संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण ३.५ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण ३.५ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ३.५ Translation - भाषांतर महारसैश्चोपरसैः ससूतैर्हेम्नो दलं रञ्जनमत्र युक्त्या ।नानाविधं वर्णविवर्धनं च तत्कथ्यते वार्त्तिकभुक्तियोग्यम् ॥५.१॥{गोल्दः: फ़्रों सितस्वर्ण}वैक्रान्तसत्त्वभागैकं शुद्धवैक्रान्तमेव वा ।कांस्याख्या विमला वापि हेमाख्या विमलापि वा ॥५.२॥समेन नागचूर्णेन अन्धमूषागतं धमेत् ।सिद्धचूर्णेन संयुक्तं मर्दनादिपुटान्तकम् ॥५.३॥आदाय मधुना पेष्यं याममात्रं प्रयत्नतः ।स्वर्णं तारं समं द्राव्यं तेन पत्राणि कारयेत् ॥५.४॥सितस्वर्णमिदं ख्यातं पूर्वकल्केन लेपयेत् ।रुद्ध्वा गजपुटे पच्यादेवं वारत्रये कृते ॥५.५॥जायते कनकं दिव्यं सेचयेल्लवणोदकैः ।लोहसंक्रान्तिनुत्त्यर्थं सेच्यं ब्राह्मीद्रवेण वा ॥५.६॥एवं विमलनागाभ्यां पृथग्योग उदाहृतः ।{गोल्दः: फ़्रों सितस्वर्ण}नागवैक्रान्तयोगेन मधूच्छिष्टेन लेपयेत् ॥५.७॥सहस्रांशे सिते हेमे दिव्यं भवति काञ्चनम् ।{सितस्वर्ण => गोल्द्}मेषीक्षीराम्लवर्गाभ्यां दरदं घर्मभावितम् ॥५.८॥शतधा तत्प्रयत्नेन शोष्यं पेष्यं पुनः पुनः ।अनेन सितस्वर्णस्य पत्रं लिप्त्वा पुटे पचेत् ॥५.९॥एवं त्रिसप्तधा कुर्याद्दिव्यं भवति काञ्चनम् ।{सितस्वर्ण => गोल्द्}नागचूर्णं ताप्यचूर्णं नागवैक्रान्तमेव वा ॥५.१०॥अंधमूषागतं खोटं सिद्धचूर्णेन संयुतम् ।मर्दनं पुटपाकं च पूर्ववत्कारयेत्क्रमात् ॥५.११॥तेनैव मधुनाक्तेन शुद्धं हाटकपत्रकम् ।लिप्त्वा लिप्त्वा पुटैः पच्याद्यावत्कुङ्कुमसंनिभम् ॥५.१२॥एतत्स्वर्णशतांशेन सितस्वर्णं तु वेधयेत् ।जायते कनकं दिव्यं रक्तवर्गेण सेचयेत् ॥५.१३॥{सितस्वर्ण => गोल्द्}वैक्रान्तं नागचूर्णं च पुटान्तं पूर्ववत्कृतम् ।शतांशे नैव वेधंतु सितहेमेन पूर्ववत् ॥५.१४॥लेपनात्पुटपाकाच्च दिव्यं भवति कांचनम् ।{सितस्वर्ण => गोल्द्}माक्षिकस्य समांशेन राजावर्तं दिनत्रयम् ॥५.१५॥मातुलुङ्गद्रवैर्मर्द्य तेन पत्राणि लेपयेत् ।पूर्वाक्तसितस्वर्णस्य रुद्ध्वा गजपुटे पचेत् ॥५.१६॥पुनर्लेप्यं पुनः पाच्यं सप्तधा कांचनं भवेत् ।{सिल्वेर्=> गोल्द्}राजावर्तं च सिन्दूरं पारावतमलं समम् ॥५.१७॥अशीत्यंशेन कुरुते स्वर्णं रौप्यं च पूर्ववत् ।{मिxतुरे ओफ़् गोल्दन्द्सिल्वेर्=> गोल्द्}रसैः शिरीषपुष्पस्य आर्द्रकस्य रसैः समैः ॥५.१८॥भावयेत्सप्तवाराणि राजावर्तं सुचूर्णितम् ।तेनैव शतमांशेन स्वर्णतारं द्रुतं समम् ॥५.१९॥वेधयेत्पूर्ववत्सिद्धं दिव्यं भवति काञ्चनम् ।{मिxतुरे ओफ़् गोल्दन्द्सिल्वेर्=> गोल्द्}कङ्कुष्ठं विमला ताप्यं रसकं दरदं शिला ॥५.२०॥राजावर्तं प्रवालं च काङ्क्षीगैरिकटङ्कणम् ।सैन्धवं चूर्णयेत्तुल्यमशीत्यंशेन वापयेत् ॥५.२१॥द्रुते समे स्वर्णतारे पूर्ववत्सेचयेत्क्रमात् ।त्रिवारं वापयेदेवं दिव्यं भवति काञ्चनम् ॥५.२२॥{बीजः: पक्वः: प्रोदुच्तिओन्}गैरिकं च प्रवालं च काकमाच्या द्रवैः समम् ।यामं मर्द्यं तु तद्रुद्ध्वा आरण्योत्पलकैः पुटेत् ॥५.२३॥इत्येवं तु त्रिधा कुर्यान्मर्दनं पुटपाचनम् ।तदर्धं हिङ्गुलं शुद्धं क्षिप्त्वा तस्मिन्विमर्दयेत् ॥५.२४॥काञ्जिकैर्याममात्रं तु पुटेनैकेन पाचयेत् ।अस्य कल्कस्य भागैकं भागाश्चत्वारि हाटकम् ॥५.२५॥अन्धमूषागतं ध्मातं समादाय विचूर्णयेत् ।पूर्ववत्पूर्वकल्केन रुद्ध्वा देयं पुटं पुनः ॥५.२६॥एवं चतुःपुटैः पक्वं स्वर्णं गुञ्जानिभं भवेत् ।पक्वबीजमिदं सिद्धं तत्तत्कर्मणि योजयेत् ॥५.२७॥{सितस्वर्ण => गोल्द्}अनेन षोडशांशेन सितस्वर्णं तु वेधयेत् ।सेचयेत्कुङ्कुणीतैले रक्तवर्गेण वापितम् ॥५.२८॥पुनर्वेध्यं पुनः सेच्यं षोडशांशेन बुद्धिमान् ।एवं वारत्रयं वेध्यं दिव्यं भवति काञ्चनम् ॥५.२९॥{गोल्दः: रञ्जनः: दशवर्ण}पूर्वोक्तपक्वबीजेन वेधयेदष्टवर्गकम् ।तत्स्वर्णं दशवर्णं स्यात्पुटे दत्ते न हीयते ॥५.३०॥{गोल्दः: रक्ती (रञ्जन)}निष्काः षोडश तुत्थस्य सूतहिङ्गुलगन्धकम् ।टङ्कणं च तथैकैकं योज्यं निष्कचतुष्टयम् ॥५.३१॥सर्वमेतद्दिनं मर्द्यं त्रिधारस्नुक्पयोऽन्वितम् ।निष्कमात्रां वटीं कृत्वा श्रेष्ठे स्वर्णे द्रुते क्षिपेत् ॥५.३२॥एकैकं निष्कमात्रं तु मूषामध्ये दिनं धमेत् ।जीर्णे जीर्णे पुनर्देया एवं सर्वाः प्रदापयेत् ॥५.३३॥गुञ्जावर्णं भवेत्स्वर्णं ख्यातेयं हेमरक्तिका ।{गोल्दः: रञ्जनः: अष्टवर्ण => दशवर्ण}अष्टवर्णसुवर्णस्य द्रावितस्य दशांशतः ॥५.३४॥क्षिपेत्तज्जायते सत्यं दशवर्णं तु शोभनम् ।{गोल्दः: रञ्जनः: अष्टवर्ण => दशवर्ण}ताम्रतुल्येन नागेन शोधयेद्धमनेन च ॥५.३५॥ताम्रतुल्यं शुद्धहेम समावर्त्य तु पत्त्रयेत् ।इष्टिका तुवरी चैव खटिका लवणं तथा ॥५.३६॥गैरिकं भागवृद्ध्यांशमारनालेन पेषयेत् ।तेन लिप्त्वा पूर्वपत्रं रुद्ध्वा गजपुटे पचेत् ॥५.३७॥एवं पुनः पुनः पाच्यं यावत्स्वर्णावशेषितम् ।तत्स्वर्णं ताम्रसंयुक्तं समावर्त्य तु पत्त्रयेत् ॥५.३८॥पूर्ववत्पुटपाकेन पचेत्स्वर्णावशेषितम् ।इत्येवं षड्गुणं ताम्रं स्वर्णे बाह्यं क्रमेण तु ॥५.३९॥तत्सर्वं जायते दिव्यं पद्मरागसमप्रभम् ।षट्त्रिंशांशेन तेनैव अष्टवर्णं तु वेधयेत् ॥५.४०॥तत्स्वर्णं जायते दिव्यं दशवर्णं न संशयः ।{गोल्दः: रञ्जनः: अष्टवर्ण => दशवर्ण}समं ताप्यं ताम्रचूर्णं ताप्यार्धं लोहचूर्णकम् ॥५.४१॥कन्याद्रावैः क्षणं मर्द्य घर्मे तेनैव भावयेत् ।एवं वारांश्चतुःषष्टिस्ततः शुष्कं विचूर्णयेत् ॥५.४२॥षोडशांशेन तेनैव अष्टवर्णं तु वेधयेत् ।तत्स्वर्णं जायते दिव्यं दशवर्णं न संशयः ॥५.४३॥{गोल्दः: रञ्जनः: अष्टवर्ण => दशवर्ण}रसकं घोषताम्रं च काचं श्वेतं नृकेशकम् ।पलानि पञ्चपञ्चैव प्रत्येकं चूर्णयेत्पृथक् ॥५.४४॥रसकात्त्रिगुणं योज्यं तीक्ष्णचूर्णं पुनस्ततः ।गन्धकं रसकं कांस्यमाक्षिकं चाष्टनिष्ककम् ॥५.४५॥विंशनिष्कं धूमसारं सर्वमेतद्दिनावधि ।मर्द्यं जम्बीरजैर्द्रावैः कर्षांशं वटकीकृतम् ॥५.४६॥कोष्ठीयन्त्रे हठाद्धाम्यं यावत्ताम्रावशेषितम् ।षड्गुणं तस्य ताम्रस्य सीसे वाह्यं धमन्धमन् ॥५.४७॥षट्त्रिंशांशेन तेनैव अष्टवर्णं तु वेधयेत् ।दशवर्णं भवेत्तत्तु नात्र कार्या विचारणा ॥५.४८॥{चोप्पेरः: रेमोविन्ग्कालिका}अथान्यस्य च ताम्रस्य नागशुद्धस्य कारयेत् ।निर्गुण्डिकारसेनैव पञ्चाशद्वारढालनम् ॥५.४९॥कुष्माण्डस्य रसेनैव सप्तवारं तु ढालनम् ।निशायुक्तेन तक्रेण सप्तवारं तु ढालनम् ।एवं ताम्रं द्रुतं ढाल्यं कालिकारहितं भवेत् ॥५.५०॥{चोप्पेर्, सिल्वेर्, गोल्द्=> गोल्द्}एतत्ताम्रं त्रिभागं स्याद्भागाः पञ्चैव हाटकम् ।रौप्यं भागद्वयं शुद्धं सर्वमावर्तयेत्ततः ॥५.५१॥जायते कनकं दिव्यं पुरा नागार्जुनोदितम् ।{गोल्दः: रञ्जनः: वेर्बेस्सेरुन्गुं ज़्wएइ Fअर्ब्स्तुफ़ेन्}अङ्कोल्लकाष्ठं प्रज्वाल्य आरण्योपलचूर्णकम् ॥५.५२॥अङ्कोल्लबीजचूर्णं तु ज्वलत्काष्ठोपरि क्षिपेत् ।तदङ्गारान्समादाय शीतलांश्च पुनर्धमेत् ॥५.५३॥अङ्कोल्लबीजचूर्णं तु क्षिप्त्वा वस्त्रेण बन्धयेत् ।तद्धूमैः स्वर्णपत्राणि दशवर्णानि धूपयेत् ॥५.५४॥द्रावयित्वा क्षिपेत्तैले पुत्रजीवोत्थिते पुनः ।एवं वारद्वये क्षिप्ते वर्धते वर्णकद्वयम् ॥५.५५॥अल्पाल्पयुक्ति विभवैः सुखसाध्ययोगैरल्पाल्पकर्मविधिना बहुभिर्विशेषैः ।लाभार्थपाददशमांशकरोपदेशः प्रोक्तो मया सकललोकहिताय सत्यम् ॥५.५६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP