संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथश्राद्धाद्यधिकारिनिर्णयः

धर्मसिंधु - अथश्राद्धाद्यधिकारिनिर्णयः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथश्राद्धाद्यधिकारिनिर्णयः तत्रसांवत्सरिकादिश्राद्धेषुदाहाद्यौर्ध्वदेहिकक्रियायांचौरसःपुत्रोमुख्योऽधिकारी

औरसपुत्राणाम्बहुत्वेज्येष्ठएवाधिकारी ज्येष्ठस्याभावेऽसन्निधानेवापातित्यादिनाधिकाराभावेवाज्येष्ठानुजः

यत्तुज्येष्ठासन्निधौसर्वतः कनिष्ठोऽधिकारी नतुमध्यमाइतितन्निर्मूलम्

तत्रपुत्राणांविभक्तत्वेकनिष्ठेभ्योधनंगृहीत्वाज्येष्ठेनैवसपिण्डीकरणान्ताक्रियाकार्या

सांवत्सरिकादिकंतुपृथक्‌पृथक्‌ अविभक्तत्वेतुसाम्वत्सरिकादिकमप्येकेनैवकार्यम्

एकेनकृतेपिसर्वेषांफलभागित्वात्सर्वेः

पुत्रैर्ब्रह्मचर्यपरान्नवर्जनादयोनियमाःकार्याःपुत्राणामेकदेशस्थित्यभावेदेशान्तेरगृहान्तरेवास्थितैस्तैरविभक्तैरपिपृथगेववार्षिकादिकंकार्यम्

तत्रयदाज्येष्ठासन्निधौकनिष्ठोदाहादिकंकरोतितदाषोडशश्राद्धान्तमेवकुर्यान्नसपिण्डीकरणम्

वर्षपर्यन्तंज्येष्ठप्रतीक्षांकुर्यात् तन्मध्ये ज्ञातेज्येष्ठेनैवकार्यम् नोचेद्वर्षान्तेकनिष्ठेनापिकार्यम्

वर्षात्प्राक्‌पुत्रभिन्नेनकृत मपिमासिकानुमासिकसपिण्डीकरणंपुत्रेणपुनःकार्यम्

एवंकनिष्ठेनकृतमपिज्येष्ठपुत्रेणपुनःकार्यम् विशेषस्त्वग्रेवक्ष्यते ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP