संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
पिण्डीकरणः

धर्मसिंधु - पिण्डीकरणः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


कनिष्ठस्यसाग्निकत्वेसपिण्डीकरणमपिद्वादशेह्निकनिष्ठेनकार्यम्

औरसपुत्राभावेपुत्रिकासुतक्षेत्रजादयोद्वादशविधाःपुत्राउक्तास्तथापिकलौतेषांपुत्राणांनिषेधादौरसपुत्राभावेदत्तकएवाधिकारी

मातापितृभ्यामन्यतरेणवाविधिपूर्वंदत्तःप्रतिग्रहीतृसवर्णोदत्तकः भार्यानुमत्यापत्युःपुत्रदातृत्वंतदप्यापदि

अत्यन्तापदितुभार्यानुमत्यभावेपि पत्‍न्याःमत्यनुमत्यैव अत्रविशेषविचारःप्रागुक्तः दत्तकाभावेपौत्रः

पौत्राभावे प्रपौत्रः अन्येत्वौरसाभावेपौत्रः तदभावेप्रपौत्रः प्रपौत्राभावे दत्तकइत्याहुः

उपनीतपौत्रसत्त्वेप्यनुपनीतस्याप्यौरसपुत्रस्यैवाधिकारः सचकृतचुडस्यैववर्षाधिकवयसःपूर्णत्रिवर्षस्यत्वकृतचूडस्यापि

अनुपनीतेनापिमन्त्रपाठपूर्वकमेव पित्रोरौर्ध्वदेहिकंसांवत्सरिकादिकंश्राद्धंचकार्यम्

अशक्तोत्वग्निदानमात्रंसमन्त्रकमनुपनीतेनकार्यम् अन्यत्त्वन्यद्वारा एवंश्राद्धेपिदर्शमहालयादौसंकल्पमात्रंकार्यम्

अन्यदितरेण केचित्तूनत्रिवर्षेणचूडारहितेनापिदाहमात्रंसमन्त्रकंकार्यंशेषमन्येनेत्याहुः दत्तकस्तूपनीतएवाधिकारी

दत्तकाभावेप्रपौत्राभावेचभर्तुःपत्‍नीपत्‍न्याभर्ताचदाहाद्यौर्ध्वदेहिकंसांवत्सरिकश्राद्धादिकंचकुर्यात्

भर्त्तुरपिसपत्‍नीपुत्रसत्त्वेऽधिकारोन विदध्यादौरसःपुत्रोजनन्याऔर्ध्वदेहिकम् ।

तदभावेसपत्‍नीजइत्युक्तेः भार्ययापिसमन्त्रकमेवौर्ध्वदेहिकादिकंकार्यम्

अशक्तौत्वग्निदानमात्रंसमन्त्रकंकृत्वाशेषमन्येनकार्यम् श्राद्धे संकल्पमात्रंकृत्वाशेषमन्येन ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP