संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथश्राद्धेब्राह्मणाः

धर्मसिंधु - अथश्राद्धेब्राह्मणाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथश्राद्धेब्राह्मणाह तत्र जातकर्मादिसंस्कारैःसंस्कृताःसत्यवाक्शुचिः ।

वेदाध्ययनसंपन्नःषट्‌सुकर्मस्ववस्थितः १ पुरुषत्रयविख्यातःसवैब्राह्मणउच्यते ।

इतिब्राह्मनसामान्यलक्षणम् तत्रोत्तममध्यमाधमभेदेनत्रिविधाब्राह्मणाः ॥

तत्रोत्तमः वेदाध्ययनसंपन्नावेदाङाध्यायिनोपिच ।

येवैयाकरणायेचमीमांसाध्ययनेरतः १ पौराणिकश्चवेदान्तीधर्मशास्त्ररतोपिच ।

एतेषामप्रियेपुत्राब्रह्मवेत्तातथैवच २वेदार्थज्ञःकर्मनिष्ठस्तपोनिष्ठश्चयोगिनः ।

पितृमातृपरश्चैवस्वधर्मनिरतस्तथा ३ शिशुरप्यग्निहोत्रीचसोमादिश्रौतकर्मवित् ।

शिवभक्तौविष्णुभक्ताभार्यायामृतुकालगः ४ गुरुभक्तोज्ञाननिष्ठः सोमयाजीचसत्यवाक्‍ ।

सुशीलस्नातकयतिब्रह्मचारिणउत्तमाः ५ एतेसर्वेसपत्नीकायुवत्वादिगुणान्विताः ।

सापिंड्ययोनिशिष्यत्वादिसंबंधैश्चवर्जिताः ६ कुष्ठापस्मारादिदोषैर्हीनाश्चेदुत्तमाःस्मृताः ।

तत्रदशाहादिसूतकादिप्रयोजकसापिण्ड्यसगोत्रसोदकत्वरूपसंबन्धः सापिण्ड्यपदाभिधेयः

योनिसंबन्धोमातुलत्श्चशुरत्वशालकत्वादिः आदिनागुरुत्वसहाध्यायित्वमित्रत्वादयः

तथाचसपत्नीकत्वादिगुणयुक्ताउक्तसंबन्धहीनाअपस्मारान्धत्वादिदोषहीनावेदाध्यायित्वादिसप्तविंशतिप्राकराविप्राउत्तमाइतिसिद्धम्

तत्रविशेषः यद्येकंभोजयेच्छ्राद्धेछन्दोगंतत्रपूजयेत् । ऋचोयजुंषिसामानित्रितयंतत्रविद्यते १ ऋग्वेदिनंचपित्रर्थेयाजुषंतुपितामहे ।

प्रप्तिआमहेसामगंचभोजयेच्छ्राद्धकर्मणि २ अथर्ववेदिनंवैश्वदेवेपित्र्येचभोजयेत् ।

एतेनस्वशाखियद्विजाभावेद्विजानन्यान्निमन्त्रयेदितिनिरस्तम् केचिद्यथाकन्यातथाहविरितिनियमाद्यैः

सहयोनिसंबन्धस्तएवपरशाखीयाःश्राद्धार्हाइत्याहुस्तन्निर्मूलम् केचिच्छ्राद्धकर्तृसगोत्रसप्रवरावर्ज्याः

पितृपुत्रौभ्रातरौद्धौनिरग्निगुर्विणीपतिम् । सगोत्रप्रवरंचैववर्जयेच्छ्राद्धकर्मणि १

इतिवचनादित्याहुः विनामाम्सेनमधुनाविनादक्षिणयाशिषा । परिपूर्णभवेच्छ्राद्धंयतिशुश्राद्धभोजिषु १ इतियतिप्रशंसा ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP