संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण १.७ रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण १.७ रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण ७ Translation - भाषांतर {हरितालः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}अशुद्धतालमायुर्घ्नं ककमारुतमेहकृत् ।तापशोफाङ्गसंकोचं कुरुते तेन शोधयेत् ॥७.१॥{हरितालः: शोधन}तालकं कणशः कृत्वा दशांशेन च टङ्कणम् ।जम्बीराणां द्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्पुनः ॥७.२॥वस्त्रैश्चतुर्गुणैर्बद्ध्वा दोलायन्त्रे दिनं पचेत् ।संयुक्तं चारनालेन दिनं कुष्माण्डजैः रसैः ॥७.३॥तिलतैलैः पचेद्यामं यामं च त्रिफलाजलैः ।त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रैश्च काञ्जिकैः ॥७.४॥तत्फलैर्दशभिर्देयं रुद्ध्वा पुटं च पेषयेत् ।एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥७.५॥{हरितालः: शोधन}तालकं पोटलीबद्धं सप्ताहं काञ्जिके पचेत् ।दोलायन्त्रेण यामैकं ततः कुष्माण्डजैः रसैः ॥७.६॥तिलतैले पचेद्यामं यामं च त्रिफलाजलैः ।एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकः ॥७.७॥{हरितालः: शुद्धः: मेदिच्. प्रोपेर्तिएस्}तालको हरते रोगान्कुष्ठमृत्युज्वरापहः ।शोधितः शीतवीर्ये च कुरुते वायुवर्धनम् ॥७.८॥{मनःशिलाः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}अश्मरीं मूत्रहृद्रोगमशुद्धा कुरुते शिला ।मन्दाग्निं मलबन्धं च शुद्धा सर्वरुजापहा ॥७.९॥{मनःशिलाः: शोधन}अजामूत्रे त्र्यहं पाच्या दोलायन्त्रे मनःशिला ।सप्तधा तैरजापित्तैर्घर्मे भाव्यं विशुद्धये ॥७.१०॥{मनःशिलाः: शोधन}जयन्तीभृङ्गराजोत्थरक्तागस्त्यरसैः शिला ।दोलायन्त्रे दिनं पाच्या यामं छागस्य मूत्रके ॥७.११॥क्षालयेदारनालेन सर्वरोगेषु योजयेत् ॥७.१२॥{रसकः: शोधन}नरमूत्रैश्च गोमूत्रैः सप्ताहं रसकं पचेत् ।दोलायन्त्रेण सम्यक्तच्छुद्धं योगेषु योजयेत् ॥७.१३॥{तुत्थः: शोधन}विष्ठया मर्दयेत्खल्वे मार्जारकपोतयोः ।दशांशं टङ्कणं दद्यात्पाच्यं मृद्वग्निना ततः ॥७.१४॥पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥७.१५॥{विमलाः: शोधन}विमला त्रिविधं पाच्या रम्भातोयेन संयुता ।अम्लवेतसधान्याम्लमेषीमूत्रेण पेषयेत् ॥७.१६॥दोलायन्त्रे चतुर्यामं शुद्धिरेषा महोत्तमा ।{विमलः: शोधन}कर्कटीमेषशृङ्ग्युत्थद्रवैर्जम्बीरजैर्द्रवैः ॥७.१७॥भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥७.१८॥{माक्षिकः: अशुद्धः: मेदिच्. प्रोपेर्तिएस्}मन्दाग्निं बलहानिं च व्रणविष्टम्भनेत्ररुक् ।कुरुते माक्षिको मृत्युं अशुद्धो नात्र संशयः ॥७.१९॥{माक्षिकः: शोधन}माक्षिकं नरमूत्रेण क्वाथयेत्कोद्रवैर्द्रवैः ।वेतसेनाम्लवर्गेण टंकणेन कटुत्रिकैः ॥७.२०॥दोलायन्त्रे दिनं पाच्यं सूरणस्यैव मध्यगम् ।दिनं रम्भाद्रवैः पच्यात्तद्धृत्वा पेषयेद्घृतैः ॥७.२१॥एरण्डतैलसंयुक्तं पुटे पच्याद्विशुद्धये ।{माक्षिकः: शोधन}माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च ॥७.२२॥मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् ।लोहपात्रे पचेत्तावद्यावत्पात्रं सुलोहितम् ॥७.२३॥ताम्रवर्णमयो याति तावच्छुध्यति माक्षिकम् ।{माक्षिकः: शोधन}अगस्त्यपुष्पनिर्यासैः शिग्रुमूलं विघर्षयेत् ॥७.२४॥द्रवैः पाषाणभेद्याश्च पच्यादेभिश्च माक्षिकम् ।तद्वटीं चान्धमूषायां विंशद्भिरुपलैः पचेत् ॥७.२५॥पुनः पिष्ट्वाथ रुन्ध्याच्च पुटैःषड्भिर्विशुध्यति ॥७.२६॥{माक्षिकः: शोधन}मेघनादपाषाणभेदी पिष्ट्वा तत्पिण्डमध्ये माक्षिकं कणशः कृत्वा निक्षिपेत् ।तद्गोलकं वस्त्रे बद्ध्वा दोलायन्त्रे कुलत्थक्वाथे दिनमेकं पचेत् ।एतच्छुद्धलोहानां युक्तस्थाने मारणे योज्यम् ॥७.२७॥{माक्षिकः: परीक्षाः: गूद्क़ुअलित्य्}भङ्गे सुवर्णसंकाशोऽन्तः कृष्णो बहिश्छविः ।बृहद्वर्णं इति ख्यातो माक्षिकः श्रेष्ठ उच्यते ॥७.२८॥व्यापयत्यङ्गं अङ्गानि तैलबिन्दुरिवाम्भसि ।न विना शोधनं सर्वे धातवः प्रबलादयः ॥७.२९॥रोगोपशमकर्तारः शोधनं तेन वक्ष्यते ॥७.३०॥{चोरलः: मारण}प्रवालानां स्त्रीदुग्धेन भावना पश्चाद्धण्डिकामध्ये स्थापयित्वा निरुध्योपरि शरावकं दत्त्वा लेपयेत् ।वह्निसंदीपनं कृत्वा प्रहरद्वयेन विद्रुमं म्रियते ॥७.३१॥{उपरस (?):: मारण}कुलत्थस्य पचेद्द्रोणे वारिद्रोणेन बुद्धिमान् ।तेन पादावशेषेण क्वाथेऽष्टौ मणयः शिला ॥७.३२॥आतपे त्रिदिनं शुष्कं क्वाथसिक्तं पुनः पुनः ।मुक्ताचूर्णं समादाय करकाम्बुविभावितम् ॥७.३३॥आतपे त्रिदिनं भाव्यं चूर्णितं मृत्युं आप्नुयात् ॥७.३४॥{शिलाजतुः: शोधन}शङ्खं नीलाञ्जनं चैव पूर्ववच्छोधयेद्दिनम् ।गोमूत्रैस्त्रिफलाक्वाथैर्भृङ्गराजद्रवैर्जतुम् ॥७.३५॥मर्दयेदायसे पात्रे दिनाच्छुद्धिः शिलाजतोः ।{दरदः: शोधन}मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ॥७.३६॥सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ।{उपरसः: शोधन}सूर्यावर्तं वज्रकन्दं कदली देवदालिका ॥७.३७॥शिग्रु कोशातकी वन्ध्या काकमाची च वायसी ।आसामेकरसेनैव त्रिक्षारैर्लवणैर्युतम् ॥७.३८॥भावयेदम्लवर्गेण दिनमेकं प्रयत्नतः ।सौवीरं कान्तपाषाणं शुद्धभूनागमृत्तिका ॥७.३९॥शङ्खं नीलाञ्जनं चैव सर्वोपरसाश्च ये ।पृथग्भाव्यं विधानेन शुद्धिं यान्ति दिने दिने ॥७.४०॥ततः पश्चात्तु तद्द्रावैर्दोलायन्त्रे दिनं सुधीः ।शुध्यन्ते नात्र सन्देहः सर्वेषु परमा अमी ॥७.४१॥मुञ्चन्ति द्रुतसत्त्वांश्च मतं साधारणं स्मृतम् ॥७.४२॥{?:: सत्त्वपातन}गुग्गुलुं टङ्कणं लाक्षा मज्जा सर्जरसं पुनः ।ऊर्णा गुञ्जा क्षेत्रमीनं अस्थीनि शशकस्य च ॥७.४३॥गुडमध्वाज्यपिण्याकं तुत्थं पेष्यमजाजलैः ।सर्वं तुल्यं च धान्याभ्रं भूनागं मृत्तिकापि च ॥७.४४॥कान्तपाषाणतुल्यं च कठिन्युपरसाश्च ये ।मेलयेन्माहिषैः पच्याद्दध्यादिगोमयान्तिकैः ॥७.४५॥दृढं मर्द्यं वटीं कुर्यात्कर्षमात्रं तु शोषयेत् ।कोष्ठीयन्त्रे धमेद्गाढं अङ्गारैश्च चिरोद्भवैः ॥७.४६॥त्रिवारं धमनादेव सत्त्वं पतति निर्मलम् ।असाध्यान्मोचयेत्सत्त्वान्मृत्तिकादेश्च का कथा ॥७.४७॥{हरितालः: सत्त्वपातन}लाक्षा आज्यं तिलाः शिग्रुः टंकणं लवणं गुडम् ।तालकार्धेन संयोज्य छिद्रमूषां निरोधयेत् ॥७.४८॥पुटे पातालयन्त्रेण सत्वं पतति निश्चितम् ।{??}चाङ्गेरी चणकाम्लं च मातुलुङ्गाम्लवेतसम् ।चिञ्चा नारङ्गं जम्बीरनम्ण वर्ग इति स्मृतम् ।{हरितालः: सत्त्वपातन}तालकं चूर्णयित्वा तु छागीक्षीरेण भावयेत् ॥७.४९॥वारत्रयं ततो विद्धिमूलं पिष्ट्वा तु मिश्रितम् ।कृत्वा च गुडकं शुष्कं सत्वं ग्राह्यं च पूर्ववत् ॥७.५०॥{हरितालः: सत्त्वपातन}तालकं मर्दयेद्दुग्धैः सर्पाक्षीं वाथ मूलकैः ।पूर्ववद्ग्राहयेत्सत्त्वं छिद्रमूषां निरुध्य च ॥७.५१॥{मनःशिलाः: सत्त्वपातन}तालवच्च शिलासत्वं ग्राह्यं तैरेव चौषधैः ।तुल्येन टंकणेनैव ध्मातं सत्त्वं चतुर्थकम् ॥७.५२॥{माक्षिकः: सत्त्वपातन}गोक्षीरैश्च तुत्थक्षीरैर्भाव्यमेरण्डतैलकैः ।माक्षिकं दिनमेकं तु मर्दितं वटकीकृतम् ॥७.५३॥अभ्रवद्धमने सत्वं सम्यगस्याप्ययं विधिः ।{माक्षिक (?):: सत्त्वपातन}जयन्ती त्रिफलाचूर्णं हरिद्रागुडटङ्कणम् ॥७.५४॥पादांशं टङ्कणस्येदं पिष्ट्वा मूषां विलेपयेत् ।नालिकां सम्पुटे बद्ध्वा शोषयेदातपे खरे ॥७.५५॥ग्राह्यं पातालयन्त्रे च सत्वं ध्मातं पुटेन च ॥७.५६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP