद्धिमवाप्नुयात् ।कालान्तरससिद्धिर्या प्रोक्ता मन्थानभैरवे ॥३.१९७॥तदर्थं पञ्च तत्त्वानि षष्ठं जीवं च साधयेत् ।काकिन्याः पुष्पकाले तु सङ्गं कृत्वा समाहरेत् ॥३.१९८॥तद्योनिस्थं रजोबीजं गगनं तं विदुर्बुधाः ।काकिन्युत्पन्नपुत्रस्य सद्योविड्वायुरुच्यते ॥३.१९९॥तेजस्तु काकिनीपुष्पं जलं तत्पुत्रशोणितम् ।काकिनीपुत्रसर्वाङ्गं पृथिवीतत्त्वमुच्यते ॥३.२००॥रससेवकदेहोत्थवीर्यं जीवस्तु कथ्यते ।तत्प्रत्येकं कोटिवेधं कर्षैकं रससंयुतम् ॥३.२०१॥कृत्वा संरक्षयेद्भिन्नं सुपिष्टं गोलकीकृतम् ।उन्नतं पौरुषं यावद्विस्तारेण तदर्धकम् ॥३.२०२॥कुर्यात्ताम्रकटाहं तु स्थूलं यावत्षडङ्गुलम् ।चतुर्मुखस्य कोष्ठस्य पृष्ठे धार्यं दृढं यथा ॥३.२०३॥गोघृतं नरतैलं च समभागेन मेलयेत् ।तेनापूर्य कटाहं तं सिद्धचक्रं ततोऽर्चयेत् ॥३.२०४॥कुमारीगुरुदेवाग्नीन्भैरवं भैरवीयुतम् ।तर्पयेद्बलिमांसेन क्षेत्रपालं च पूजयेत् ॥३.२०५॥धमनं तत्र कुर्वीत चतुर्दिक्षु शनैः शनैः ।चतुर्भिर्वङ्कनालैश्च खदिराङ्गारयोगतः ॥३.२०६॥सुतप्तं फेननिर्मुक्तं निर्धूमं च यदा भवेत् ।चन्द्रार्कग्रहनक्षत्रदेवताभुवनानि च ॥३.२०७॥नमस्कृत्य गुरुं देवं देहं तत्र विनिक्षिपेत् ।सुद्रुतं तं विजानीयान्निक्षिपेत्पार्थिवं रसम् ॥३.२०८॥धमन्नत्रैव यत्नेन यावत्तत्कल्कतां व्रजेत् ।अप्तत्त्वाख्यं रसं तस्मिन्क्षिपेद्रक्तं भवेत्तु तत् ॥३.२०९॥वायुयुक्तं रसं क्षिप्त्वा शुभ्रवर्णं प्रजायते ।तेजोयुक्तं रसं क्षिप्याद्घनीभूतं भवेत्तु तत् ॥३.२१०॥तत आकाशसंयुक्तं रसं तत्र विनिक्षिपेत् ।आवर्तितं सुवर्णाभं जायते तत्र निक्षिपेत् ॥३.२११॥जीवयुक्तं रसं दिव्यं ततो हुंकारमुच्चरेत् ।कृत्वा तत्र महारावं हुंकारत्रयसंयुतम् ॥३.२१२॥ततश्चोत्तिष्ठते सिद्धः पूर्वाह्णे भास्करो यथा ।दिव्यतेजा महाकायो महाबलपराक्रमः ॥३.२१३॥नवनागसहस्राणां बलं तस्याधिकं भवेत् ।जीवते वज्रदेहः सन्सत्यं सत्यं शिवोदितम् ॥३.२१४॥जराजर्जरिताङ्गानां अन्धानां पङ्गुकुष्ठिनाम् ।नष्टवाग्जडषण्डानां कुब्जानां कुष्ठदेहिनाम् ॥३.२१५॥अनेकव्याधियुक्तानां भ्रान्तोन्मत्तपिशाचिनाम् ।किं पुनः स्वच्छदेहानां भूपानां रससेविनाम् ॥३.२१६॥वीराणां साधकानां च दिव्यसिद्धिप्रदो भवेत् ।तस्माद्वीरतरो योऽत्र भैरवोऽसौ न संशयः ॥३.२१७॥वज्रकायो भवेत्सिद्धो मेधावी दिव्यरूपवान् ।अर्धयोजनविस्तीर्णं विमानं चाप्सरोयुतम् ॥३.२१८॥आयाति नात्र संदेहस्तस्य सिद्धस्य सम्मुखम् ।तत्रारूढो रुद्रलोके क्रीडते भैरवो यथा ॥३.२१९॥क्षुत्पिपासाविनिर्मुक्तो जगन्नाशे न नश्यति ।भुञ्जानः सर्वभोगांश्च योगिनां स प्रियो भवेत् ।इच्छासिद्धो महावीरो नित्यानन्दमयो भवेत् ॥३.२२०॥दृष्ट्वा समस्तमनुभूय रसायनेषु सारातिसारसुखसाध्यतरं नराणाम् ।देहस्य दार्ढ्यकरणे गुटिकाप्रयोगाः प्रोक्ताः परं शिवकराः सततं सुसिद्ध्यै ॥३.२२१॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP