संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
सांकल्पिकश्राद्धबोधनार्थः

धर्मसिंधु - सांकल्पिकश्राद्धबोधनार्थः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पितुरविभक्तैःपुत्रैःपृथग्वैश्वदेवोनकार्यः पितृपाकोपजीवीस्याद्भातृपाकोपजीवकः ।

इत्युक्तेःअतएवगृह्याग्रौपाकवैश्वदेवकरणपक्षेपिसाग्निकेपितरिसाग्निकैरप्यविभक्तैःपुत्रैःपृथग्वैश्वदेवोनकार्यः

येषांपाकाभावेऽग्नेलौकिकत्वंमतंतैःपाकमात्रमग्निसंस्कारार्थंकार्यमितिबहति विभक्तैस्तुपृथग्वैश्वदेवःकार्यः

तत्रवैश्वदेवस्यदेवयज्ञभूतयज्ञपितृयज्ञात्मकत्वाज्जीवत्पितृकैरपिपञ्चमहायज्ञान्तर्गतः

पितृयज्ञःकार्यःवैश्वदेवाद्भिन्नाःपञ्चमहायज्ञास्तैत्तिरीयाणांतैरपिविभक्तैर्जींवत्पितृकैःपितृयज्ञःकार्यः

तस्यदेवरुपिपितृदेवताकत्वेनपितृपितामहादिमनुष्यरुपिपितृदेवताकत्वाभावात्‌ मुण्डनंपिण्डदानंचप्रेतकर्मचसर्वशः ।

नजीवत्पितृकःकुर्याद्गुर्विणीपतिरेवच १ अत्रमुण्डनंक्षुरेणशिरसोपवनं तेनकर्तनंसिध्यति

सर्वंप्रेतकर्मप्रेतदहनवहनसपिण्डीकरणान्तौर्ध्वदेहिकादिकमित्यर्थः मुण्डनंरागप्राप्तमेव निषिध्यते

तेनचौलोपनयनादिषुआधानदर्शपौर्णमासज्योतिष्टोमादिषुनित्यप्राप्तंतीर्थप्रायश्चित्तमातृमरणादौनैमित्तिकप्राप्तंचभवत्येव

केचित्काम्यनागबल्यादिषुकाम्यमपिभवतीत्याहुः गङगायांभास्करक्षेत्रेमातापित्रोर्गुरोर्मृतौ ।

आधानेसोमपानेचवपनंसप्तसुस्मृतम् १ गुरोरितिदत्तकस्यपूर्वापरपित्रोरित्यर्थः

वाक्यान्तरेतीर्थमात्रेक्षौरोक्तेर्गङगाभास्करक्षेत्रग्रहणंजीवत्पितृकस्यतत्रविशेषतःक्षौरविधानार्थम्

जीवत्पितृकस्यपिण्डदाननिषेधःनान्दीश्राद्धतीर्थश्राद्धयोः

संन्यस्तादिपितृकस्यदर्शमहालयादिश्राद्धेषुचपिण्डरहितसांकल्पिकश्राद्धबोधनार्थः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP