संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण १.९ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण १.९ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ९ Translation - भाषांतर {इरोनः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}अशुद्धममृतं लौहं आयुर्हानिरुजाकरम् ।हृत्पीडां च तृषां जाड्यं तस्माच्छुद्धं च मारयेत् ॥९.१॥{कान्तलोहः: परीक्षा}पात्रे यस्मिन्प्रसरति न चेत्तैलबिन्दुर्विसृष्टः ।हिङ्गुर्गन्धं प्रसरति निजं तिक्ततां निम्बुकश्च ।पाके दग्धं भवति शिखराकारता नैव भूमौ ।कान्तं लौहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥९.२॥कान्तं मृदुतरं तारं रुक्माभं तिमिरं करम् ।स्वादुर्यतो भवेन्निम्बकल्को रात्रिनिवेशितः ॥९.३॥कान्तं तदुत्तमं यच्च रूप्येनावर्तितं मिलेत् ।सर्वरोगहरं एतत्सर्वकुष्ठहरं परम् ॥९.४॥{इरोनः: सुब्त्य्पेसः: शोधन}शशछागरक्तसंलिप्तं त्रिवारं चाग्नितापितम् ।कान्तादिमुण्डपर्यन्तं सर्वरोगहरं परम् ॥९.५॥{इरोनः: शोधनः: अद्रि}त्रिफलाष्टगुणैस्तोयैस्त्रिफलाषोडशं पलम् ।तत्क्वाथे पादशेषे तु लौहस्य पत्रपञ्चकम् ॥९.६॥कृत्वा पत्राणि तप्तानि सप्तवाराणि सेचयेत् ।एवं प्रलीयते दोषो गिरिजो लौहसम्भवः ॥९.७॥{इरोनः: शोधन}त्रिविधं लौहचूर्णं वा गोमूत्रैः षड्गुणैः पचेत् ।प्रक्षालयेदारनाले शोष्यं शुद्धिं अवाप्नुयात् ॥९.८॥{इरोनः: सुब्त्य्पेसः: शोधन}रक्तमाला हंसपादो गोजिह्वा त्रिफलामृता ।गोपाली तुम्बुरुर्दन्ती तुल्यगोमूत्रपेषितम् ॥९.९॥अस्मिन्मध्ये लौहपत्त्रं तप्तं तप्तं द्विसप्तधा ।सेचयेत्कान्तमुण्डान्तं सर्वदोषापनुत्तये ॥९.१०॥सर्वेष्वौषधकल्पेषु लौहकल्पं प्रशस्यते ।तस्मात्सर्वं प्रयत्नेन लौहमादौ विमारयेत् ॥९.११॥अयः पञ्चपलादूर्ध्वं यावत्पलत्रयोदशात् ।आदौ मन्त्रस्ततः कर्म यथाकर्तव्यं उच्यते ॥९.१२॥{इरोनः: मारण}हिङ्गुलस्य पलान्पञ्च नारीस्तन्येन पेषयेत् ।तेन लौहस्य पत्राणि लेपयेत्पलपञ्चकम् ॥९.१३॥रुद्ध्वा गजपुटे पच्यात्कषायैस्त्रैफलैः पुनः ।जम्बीरैरारनालैर्वा विंशत्यंशेन हिङ्गुलम् ॥९.१४॥पिष्ट्वा रुद्ध्वा पुटेल्लोहं तथैवं पाचयेत्पुनः ।चत्वारिंशत्पुटैरेवं कान्तं तीक्ष्णं च मुण्डकम् ॥९.१५॥हो म्रियते त्रालसन्दे दत्त्वा दत्त्वा च हिङ्गुलम् ।{इरोनः: मारण}अर्जुनस्य त्वचा पेष्या काञ्जिकेनातिलोहिता ॥९.१६॥तन्मध्ये लोहचूर्णं च कांस्यपात्रे विनिक्षिपेत् ।दिनैकं भावयेद्घर्मे द्रवैः पूर्यं पुनः पुनः ॥९.१७॥अर्जुनैः सारनालैर्वा त्रिविधं मारयेदयः ।{इरोनः: मारण}दन्तीपत्रं द्रवं यच्च लौहचूर्णं विलोडयेत् ॥९.१८॥दिनैकं भावयेद्घर्मे द्रवं देयं पुनः पुनः ।रुद्ध्वा रात्रौ पुटैः पच्यादेभिर्द्रावैश्च भावयेत् ॥९.१९॥एवमष्टदिनं कुर्यात्त्रिविधं म्रियते ह्ययः ।{इरोनः: मारण}चिञ्चापत्रनिभां कुर्यात्त्रिविधं लोहपत्रकम् ॥९.२०॥मृत्पात्रस्थं क्षिपेद्घर्मे दन्त्या द्रावैः प्रपूरयेत् ।पत्रं पुनः पुनस्तावद्यावज्ज्वरति वै त्वयः ॥९.२१॥म्रियते तीव्रघर्मेण चूर्णीकृत्य नियोजयेत् ।{इरोनः: मारण}कान्तं तीक्ष्णं तथा मुण्डचूर्णं मत्स्याक्षजैर्द्रवैः ॥९.२२॥आतपे त्रिदिनं भाव्यं द्विदिनं चित्रकद्रवैः ।त्रिकण्टकद्रवैस्त्र्यहं सहदेव्या द्रवैस्त्र्यहम् ॥९.२३॥गोमूत्रैस्त्रिफलाक्वाथे भावयेच्च त्र्यहं त्र्यहम् ।धातक्याश्च ततो मर्द्यं क्रमाद्देयं पुटं पुटम् ॥९.२४॥रुद्ध्वा गजपुटेनैवं मृतं योगेषु योजयेत् ।{इरोनः: मारण}द्रवैः कुरण्टपत्रोत्थैः लौहचूर्णं विमर्दयेत् ॥९.२५॥दिनैकमातपे तीव्रे द्रवैर्मर्द्यं त्रिकण्टकैः ।वन्ध्याभृङ्गीपुनर्नवयोर्गोमूत्रैश्च दिनं पुनः ॥९.२६॥गोमूत्रैस्त्रिफला क्वाथ्या तत्कषायेण भावयेत् ।त्रिसप्ताहं प्रयत्नेन दिनैकं मर्दयेत्ततः ॥९.२७॥रुद्ध्वा गजपुटे पञ्चादिं क्वाथेन मर्दयेत् ।दिवा मर्द्यं पुटं रात्रावेकविंशतिदिनानि वै ॥९.२८॥एकविंशद्दिनेनैव म्रियते त्रिविधं ह्ययः ।{इरोनः: मारण}माक्षिकं च शिला ह्यम्लैर्हरिद्रा मरिचानि च ॥९.२९॥पिष्ट्वा मर्द्यं लोहपत्रं तप्तं तप्तं निषेचयेत् ।सप्तधा त्रिफलाक्वाथे जलेन क्षालयेत्पुनः ॥९.३०॥कुट्टयेल्लोहदण्डेन पेषयेत्त्रिफलाजलैः ।षोडशांशेन लोहस्य दातव्यं माक्षिकं शिला ॥९.३१॥अम्लेन लोडितं रुद्ध्वा गजान्धकपुटे पचेत् ।निरुत्थं जायते भस्म कान्तं तीक्ष्णादिमुण्डकम् ॥९.३२॥{इरोनः: मारण}तिन्दूफलस्य मज्जाभिर्लिप्त्वा स्थाप्यातपे खरे ।धारयेत्कांस्यपात्रस्थं दिनैकेन पुटत्यलम् ॥९.३३॥लेप्यं पुनः पुनः कुर्यात्दिनान्तान्तं प्रलेपयेत् ।त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतं भवेत् ॥९.३४॥{इरोनः: मारण}स्थाल्यां वा लोहपात्रे वा लौहदर्व्या विलोडयेत् ।पाचयेत्त्रिफलाक्वाथे दिनैकं लोहचूर्णकम् ॥९.३५॥तत्पिण्डं त्रिफलातोयैः पिष्ट्वा रुद्ध्वा पुटे पचेत् ।षोडशांशेन मूषायां निर्वातेऽहर्निशं पचेत् ॥९.३६॥एवं त्रिधा प्रकर्तव्यं स्थालीपाकं पुटान्तरम् ।भृङ्ग्या द्रावं तालमूली हस्तिकर्णस्य मूलकम् ॥९.३७॥शतावरी विदार्याश्च मूलक्वाथे च त्रैफले ।पिष्ट्वा तत्पूर्ववत्स्थाल्यां पाच्यं पेष्यं पुटे त्रिधा ॥९.३८॥ततः पुनर्नवातोयैर्दशमूलकषायकैः ।बृहत्याश्च कषायैर्वा बीजपूरस्य तोयतः ॥९.३९॥ब्रह्मबीजस्तथाशिग्रुक्वाथे गोपयसापि वा ।प्रत्येकेन प्रपेष्यादौ पूर्वगर्भपुटे पचेत् ॥९.४०॥भावयेत्तु द्रवेनैव पुटान्ते याममात्रकम् ।प्रत्येकेन क्रमादेवं पिष्ट्वा पुटैश्च भावयेत् ॥९.४१॥म्रियते नात्र संदेहः कान्तं तीक्ष्णं च मुण्डकम् ।सर्वं एतन्मृतं लौहं ध्मातव्यं मित्रपञ्चकैः ।यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं भवेत् ॥९.४२॥{इरोनः: मारण}मध्वाज्यं मृतं लौहं च सरूप्यं संपुटे क्षिपेत् ।रुद्ध्वा दभायं तु संग्राह्यं रूप्यं च पूर्वमानकम् ॥९.४३॥तदा लौहं मृतं विद्यादमृतं मारयेत्पुनः ॥९.४४॥{इरोनः: मारणः: निरुत्थ}गन्धकं तु मृतं लौहं तुल्यं खल्वे विमर्दयेत् ।दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥९.४५॥इत्येवं सर्वलोहानां कर्तव्योऽयं निरुत्थितः ॥९.४६॥{इरोनः: मारणः: वारितर}शुद्धसूतं द्विधा गन्धं कृत्वा खल्वे तु कज्जलीम् ।द्वयोः समं लौहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥९.४७॥यामद्वयात्समुद्धृत्य तद्गोलं ताम्रपात्रके ।आच्छाद्यैरण्डपत्रैश्च यामार्द्धेणोष्णतां व्रजेत् ॥९.४८॥धान्यराशौ न्यसेत्पश्चात्त्रिदिनान्ते समुद्धरेत् ।सम्पिष्य गालयेद्वस्त्रे सद्यो वारितरं भवेत् ॥९.४९॥कान्तं तीक्ष्णं तथा मुण्डं निरुत्थं जायते मृतम् ।स्वर्णादीन्मारयेदेवं चूर्णीकृत्य तु लोहवत् ॥९.५०॥सिद्धयोगमिदं ख्यातं सिद्धानां सम्मुखागतम् ।{इरोनः: मृतः: मेदिच्. उसे}अन्नभूतं आयसाद्यं सर्वरोगज्वरापहम् ॥९.५१॥त्रिफलारससंयुक्तं सर्वरोगेषु योजयेत् ॥९.५२॥मृतानि लौहानि वशीभवन्ति ।निघ्नन्ति युक्त्या ह्यखिलामयानि ।अभ्यासयोगाद्दृढयोगसिद्धम् ।कुर्वन्ति रुङ्मृत्युजराविनाशम् ॥९.५३॥{इरोनः: मृतः: अमृतीकरण}तोयाष्टभागशेषेन त्रिफलापलपञ्चकम् ।घृतं क्वाथस्य तुल्यं स्याच्चूर्णं तुल्यं मृतायसम् ॥९.५४॥पाचयेत्ताम्रपात्रे च लौहदर्व्या विचालयेत् ।मृद्वग्निना पचेत्तावद्यावज्जीर्यति गन्धकम् ॥९.५५॥लौहतुल्या शिवा योज्या सुपक्वेनैवावतारयेत् ।योगवाहमिदं ख्यातं मृतं लोहं महामृतम् ॥९.५६॥एवं कान्तस्य तीक्ष्णस्य मुण्डस्यापि विधिः स्मृतः ।{इरोनः: मृतः: अमृतीकरण}गुडस्य कुडवे पक्वं लौहभस्म पलान्वितम् ॥९.५७॥कोलप्रमाणं रोगेषु तच्च योगेन योजयेत् ।घृतं तुल्यं मृतं लोहं लोहपात्रगतं पचेत् ॥९.५८॥जीर्णे घृतं समादाय योगवाहेषु योजयेत् ॥९.५९॥ओं अमृतेन भक्ष्याय नमः अनेन मनुना लौहं भक्षयेत् ।{इरोनः: मृतः: मेदिच्. प्रोपेर्तिएस्}आयुर्वीर्यं बलं दत्ते पाण्डुमेहादिकुष्ठनुत् ।आमवातहरं लौहं वलीपलितनाशनम् ॥९.६०॥{उपलोहः: शोधन}त्रिक्षारं पञ्चलवणं सप्तधाम्लेन मर्दयेत् ।कांस्यारघोषपत्राणि तिलकल्केन लेपयेत् ॥९.६१॥रुद्ध्वा गजपुटे पच्याच्छुद्धिमायाति नान्यथा ।{उपलोहः: मारण}ताम्रवन्मारयेत्तेषां कृत्वा सर्वत्र योजयेत् ॥९.६२॥{ब्रोन्ज़ेः: मेदिच्. प्रोपेर्तिएस्}कांस्यं कषायमुष्णं च लघु रूक्षं च तिक्तकम् ।कफपित्तरुजं हन्ति हृद्देहायुष्यवर्धनम् ॥९.६३॥{ब्रस्सः: मेदिच्. प्रोपेर्तिएस्}रीतिका च गलं रूक्षं अतिक्तलवणं सरम् ।शोधनं सर्वरोगघ्नं बलवीर्यायुष्यवर्द्धनम् ॥९.६४॥{मण्डूरः: प्रोदुच्तिओन्}अल्पाङ्गारे धमेत्किट्टं लौहजं च गवां जलैः ।सेचयेदक्षपत्रैश्च सप्तवारं पुनः पुनः ॥९.६५॥मण्डूरोऽयं समाख्यातः शुद्धं श्लक्ष्णं नियोजयेत् ।किट्टाच्छतगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ॥९.६६॥तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् ।तस्मात्कान्तं सदा सेव्यं जरामृत्युहरं परम् ॥९.६७॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP