संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चतुर्विंशत्यधिकशतमोऽध्यायः

श्री नारदीयमहापुराणम् - चतुर्विंशत्यधिकशतमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनातन उवाच॥
अथ नारद वक्ष्यामि श्रृणु पूर्णाव्रतानि ते॥
यानि कृत्वा नरो नारी प्राप्नुयात्सुखसंततिम् ॥१॥

चैत्रपूर्णा तु विप्रेंद्र मन्वादिः समुदाहृता॥
अस्यां सान्नोदकं कुंभं प्रदद्यात्सोमतुष्टये ॥२॥

वैशाख्यामपि पूर्णायां दानं सर्वस्य सर्वदम्॥
यद्यद्द्रव्यं ददेद्विप्रे तत्तदाप्नोति निश्चितम् ॥३॥

धर्मराजव्रतं चात्र कथितं तन्निशामय॥
श्रृतान्नमुदकुंभं च वैशाख्यां वै द्विजोत्तमे ॥४॥

दद्याद्गोदानफलदं धर्मराजस्य तुष्टये॥
अत्र कृष्णाजिनं दद्यात्सखुरं च सश्रृङ्गकम् ॥५॥

तिलैः सहसमाच्छाद्य वस्त्रैर्हेम्ना द्विजातये॥
यस्तु कृष्णाजिनं दद्यात्सत्कृत्य विधिपूर्वकम् ॥६॥

सर्वशास्त्रविदे सप्तद्वीपभूमिप्रदः स वै॥
मोदते विष्णु लोके हि यावच्चन्द्रार्कतारकम् ॥७॥

कुंभान्स्वच्छजलैः पूर्णान्हिरण्येन समन्वितान्॥
यः प्रदद्याद्द्विजाग्र्येभ्यः स न शोचति कर्हिचित् ॥८॥

अथ ज्येष्टस्य पूर्णायां वटसावित्रिकं व्रतम्॥
सोपवासा वटं सिंचेत्सलिलैरमृतोपमैः ॥९॥

सृत्रेण वेष्टयेच्चैव सशताष्टप्रदक्षिणम्॥
ततः संप्रार्थद्दैवीं सावित्रीं सुपतिव्रताम् ॥१०॥

जगत्पूज्ये जगन्मातः सावित्रि पतिदैवते॥
पत्या सहावियोगं मे वटस्थे कुरु ते नमः ॥११॥

इति सप्रार्थ्य या नारी भोजयित्वा परेऽहनि॥
सुवासिनीः स्वयं भुंज्यात्सा स्यात्सौभाग्यभागिनी ॥१२॥

आषाढस्य तु पूर्णायां गोपद्मव्रतमुच्यते॥
चतुर्भुजं महाकायं जांबूनदसमप्रभम् ॥१३॥

शंखचक्रगदापद्मरमागरुडशोभितम्॥
सेवितं मुनिभिर्देवैर्यक्षगंधर्वकिन्नरैः ॥१४॥

एवंविधं हरिं तत्र स्नात्वा पूजां समाचरेत्॥
पौरुषेणैव सूक्तेन गंधाद्यैरुपचारकैः ॥१५॥

आचार्यं वस्त्रभूषाद्यैस्तोषयेत्स्निग्धमानसः॥
भोजयेन्मिष्टपक्वान्नैर्द्विजानन्यांश्च शक्तितः ॥१६॥

एवं कृत्वा व्रतं विप्र प्रसादात्कमलापतेः॥
ऐहिकामुष्मिकान्कामांल्लभते नात्र संशयः ॥१७॥

कोकिलाव्रतमप्यत्र प्रोक्तं तद्विधिरुच्यते॥
पूर्णिमायां समारभ्य व्रतं स्नायाद्ब्रहिर्जले ॥१८॥

पूर्णांतं श्रावणे मासि गौरीरूपां च कोकिलाम्॥
स्वर्णपक्षां रत्ननेत्रां प्रवालमुखपंकजाम् ॥१९॥

कस्तूरीवर्णसंयुक्तामुत्पन्नां नंदने वने॥
चूतचंपकवृक्षस्थां कलगीतनिनादिनीम् ॥२०॥

चिंतयेत्पार्वतीं देवीं कोकिलारूपधारिणीम्॥
गंधाद्यैः प्रत्यहं प्रार्च्चेल्लिखितां वर्णकैः पटे ॥२१॥

ततो व्रतांते हैमीं वा तिलपिष्टमयीं द्विज॥
दद्याद्विप्राय मंत्रेण भक्त्या सस्वर्णदक्षिणाम् ॥२२॥

देवीं चैत्ररथोत्पन्ने कोकिले हरवल्लभे॥
संपूज्य दत्ता विप्राय सर्वसौख्यकरी भव ॥२३॥

द्विजं सुवासिनीस्त्रिंशदेकां वा भोजयेत्ततः॥
वस्त्रादिदक्षिणां शक्त्या दत्वा नत्वा विसर्जयेत् ॥२४॥

एवं या कुरुते नारी कोकिलाव्रतमुत्तम्॥
सा लभेत्सुखसौभाग्यं सप्तजन्मसुनारद ॥२५॥

अथ श्रावणपूर्णायां वेदोपाकरणं स्मृतम्॥
यजुर्भिस्तत्र कर्त्तव्यं देवर्षिपितृतर्पणम् ॥२६॥

ऋषीणां पूजनं चापि स्वशाखोक्तविधानतः॥
बहवृचैस्तु चतुर्द्वश्यां सामगैर्भाद्रगे करे ॥२७॥

रक्षाविधानं च तथा कर्तव्यं विधिपूर्वकम् ॥२८॥

सिद्धार्थाक्षतराजिकाश्च विधृता रक्तांशुकांशे सिताः कौसुंभेन च तंतुनाथ सलिलैः प्रक्षाल्य कांस्ये धृताः॥
गंधाद्यैरभिपूज्य देवनिकरान्संप्रार्थ्य विष्ण्वादिकान्बध्नीयाद्द्विजहस्ततः प्रमुदितो नत्वा प्रकोष्ठे स्वके ॥२९॥

ततस्तु दक्षिणां दत्वा द्विजेभ्योऽध्यायमाचरेत्॥
विसृज्य च ऋषीन्सप्त धारयेद्ब्रह्मसूत्रकम् ॥३०॥

रंजितं कुंकुमाद्यैश्च नवीनं निर्मितं स्वयम्॥
शक्त्या संभोज्य विप्राग्र्यानेकभुक्तं समाचरेत् ॥३१॥

कृते ह्यस्मिन्व्रते विप्र वार्षिकं कर्मं वैदिकम्॥
विस्मृतं विधिहीनं च न कृतं सुकृतं भवेत् ॥३२॥

प्रौष्ठपद्यां पौर्णमास्यामुमामाहेश्वरव्रतम्॥
एकभुक्तश्च यस्तां तु शिवं संपूज्य यत्नतः ॥३३॥

कृतांजलिः प्रार्थयेच्छ्वः करिष्ये च व्रतं प्रभो॥
एवं विज्ञाप्य देवं तु गृह्णीयाद्व्रतमुत्तमम् ॥३४॥

रात्रौ देवांतिके सुप्त्वा उत्थायापरयामके॥
कृतमैत्रादिनित्यस्तु भस्मरुद्राक्षधृक् ततः ॥३५॥

पूजयेच्छंकरं सम्यगुपचारैः पृथग्विधैः॥
बिल्वपत्रैः सुगंधाढ्येंर्नैवेद्यैर्धूपदीपकैः ॥३६॥

ततश्चोपवसेद्विद्वानाप्रदोषं विंधूदये॥
पुनः संपूज्य तत्रैव रात्रौ जागरणं चरेत् ॥३७॥

एवं पंचदशाब्दांतं कृत्वा व्रतमतंद्रितः॥
वर्षे वर्षे तदुत्सर्गे विदध्याद्विधिपूर्वकम् ॥३८॥

उमायाश्च महेशस्य सौवर्णी प्रतिमाद्वयम्॥
हैमा रौप्या मृन्मयाश्च घटाः पंचदशोत्तमाः ॥३९॥

तत्रैकस्मिन्घटे स्थाप्यं सवस्त्रं प्रतिमाद्वयम्॥
पंचामृतेन संस्राप्य जलैः शुद्धैस्ततोऽर्चयेत् ॥४०॥

उपचारैः षोडशभिस्ततः पंचदश द्विजान्॥
भोजयेच्चैव मिष्टान्नैर्दद्यात्तेभ्यश्च दक्षिणाम् ॥४१॥

कुंभमेकैकमीशस्य मूर्त्याढ्यं गुरवेऽर्पयेत्॥
एवं कृत्वा व्रतं चैव उमामाहेश्वराभिधम् ॥४२॥

जायते भुवि विख्यातो निधानं सर्वसंपदाम्॥
अथास्मिन्नेव दिवसे शक्रव्रतमपि स्मृतम् ॥४३॥

प्रातः स्नात्वा विधानेन संपूज्य सुरनायकम्॥
गंधाद्यैंरुपचारैस्तु नैवेद्यानां च राशिभिः ॥४४॥

ततो निमंत्रितान्विप्रान्संभोज्य विधिवद्द्विज॥
समागतांस्तथैवान्यान्दीनानाथांश्च भोजयेत् ॥४५॥

एतच्छक्रव्रतं विप्र कर्तव्यं प्रतिवार्षिकम्॥
राज्ञा वा धनिनान्येन धान्यनिष्पत्तिमिच्छता ॥४६॥

आश्विने मासि पूर्णायां व्रतं कोजागराभिधम्॥
तेन स्नात्वा विधानेन सोपवासो जितेंद्रियः ॥४७॥

लक्ष्मीमभ्यर्च्य सौवर्णीं घटे संस्थाप्य ताम्रजे॥
मृन्मये वा सवस्त्रांतामुपचारैः पृथग्विधम् ॥४८॥

ततः सायंतने कालेऽभ्युदिते तारकाधिपे॥
हैमान्रौप्यान्मृन्मयान्वा घृतपूर्णान्प्रदीपयेत् ॥४९॥

लक्षं तदर्धमयुतं सहस्रं शतमेव वा॥
घृतशर्करसंमिश्रं विपाच्य बहु पायसम् ॥५०॥

बहुपात्रेषु संस्थाप्य कौमुद्यां शीतदीधितेः॥
याममात्रे गते रात्र्या लक्ष्म्यै तद्विनिवेदयेत् ॥५१॥

ततः संभोजयेत्तेन विप्रान्भक्त्या ततश्च तैः॥
सहैव जागरं कुर्य्यान्नृत्यगीतसुमंगलैः ॥५२॥

ततोऽरुणोदये स्नात्वा तां मूर्तिं गुरवेऽर्पयेत्॥
अस्यां रात्रौ महालक्ष्मीर्वराभयकरांबुजा ॥५३॥

निशीथे चरते लोके को जागर्तिं धरातले॥
तस्मै वित्तं प्रयच्छामि जाग्रते पूजकाय मे ॥५४॥

वर्षे वर्षे कृतं चैतद्व्रतं लक्ष्मीप्रतोषणम्॥
समृद्धिमैहिकीं दद्याद्द्वेहान्ते पारलौकिकीम् ॥५५॥

कार्तिक्यां पूर्णिमायां तु कुर्यात्कार्तिकदर्शनम्॥
विप्रत्वलब्धये भूयः सर्वशत्रुजयाय च ॥५६॥

अत्रैव दीपदानेन विधेयस्त्रिपुरोत्सवः॥
निशामुखे द्विजश्रेष्ठ सर्वजीवसुखावहः ॥५७॥

कीटाः पतंगा मशकाश्च वृक्षा जले स्थले ये विचरंति जीवाः॥
दृष्ट्वा प्रदीपान्नहि तेऽपि जन्मिनः पुनश्च मुक्तिं हि लभंत एव च ॥५८॥

अत्र चन्द्रोदये विप्र संपूज्याः कृत्तिकाश्च षट् ॥५९॥
कार्तिकेयस्तथा खङ्गी वरुणश्च हुताशनः॥
गन्धपुष्पैस्तथा धूपदीपैर्नैवेद्येविस्तरैः ॥६०॥

परमान्नैः फलैः शाकैर्वह्निब्राह्मणतर्पणैः॥
एवं देवान्समभ्यर्च्य दीपो देयो गृहाद्बहिः ॥६१॥

दीपोपांते तथा गर्तश्चतुरस्रो मनोहरः॥
चतुर्द्दंशांगुलः कार्यः सेच्यश्चदनवारिणा ॥६२॥

गवां क्षीरेण संपूर्य हैमं तत्र विनिक्षिपेत्॥
मुक्तानेत्रसमायुक्तं मत्स्यं सर्वांगशोभनम् ॥६३॥

महामत्स्याय च नम इति मंत्रं समुच्चरन्॥
गन्धाद्यैस्तत्र संपूज्य द्विजाय प्रतिपादयेत् ॥६४॥

क्षीरसागरदानं ते मयोक्तं द्विजसत्तम॥
दानस्यास्य प्रभावेण मोदते हरिसन्निधौ ॥६५॥

अत्र कृत्त्वा वृषोत्सर्गं व्रतं नक्तं च नारद॥
रुद्रलोकमवाप्नोति नात्र कार्या विचारणा ॥६६॥

मार्गशीर्ष्या पूर्णिमायां स्वर्णाढ्यं लवणाढकम्॥
देवं विप्राय शांताय सर्वकामसमृद्धये ॥६७॥

इदं जगत्पुरा लक्ष्म्या त्यक्तमासीत्ततो हरिः॥
पुरंदरश्च सोमश्च तथा तिष्यो बृहस्पतिः ॥६८॥

पंचैते पुष्ययुक्तायां पौर्णमास्यां जगद्बलात्॥
अलंकृतं पुनश्चकुः सौभाग्योत्सवकेलिभिः ॥६९॥

तस्मान्नरः पुष्ययोगे सर्वसौभाग्यवृद्धये॥
गौरसर्षपकल्केन समालभ्य स्वकां तनुम् ॥७०॥

स्नायात्सर्वौषधिजलैर्धारयेच्च नवांशुके॥
दृष्ट्वा च मंगलं द्रव्यं स्पृष्ट्वा नत्वा ततोऽर्चयेत् ॥७१॥

हरिशक्रेंदुपुष्येज्यान्गंधाद्यरुपचारकैः॥
विधाय होमं विप्रांश्च तर्पयेत्पायसाशनैः ॥७२॥

एतत्कृत्वा व्रतं विप्र रमाप्रीतिविवर्द्धनम्॥
अलक्ष्मीनाशनं चैव मोदतेह परत्र च ॥७३॥

पौर्णमास्यां ततो माध्यां तिलकार्पासकंबलम्॥
रत्नानि कंचुकोष्णीषपादत्राणानि वा धनम् ॥७४॥

दत्वा प्रमोदते स्वर्गे दानं वित्तानुसारतः॥
यस्त्वत्र शंकरं देवं पूजयेद्विधिपूर्वकम् ॥७५॥

सोऽश्वमेधफलं प्राप्यविष्णुलोके महीयते॥
फाल्गुने पूर्णिमायां तु होलिकापूजनं मतम् ॥७६॥

संचयं सर्वकाष्ठानामुपलानां च कारयेत्॥
तत्राग्निं विधिवद्ध्रुत्वा रक्षोघ्नैर्मंत्रविस्तरैः ॥७७॥

"असृक्पाभयसंत्रस्तैः कृता त्वं होलि बालिशैः॥
अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव"॥ १२४-७८॥

इति मंत्रेण सन्दीप्य काष्ठादिक्षेपणैस्ततः॥
परिक्रम्योत्सवः कार्य्यो गीतवादित्रनिःस्वनैः ॥७९॥

होलिका राक्षसी चेयं प्रह्लादभयदायिनी॥
ततस्तां प्रदहंत्येवं काष्ठाद्यैर्गीतमंगलैः ॥८०॥

संवत्सरस्य दाहोऽयं कामदाहो मतांतरे॥
इति जानीहि विप्रेंद्र लोके स्थितिरनेकधा ॥८१॥

पक्षांते द्वे पृथग्वैवे ततोऽमाव्रतमुच्यते॥
पृथक्छृणुष्व मे विप्र पितॄणामतिवल्लभम् ॥८२॥

चैत्रवैशाखयोस्तत्र दर्शे पितृसमर्चनम्॥
पार्वणेन विधानेन श्राद्धं वित्तानुसारतः ॥८३॥

द्विजानां भोजनं दानं गवादीनां विशेषतः॥
सर्वमासेष्वमायां वै बहुपुण्यप्रदं यतः ॥८४॥

ज्येष्ठामायां व्रतं प्रोक्तं सावित्र्याः कस्य नारद॥
विधानं ज्येष्ठपूर्णावदिहापि परिकीर्तितम् ॥८५॥

शुचौ नभसि भाद्रे च मासे पूर्णांतिके द्विज॥
पितृश्राद्धं दानहोमसुरार्चानंत्यश्नुते ॥८६॥

भाद्रदर्शेऽपराह्णे तु तिलक्षेत्रसमुद्भवान्॥
विरिंचिमनुनामंत्र्य हुंफट् छिन्नान्कुशान् द्विज ॥८७॥

सर्वदा सर्वकार्येषु योजयेदेकदाऽपरान्॥
इषामायां विशेषण पितॄणां श्राद्धतर्पणम् ॥८८॥

विधेयं जाह्नवीतोये मुक्तिदं च गयास्थले॥
ऊर्ज्जामायां दीपदानं देवा गारगृहेषु च ॥८९॥

नद्यारामतडागेषु चैत्यगोष्ठापणेषु च॥
समर्चनं तथा लक्ष्म्याः स्वर्णरौप्ये कृताकृते ॥९०॥

द्यूतं च वर्षफलदं जये चापिपराजये॥
गवां पूजात्र विहिता शृंगाद्यंगानुरंजनैः ॥९१॥

यवसान्नादिदानैश्च नमस्कारप्रदक्षिणैः॥
मार्गेऽपि पितृपूजा स्याच्छ्रद्धैर्ब्राह्मणभोजनैः ॥९२॥

ब्रह्मचर्यादि नियमैर्जपहोमार्चनादिभिः॥
पौषे माघे च विप्रेन्द्र पितृश्राद्धं फलाधिकम् ॥९३॥

अमायां कर्णपातार्कयुक्तायां तु गयाधिकम्॥
फाल्गुने केवलं श्राद्धं द्विजानां भोजनं तथा ॥९४॥

दानादि सर्वफलदं दर्शे सोमेऽधिकं फलम्॥
इत्थं संक्षेपतः प्रोक्तं तिथिकृत्यं मुने तव ॥९५॥

सर्वत्रापि विशेषोऽस्ति स पुराणांतरे स्थितः ॥९६॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितपौर्णमास्य मावास्याव्रतकथनं नाम चतुर्विंशत्यधिकशतमोऽध्यायः ॥१२४॥

N/A

References : N/A
Last Updated : May 08, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP