संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथहविः

धर्मसिंधु - अथहविः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


व्रीहियवतिलमाषगोधूमश्यामाकप्रियङ्गुमुद्गसर्षपाःश्राद्धेप्रशस्ताःचणकोविकल्पितः

यावनालोपिविकल्पितः इष्टापूर्तेमृताहेचदर्शवृद्ध्यष्टकासुच ।

पात्रेभ्यस्त्वेषुकालेषुदेयंनैवकुभोजनम् १ अगोधूमंचयच्छ्राद्धंमाषमुद्गविवर्जितम्

तैलपक्वेनरहितंकृतमप्यकृतंभवेत् २ राजमाषाश्चनिष्पावाअपिशस्ताःसतीनकाः ।

राजमाषामहाराष्ट्रभाषया'चवळी'तिप्रसिद्धाःनिष्पावाः 'पावटे'इति सतीनकाः 'वाटाणे' इति

कदलीफलमाम्रफलंसूरणःपनसःत्रिविधंकर्कटीपलम् कोशातकी 'दोडका' इतिप्रसिद्धा कुस्त्म्बुरुवैकल्पिकम्

पटोलंबदरमामलकंखर्जूरीफलंचिंचार्द्रकंशुण्ठीमूलकंद्राक्षालवंगैलापत्रकाणिजीरकंहिङ्गुदाडिमफलमिक्षुःशर्करागुडः

कर्पुरःसैन्धवसामुद्रेलवणेपूगीफलंताम्बूलपत्रमितिश्राद्धेप्रोक्तानिहवीषि गव्ये दधिदुग्धे घृतंगव्यंमाहिषंच

केचिन्माहिषंतक्रंसद्यःकृतमनुद्धृतनवनीतंग्राह्यमाहुःकेचिन्महिषीक्षीरंशर्करादियुतंग्राह्यमाहुःमथितंनिर्जलंदधिसर्वनिषिद्धम्

जम्भीरफलं विहितप्रतिषिद्धत्वाद्विकल्पितम् अक्षोटः 'अक्रोड' इतिप्रसिद्धः शङ्वाटकः '

शिंगाडे' इतिप्रसिद्धः चिर्भटं 'खर्बूज' इतिप्रसिद्धम् शीतकंदली 'राताळी'ति प्रसिद्धम्

एते श्राद्धेविहिता आम्रातकः 'आंबाडा' इतिप्रसिद्धस्तण्डुलीयो'माथ' इतिप्रसिद्धः

एतौद्वौविहितप्रतिषिद्धौ केचिद्राजमाषंकृष्णेतरमुद्गंकृष्णनिष्पावंचनिषिद्धमाहुः

कथंचिद्यदिविप्रेभ्योनदत्तंभोजनेमधु । देवराच्चसुतोत्पत्तिःकलौपञ्चविवर्जयेत् १

इतिवचनद्वयान्मधुनिएच्छिकविकल्पः केचिद्यथाचारंप्रदेयंतुमधुमांसादिकंतथा ।

इतिवचनाद्देशाचारानुसारेणव्यवस्थितकल्पमाहुः

मांसंश्राद्धेषुनैवदेयंकलिवर्ज्यत्वात् नदद्यादमिषंश्राद्धेनचाद्याद्धर्मताववित् ।

इत्यादिश्रीभागवतवचनाच्च

अन्यानिमुञ्जातचव्यकसेरुकालेयादिद्रव्याणिबहूनिमहानिबन्धेषूक्तानितान्यप्रसिद्धत्वाच्छ्राद्धेवश्यापेक्षोपयोगयोरभावाच्चनोच्यंते ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP