संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसरत्नाकर| प्रकरण १.१० रसरत्नाकर प्रकरण १.१ प्रकरण १.२ प्रकरण १.३ प्रकरण १.४ प्रकरण १.५ प्रकरण १.६ प्रकरण १.७ प्रकरण १.८ प्रकरण १.९ प्रकरण १.१० प्रकरण २.१ प्रकरण २.२ प्रकरण २.३ प्रकरण २.४ प्रकरण २.५ प्रकरण २.६ प्रकरण २.७ प्रकरण २.८ प्रकरण ३.१ प्रकरण ३.२ प्रकरण ३.३ प्रकरण ३.४ प्रकरण ३.५ प्रकरण ३.६ प्रकरण ३.७ प्रकरण ३.८ प्रकरण ३.९ प्रकरण ३.१० प्रकरण ३.११ प्रकरण ३.१२ प्रकरण ३.१३ प्रकरण ३.१४ प्रकरण ३.१५ प्रकरण ३.१६ प्रकरण ३.१७ प्रकरण ३.१८ प्रकरण ३.१९ प्रकरण ३.२० रसरत्नाकर - प्रकरण १.१० रसायनशास्त्रावरील प्रसिद्ध ग्रंथांपैकी एक आहे रसरत्नाकर. याचे रचनाकार नित्यनाथसिद्ध नागार्जुन होत. या ग्रंथात मुख्यत: धातुंचे शोधन, मारण, शुद्ध पारद प्राप्ति शिवाय भस्म बनविण्याच्या विधींचे वर्णन आहे. Tags : rasaratnakarVedआयुर्वेदनागार्जुनरसरत्नाकर प्रकरण १० Translation - भाषांतर तैलानां पातनं वक्ष्ये सूर्यपाकेऽथवानले ।यन्त्रयोगेन यत्तैलं ग्राह्यं योगेषु योजयेत् ॥१०.१॥{धत्तूरः: ओइल्}धत्तूरबीजचूर्णानि वस्त्रपूतानि कारयेत् ।आलिप्य कांस्यपात्रं तु धारयेदातपे खरे ॥१०.२॥सुतप्तं वस्त्रपूतं च पातयेत्तैलमाहरेत् ।{शिग्रुः: ओइल्}शिग्रुपुष्करबीजानां बीजस्य मार्कवस्य च ॥१०.३॥ग्राह्यं धत्तूरवत्तैलमेकैकस्य पृथक्पृथक् ।यथा धत्तूरजं तैलं क्वाथाद्घर्मे समुद्धृतम् ॥१०.४॥तथा सर्वत्र तैलानि संग्राह्यान्यौषधान्तरैः ।{अङ्कोटः: ओइल्}अङ्कोटस्यापि तैलं स्यात्काकतुण्डया समूलया ॥१०.५॥वाकुचीदेवदाल्याश्च कर्कोटीमूलतः भवेत् ।अपामार्गकषायेण तैलं स्याद्विषतुण्डजम् ॥१०.६॥मूलक्वाथैः कुमार्यास्तु तैलं जैपालजं भवेत् ।क्वाथेन रक्तमार्गस्य वाकुचीतैलमाहरेत् ॥१०.७॥क्वाथेन चेन्द्रवारुण्यास्तैलमारग्वधं भवेत् ।काकतुण्ड्यपामार्गोत्थक्वाथात्तैलं समाहरेत् ॥१०.८॥{कटुतुम्बीः: ओइल्}बीजानि कटुतुम्ब्याश्च गोमयेन विलोडयेत् ।शुष्कं धान्यतुषैः सार्द्धं कुट्टयेच्च उलूखले ॥१०.९॥निस्तुषं तं विचूर्ण्याथ भृङ्गराजरसैः सह ।मर्दयित्वातपे तैलं गृह्णीयात्पीडने सति ॥१०.१०॥{ओइल्फ़्रों कृष्णा अन्द्काकतुण्डी}कृष्णायाः काकतुण्ड्याश्च बीजं चूर्णानि कारयेत् ।कान्तपाषाणचूर्णं चैकीकृत्य निरोधयेत् ॥१०.११॥धान्यराशिगतं पक्त्वा उद्धृते तैलमाहरेत् ।धात्रीफलरसैर्भाव्यं चूर्णं पाषाणबीजकम् ॥१०.१२॥दिनैकं च ततो यन्त्रे तैलं ग्राह्यं च तैलके ।{ओइलः: फ़्रों गुञ्जा अन्द्करञ्ज}गुञ्जाकरञ्जफलं च नरमूत्रेण भावयेत् ॥१०.१३॥सप्तवारं ततो घर्मे लेपयेत्कांस्यभाजनम् ।उद्धृत्य धारयेद्घर्मे तैलं पतति पीडनात् ॥१०.१४॥{ओइलः: ज्योतिष्मती}वर्धमानारनालेन पिष्ट्वा चूर्णं विभावयेत् ।ज्योतिष्मत्युत्थबीजानां आतपे तैलमाहरेत् ॥१०.१५॥{ओइलः: पुत्रजीव}पुत्रजीवस्य बीजानां चूर्णं अगस्त्यबीजजम् ।आम्रातवत्प्रकर्तव्यं ततस्तैलं पृथक्पृथक् ॥१०.१६॥{ओइलः: बिल्व}नारिकेलाम्बुना भाव्यं बिल्वबीजस्य चूर्णकम् ।दिनैकं तैलयन्त्रेण तैलमाकृष्य योजयेत् ॥१०.१७॥{ओइलः: अङ्कोल}निस्तुषाङ्कोलबीजानां सुखं किंचिद्विघर्षयेत् ।प्रलेपयेत्कांस्यपात्रे पिष्ट्वा चणकलेपने ॥१०.१८॥तन्मुखे टंकणं चूर्णं किंचित्किंचित्प्रलेपयेत् ।धारयेदातपे तीव्रे मुखात्तैलं समाहरेत् ॥१०.१९॥{केशतैल}शमीचूर्णसमं पिष्ट्वा छिद्रमाण्डे निवेशयेत् ।छिद्राधः स्थापयेद्भाण्डं छिद्रे केशं च दापयेत् ॥१०.२०॥जलेन सेचयेद्द्रव्यं छिद्राधो ग्राहयेच्च तम् ।तन्मध्ये धृतकेशस्य क्षिपेदूर्ध्वं पुटं शनैः ॥१०.२१॥तत्क्षणाच्छ्रवरूपं च केशतैलमिदं भवेत् ।{ओइलः: एxत्रच्तिओन्(गेन्.)}अपक्वभानुपत्राणां रसमादाय भावयेत् ॥१०.२२॥समस्तं बीजचूर्णं चोक्तानुक्तं पृथक्पृथक् ।आतपे मुच्यते तैलं साध्यासाध्यं न संशयः ॥१०.२३॥{ओइल्}तथैवोत्तरवारुण्याः कषायेण समाहरेत् ।तैलं समस्तबीजानां ग्राहयेदातपे खरे ॥१०.२४॥{ओइल्}सर्वबीजास्थिमांसानां शुष्कं पिष्ट्वा ह्यनेकधा ।सर्वबीजेषु वा तैलं ग्राह्यं पातालयन्त्रके ॥१०.२५॥{ओइल्}वंशादिसर्वकाष्ठानां नारिकेलकपालकम् ।तुषधान्यादिबीजानां गर्भयन्त्रेण तैलकम् ॥१०.२६॥ग्राहयेत्सर्वबीजानां तं च योगेषु योजयेत् ॥१०.२७॥{वत्सनाभ}वत्सनाभं विषं स्वादु दीपनं कफवातजित् ।त्रिदोषशमनं योगयुक्तं सुधामयं भवेत् ॥१०.२८॥बृंहणं बलवीर्यस्य वाडबाग्निशतोपमम् ।सन्निपाते प्रतीकारे प्रभवः प्रभवोऽस्य हि ॥१०.२९॥उद्धृतं फलपाकान्ते नवं स्निग्धं घनं गुरु ।अव्यापकं विषहरं वातातपविशोषितम् ॥१०.३०॥रक्तसर्षपतैलेन लिप्तं वाससि धारयेत् ।अथवापि यथा प्राप्तं विषं गोमूत्रसंयुतम् ॥१०.३१॥आतपे त्रिदिनं शुष्कं निहितं वीर्यधृक्भवेत् ।मृतं सूताभ्रकं लौहं विषं च तुल्यवीर्यकम् ॥१०.३२॥तस्माद्विषं योगवाहे योज्यं योगे रसायने ।तानि चैव तु मानानि अष्टौ षड्वा चतुर्थकम् ॥१०.३३॥मात्रात्रयं समाख्यातमुत्तमाधममध्यम् ।दातव्यं सर्वरोगेषु घृताशिने हिताशिने ॥१०.३४॥क्षीराशिने प्रदातव्यं रसायनवते नरे ।न क्रोधिने न पित्ताढ्ये न क्लीबे राजयक्ष्मणि ॥१०.३५॥क्षुत्तृष्णाश्रमकर्माध्वशोषिणे क्षयरोगिणे ।गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे ॥१०.३६॥न दातव्यं न भोक्तव्यं विसंवादे कदाचन ।आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ॥१०.३७॥अनेन मन्त्रेण मर्दयेद्भूमौ न स्थापयेत् ।अमृतमिति वदेदिति क्रमोऽयम् ।ओं सिद्धगुरुभ्यो नमः ।परमगुरुभ्यो नमः ।परात्परगुरुभ्यो नमः ।परमेष्ठिगुरुभ्यो नमः ।{वेगेतब्ले पोइसोन्स्}सक्तुकं मुस्तकं शृङ्गी वालकं सर्षपाह्वयम् ।वत्सनाभं च कूर्मश्च श्वेतशृङ्गी तथाष्टमम् ॥१०.३८॥इत्यष्टौ योजयेद्योगे कालकूटादि वर्जयेत् ।{पोइसोन्स्}कालकूटं मेषशृङ्गी हालाहलं च दर्दुरम् ॥१०.३९॥कर्कटं मर्कटं ग्रन्थि हारिद्रं रक्तशृङ्गकम् ।केशवं दशमं चेति वर्जनीयं भिषग्वरैः ॥१०.४०॥सक्तुकाद्यान्प्रयुञ्जीत सर्वरोगे रसायने ।एतद्विषं जातिचतुष्टयं च विचार्य योज्यं भिषगुत्तमेन ॥१०.४१॥विप्रो रक्षति यौवनं नरपतिस्तद्भूतले पालतां वैश्यः कुष्ठविनाशने च कुशलः शूद्रो हरेज्जीवनम् ।तस्माच्चापि भिषग्वरेण निपुणैस्तद्वेदिना भावयेत्कुर्यादेव ततो विषं नृपवरो मृत्युंजयाय क्षितौ ॥१०.४२॥श्वेता वा यदि वा पिङ्गा मधुरा ऊषरापि वा ।लोमशा ब्रह्मजातिः स्यात्क्षत्रजातिस्तु लोहिता ॥१०.४३॥पीता वा मधुरा किंचिद्वैश्यजातिस्तु धूसरा ।कृष्णा शूद्रस्य दृश्येत एतेषां च भिषग्वरैः ॥१०.४४॥क्षीरं सम्पूर्णभाण्डेऽपि विषं दत्त्वा विचिन्तयेत् ।जायतेऽपि यदा वर्णं तदा जातिं विनिर्दिशेत् ॥१०.४५॥शुक्लं रक्तं तथा पीतं कृष्णं चेति चतुर्विधम् ।ब्रह्मक्षत्रविट्शूद्राणां ज्ञातव्यो जातिनिर्णयः ॥१०.४६॥क्षिप्तं दुग्धे विषं वैद्यो जानीयात्क्रमशो यदि ।श्वेतं रक्तं तथा पीतं कृष्णं चोष्णलमेव च ॥१०.४७॥तुत्थेन टङ्कणेनैव म्रियते पेषणाद्विषम् ।विषेषु जङ्गमाख्येषु विषं नागभवं हितम् ॥१०.४८॥इदमेव महाश्रेष्ठं त्रिदोषक्षपणं क्षणात् ।दीपनं कुरुते सद्यो वडवाग्निशतोपमम् ॥१०.४९॥संनिपातप्रतिकारे प्रभावः प्रभवो हि सः ॥१०.५०॥नागोद्भवं यथाप्राप्तं विषं गोमूत्रसंयुतम् ।आतपे त्रिदिनं शुष्कं निहितं वीर्यधृग्भवेत् ॥१०.५१॥अतिमात्रं यदा भुङ्क्ते तदार्ज्य टङ्कणं पिबेत् ।रजनी मेघनादा वा सर्पाक्षी वा घृतान्विता ॥१०.५२॥लिहेद्वा मधुसर्पिर्भ्यां चूर्णितां अर्जुनत्वचम् ।पुत्रजीवकमज्जां वा पिबेद्वा निम्बकद्वयम् ॥१०.५३॥एवं विषविधिः ख्यातः प्रयोगं च वदाम्यहम् ।विषं त्रिकटुकं मुस्तं हरिद्रानिम्बपत्रकम् ॥१०.५४॥विडङ्गं अष्टमं चूर्णं छागमूत्रैः समं समम् ।चणकाभा वटी ख्याता स्याज्जया योगवाहिका ॥१०.५५॥विषं पाठाश्वगन्धाश्च बला तालीसपत्त्रकम् ।मरिचं पिप्पली निम्बमजामूत्रेण तुल्यकम् ॥१०.५६॥वटिका पूर्ववत्कार्या वटिका योगवाहिका ।निद्रां तन्द्रां क्लमं दाहं सफेनं लोमहर्षणम् ॥१०.५७॥शोषं चैवातिसारं च कुरुते जङ्गमं विषम् ।स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम् ॥१०.५८॥फेनछर्द्यरुचिश्वासं मूर्च्छां च कुरुते विषम् ।न जानाति यदा मन्त्री विषं भक्षेच्चिकित्सितम् ॥१०.५९॥विषमेव तदादाय मज्जत्यम्बुनिधाविव ।तस्माद्यत्नेन संरक्षेद्राजा विषचिकित्सकात् ॥१०.६०॥प्रथमं वह्निखर्परिकायां मनाग्भृष्ट्वा वक्ष्यमाणमन्त्रेण निर्विषं विधाय गृह्णीयादिति ।निम्बुद्रवे पित्तं वारत्रयं विभाव्य प्रक्षाल्य संशोष्य गृह्णीयादिति ।{शिलाजतुः: ओरिगिन्}हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः ।जत्वाभं मृदु मृत्स्नाभं यन्मलं तच्छिलाजतु ॥१०.६१॥{शिलाजतुः: मेदिच्. प्रोपेर्तिएस्}अनघं चाल्पकषायं च कटु पाके शिलाजतु ।नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ॥१०.६२॥{शिलाजतुः: फ़्रों गोल्दः: मेदिच्. प्रोपेर्तिएस्}हेम्नोऽथ रजतात्ताम्राद्वरं कालायसादपि ।मधुरं च सतिक्तं च जपापुष्पनिभं च यत् ॥१०.६३॥विपाके कटु शीतं च तत्सुवर्णस्य निसृतम् ।{शिलाजतुः: फ़्रों सिल्वेरः: मेदिच्. प्रोपेर्तिएस्}राजतं कटुकं श्वेतं शीतं स्वादु विपच्यते ॥१०.६४॥{शिलाजतुः: फ़्रों चोप्पेरः: मेदिच्. प्रोपेर्तिएस्}ताम्राद्बर्हिणकण्ठाभं तीक्ष्णोष्णं पच्यते कटु ।{शिलाजतुः: फ़्रों इरोनः: मेदिच्. प्रोपेर्तिएस्}यच्च गुग्गुलुसंकाशं सतिक्तं लवणान्वितम् ॥१०.६५॥विपाके कटु शीतं च सर्वश्रेष्ठं तदायसम् ।गोमूत्रगन्धः सर्वेषां सर्वकर्मसु यौगिकाः ॥१०.६६॥रसायनप्रयोगेषु पश्चिमं तु विशिष्यते ।यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ॥१०.६७॥विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः ।{शिलाजतुः: फ्य्स्. प्रोपेर्तिएस्}लौहः किट्टायते वह्नौ विधूमं दह्यतेऽम्भसि ॥१०.६८॥तृणाद्यग्रे कृतं श्रेष्ठं अधो गलति तन्तुवत् ।दंशदंष्ट्रौषधादिदोषहरणार्थं मेषशृङ्गं भूर्जपत्रेण धूपयेत् ।क्वाथ्यद्रव्यं शिलाजतुसमं चतुर्गुणेन जलं दत्त्वा चतुर्भागावशेषेण भावयेदित्येकः पक्षः ।वाग्भट्टस्तु अष्टगुणजलदानेनाष्टावशेषे पूर्ववदुभयथैव व्यवहारः ।भद्रशिलाजतु त्रिफलादशमूलोष्णक्वाथे निक्षिप्य ।केवलोष्णोदके वा स्थिते ऊर्ध्वं वीभूते पद्धपत्रवत्सर्वं ग्राह्यम् ।ततः शिवागुडिकोक्तक्रमेण भावनां दत्त्वा विशोध्य सालसारादिना भावयेद्यथा ।सालयुग्मौ करञ्जौ द्वौ खदिरं चन्दनद्वयम् ।गर्दभाण्डोऽर्जुनश्चेह लोध्रयुग्मधवासनाः ॥१०.६९॥शिरीषागुरुकालीयपूगपूतिककर्कटाः ।सालसारादिरप्येष गणः श्लेष्मगदापहः ॥१०.७०॥मेहगुल्मार्शःकुष्ठारिमेदःपाण्डुरुजापहः ।एभिर्दिवातपे शोष्यं रात्रौ रात्रौ च भावयेत् ॥१०.७१॥द्रवेण यावता द्रव्यमेकीभूयार्द्रतां व्रजेत् ।भवेत्प्रमाणं निर्दिष्टं भिषग्भिर्भावनाविधौ ॥१०.७२॥भवेद्द्रव्यं समं क्वाथ्यं क्वाथं चाष्टावशेषितम् ।तेनार्द्रसमं द्रव्यं शोषयेत्प्रबलातपे ॥१०.७३॥दग्धहीरकं योज्यं निक्षिप्याग्नौ ध्मापयित्वा निर्गुण्डीरसेन सप्तवारान्निर्वाप्य प्रक्षाल्य च गृह्णीयात् ॥१०.७४॥जायन्ते वामरुक्वाथे जनपदे ग्रीष्मेऽर्कतापार्दिताः ।शीतोषणे शिशिरे च गुग्गुलुरसं मुञ्चन्ति ते पञ्चधा ॥१०.७५॥हेमाभं महिषाक्षतुल्यमपरं तत्पद्मरागोपमं भृङ्गाभं कुमुदद्युतिं च विधिना ग्राह्या परीक्ष्या ततः ॥१०.७६॥वह्नौ ज्वलन्ति तपने विलयं प्रयान्ति क्लिद्यन्ति कोष्णसलिले पयसा समानाः ॥१०.७७॥ग्राह्याः शुभाः परिहरेच्चिरकालजातानङ्गात्स्फुटं खर्परगन्धिकतुल्यवर्णान् ॥१०.७८॥{गुग्गुलुः: मेदिच्. प्रोपेर्तिएस्}स्वादे स्वादुः कषायतिक्तकटुको वीर्ये विपाके कटुः ।वृष्यो मार्गविशोधनेऽतिविशदस्तीक्ष्णो विकाशी सरः ॥१०.७९॥सायुष्यः स्वरदस्त्रिदोषशमनो मेधास्मृतिश्रीकरः ।धन्यः पापनिसूदनोऽग्निजननो हृत्कण्ठशोधीपुनः ॥१०.८०॥{गुग्गुलुः: शोधन}दशमूलक्वाथे उष्णे पूते गुग्गुलुं परिक्षिप्यालोड्य च वस्त्रपूतं विधाय चण्डातपे विशोष्य घृतं दत्त्वा पिण्डितव्यम् ॥१०.८१॥{चोन्छः: शोधन}शंखनाभिं तथाम्लेन सप्तवारं हि भावयेत् ।रौद्रे मलादिकं त्यक्त्वा प्रक्षाल्य ग्राहयेदिति ॥१०.८२॥{मोनेय्चोwरिएः: शोधन}वराटीं तक्रचाङ्गेरीजम्बीराणां रसे शुभे ।प्रक्षिप्य भावयेत्तावद्यावच्छुक्ला न पश्यति ॥१०.८३॥पश्चादुद्धृत्य गृह्णीयाद्वराटीं शुद्धिमागताम् ॥१०.८४॥{पेअर्लः: शोधन}भौमिकं जलं आदाय मुक्तां च व्युषितामपि ।त्यक्त्वा मलादिकां तां च प्रक्षाल्य ग्राहयेदिति ॥१०.८५॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP