संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
श्राद्धेभरण्यादिनक्षत्रं

धर्मसिंधु - श्राद्धेभरण्यादिनक्षत्रं

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


श्राद्धेभरण्यादिनक्षत्रंव्यतीपातादियोगश्चापराह्णव्यापीत्युक्तंद्वितीये

केचिच्छुक्लपक्षेउदयव्यापिनक्षत्रंकृष्णपक्षेऽस्तमयव्यापि योगस्तुकुतुपादिव्यापीत्याहुः

एतच्चपार्वणश्राद्धंकुतुपादिमुहूर्तपञ्चकेकार्य नसायाह्ने नरात्रौ नप्रातःसंगवयोः

पिण्डपितृयज्ञदिनेसायाह्नेपिपार्वणमनुज्ञायते यदाविघ्नवशाद्दिनेसांवत्सरिकश्राद्धंनकृतं

तदारात्रावपिप्रथमप्रहरपर्यन्तंकार्यम् मृताहातिक्रमेचाण्डालत्वादिदोषोक्तेः

ग्रहनदिनेदर्शमासिकप्रतिवार्षिकादिश्राद्धप्राप्तौतद्दिनेएवान्नेनामेनवाहेम्नावा

कुर्यान्नोतरदिने प्रथमाब्दिकंत्रयोदशेमलमासेकार्यमित्युक्तम्

तेनयत्रद्वादशमासिकंशुद्धमासेभवतितत्रत्रयोदशेऽधिकएवप्रथमाब्दिकंकार्यम्

यदात्वधिकमध्येद्वादशंमासिकंतदाद्वादशमासिकस्यद्विरावृत्तिंकृत्वाचतुर्दशेशुद्धमासेप्रथमाब्दिकम्

एवंद्वितीयादिमासिकस्यापिमलमासेप्राप्तस्यद्विरावृत्तिर्ज्ञेयाद्वितीयाब्दिकंतुशुद्धमासेएव

एवंमहालयोपिशुद्धे एवनाधिकेमासेकिंचिदपि

मलमासमृतानांतुयदासएवमलमासोभवतितदाधिकएवसांवत्सरिकंनशुद्धे

दर्शदिनेवार्षिकप्राप्तौपूर्ववार्षिकंकृत्वाततःपिण्डपितृयज्ञंपाकान्तरेणदर्शश्राद्धंचकुर्यात्

परेतुआदौपिण्डपितृयज्ञस्ततोवार्षिकं ततोदर्श इतिक्रममाहुः एवंमासिकादिष्वापिज्ञेयम् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP