संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
सप्तोत्तशततमोऽध्यायः

श्री नारदीयमहापुराणम् - सप्तोत्तशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


ब्रह्योवाच ॥
अथ मात्स्यं पुराणं ते प्रवक्ष्ये द्विजसत्तम ॥ यत्रोक्तं सप्तकल्पानां वृत्तं संक्षिप्य भूतले ॥१॥
व्यासेन वेदविदुषा नारसिंहोपवर्णने ॥ उपक्रम्य तदुद्दिष्टं चतुर्द्दशसहस्त्रकम्‍ ॥२॥
मनुमत्स्यसुसंवादो ब्रह्माडंकथनं ततः ॥ ब्रह्मदेवासुरोत्पत्तिर्मारुतोत्पत्तिरेव च ॥३॥
मदनद्वादशी तद्वल्लोकपालाभिपूजनम्‍ ॥ मन्वन्तरसमुद्देशो वैश्यराज्यभिवर्णनम्‍ ॥४॥
सूर्यवैवस्वतोत्पत्तिर्बुधसंगमनं तथा ॥ पितृवंशानुकथनं श्राद्धःकालस्तथैव च ॥५॥
पितृतीर्थप्रचारश्व सोमोत्पत्तिस्तथैव च ॥ कीर्तनं सोमवंशस्य ययातिचरितं तथा ॥६॥
कार्तवीर्यस्य चरितं सृष्टवंशानुकीर्तनम्‍ ॥ भृगुशापस्तथा  विष्णोदशधा जन्मने क्षितौ ॥७॥
कीर्त्तनं पुरुवंशस्य वंशो हौताशनः परम्‍ ॥ क्रियायोगस्ततः पश्वात्पुराणपरिकीर्तनम्‍ ॥८॥
व्रतं नक्षत्रपुरुषं मार्तण्डशयनं तथा ॥ कृष्णाष्टमीव्रतं तद्वद्रोहिणीचन्द्रसंज्ञितम्‍ ॥९॥
तडागविधि माहात्म्यं पादपोत्सर्ग एव च ॥ सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च ॥१०॥
तथानन्ततृतीयाया रसकल्याणिनीव्रतम्‍ ॥ तथैवानं दकर्याश्व व्रतं सारस्वतः पुनः ॥११॥
उपरागाभिषेकश्व सप्तमीशयनं तथा ॥ भीमाख्या द्वादशी तद्वदनंगशयनं तथा ॥१२॥
अशून्यशयनं तद्वत्तथैवांगारकब्रतम्‍ ॥ सप्तमीसप्तकं तद्वद्विशोकद्वादशीव्रतम्‍ ॥१३॥
मेरुप्रदानं दशधाअ ग्रहशांतिस्तथैव च ॥ ग्रहस्वरुपकथंने तहा शिवचतुर्दशी ॥१४॥
तथा सर्वफलत्यागः सूर्यवारव्रतं तथा ॥ संक्रांतिस्नपनं तद्वद्विभूतिद्वादशीव्रतम्‍ ॥१५॥
षष्टिव्रतानां माहात्म्यं तथा स्नानविधिकमः ॥ प्रयागस्य तु माहात्म्यं द्वीपलोकानुवर्णनम्‍ ॥१६॥
तथांतरिक्षचारश्व ध्रुवमाहात्म्यमेव च ॥ भवनानि सुरें द्रानां त्रिपुरोद्योतनं तथा ॥१७॥
पितृप्रवरमाहात्म्यं मन्वंतरविनिर्णयः ॥ चतुर्युगस्य संभूतिर्युगधर्मनिरुपणम्‍ ॥१८॥
वज्रांगस्य तु संभूति स्तारकोत्पत्तिरेव च ॥ तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्तनम्‍ ॥१९॥
पार्वतीसंभवस्तद्वत्तथा शिवतपोवनम्‍ ॥ अनंगदेहदाहश्व रतिशोकस्तथैव च ॥२०॥
गौरीतपोवनं तद्वच्छिवेनाथ प्रसादनम्‍ ॥ पार्वतीऋषिसंवादस्तथैवोद्वाहमंगलम्‍ ॥२१॥
कुमारसंभवस्तद्वत्कुमारविजयस्तथा ॥ तारकस्य वधो घोरो नरसिंहोपवर्णनम्‍ ॥२२॥
पद्मोद्धवविसर्गस्तु तथैवांधकघातनम्‍ ॥ वाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च ॥२३॥
प्रवरानुक्रमस्तद्वत्पितृगाथानुकीर्तनम्‍ ॥ तथोभयमुखीदानं दानं कृष्णाजिनस्य च ॥२४॥
ततः सावित्र्यपाख्यानं राजधर्मास्तथैव च ॥ विविधोत्पातकथनं ग्रहणांस्तथैव च ॥२५॥
यात्रानिमित्तकथनं स्वप्नमंगलकीतने ॥ वामनस्य तु माहात्म्यं वाराहस्य ततः परम्‍ ॥२६॥
समुद्रमथनं तद्वत्कालकूटाभिशांतनम्‍ ॥ देवासुराविमर्दश्व वास्तुविधा तथैव च ॥२७॥
प्रतिमालक्षणं तद्वेद्देवतायतनं तथा ॥ प्रासादलक्षणं तद्वन्मंडपान च लक्षणम्‍ ॥२८॥
भविष्यराज्ञामुद्देशो महादानुकीर्तनम्‍ ॥ कल्पानुकीर्तनं तद्वत्पुरानेऽस्मिन्प्रकीर्तितम्‍ ॥२९॥
पवित्रमेतत्कल्याणमायुः कीर्तिविवर्द्धनम्‍ ॥ यः पठेच्छृणुयाद्वापि स याति भवनं हरेः ॥३०॥
लिखित्वैतत्तु यो दद्याद्धेममत्स्यगवान्वितम्‍ ॥ विप्रायाभ्यर्च्य विषुवें स याति परंम पदम्‍ ॥३१॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मत्स्यपुरानानुक्रमणीकथनं नाम सप्तोत्तशततमोऽध्यायः ॥१०७॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP