संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चतुरशीतितमोऽध्यायः

श्री नारदीयमहापुराणम् - चतुरशीतितमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सनत्कुमर उवाच ॥
कलिकल्पांतरे ब्रह्मन् ब्रह्मणोऽव्यक्तजन्मनः ॥ लोकपद्मे तपस्थस्य सृष्ट्यर्थं संबभूवतुः ॥१॥
विष्णुकर्णमलोद्धूतावसुरौ मधुकैटभौ ॥ तौ जातमात्रौ पयसि लोकप्रललक्षणे ॥२॥
जानुमात्रे स्थितौ दृष्ट्रा ब्रह्माणं कमलस्थितम् ॥ प्रवृत्तावत्तुमालक्ष्य तुष्टाव जगदं बिकाम् ॥३॥
ततो देवी जगत्कर्त्री शैवी शक्तिरनुत्तमा ॥ नारायणक्षिसं स्थाना निद्रा प्रीता बहूव ह ॥४॥
तस्या मंत्रादिकं सर्वं कथयिष्यामि तच्छृणु ॥ सारुणाम क्रोधनी शांलिश्चंद्रालंकृतशेखरा ॥५॥
एकाक्षरीबीज मन्त्रऋषीः शक्तिरुदाह्रता ॥ गायत्री च भवेच्छन्दो देवता भुवनेश्वरी ॥६॥
पड्‍दीर्घयुक्तबीजेन कुर्यादंगानि षटू क्रमात् ॥ संहारसृष्टिमार्गेण मातृका न्यस्तविग्रहः ॥७॥
मन्त्रन्यासं ततः कुर्याद्देवताभावसिद्धये ॥ ह्रल्लेखां मूर्ध्नि वदने गगनां ह्रदयांबुजे ॥८॥
रक्तां करालिकां गुह्ये महोच्छुष्मां पदद्वये ॥ ऊर्द्धप्राग्दक्षिणोदीच्यपश्र्च्मेशूत्तरेऽपि च ॥९॥
सद्यादिह्रस्वबीजाद्यान्वस्तव्या भूतसप्रभाः ॥ अंगानि विन्यसेत्पश्वाज्जातियुक्तानि षट्‌ क्रमात् ॥१०॥
ब्रह्माणं विन्यसेद्धाले गायत्र्या सह संयुतम् ॥ सावित्र्या सहितं विष्णूं कपोले दक्षिणे न्यसेत् ॥११॥
वागीश्वर्या समायुक्तं वामगंडे महेश्वरम् ॥ श्रिया धनपतिं न्यस्य वामकर्णाग्रकेः पुनः ॥१२॥
रत्या स्मरं मुखे न्यस्य पुण्यागणपतिं न्यसेत् ॥ सव्यकर्णोपरि निधाकर्णगंडांतरा लयोः ॥१३॥
न्यस्तव्यं वदने मूलं भूपश्वैत्रांस्ततो न्यसेत् ॥ कण्ठमूले स्तनंद्वंद्वे वामांसे ह्रदयांबुजे ॥१४॥
सव्यांसे पार्श्वयुगले नाभिदेशे च देशिकः ॥ भालांश्व पार्श्वजठरे पार्श्वांसापरके त्दृदि ॥१५॥
ब्रह्माण्यद्यास्तनौ न्यस्य विधिना प्रोक्तलक्षणाः ॥ मूलेन व्यापकं देह न्यस्य देवीं विचिम्तयेत् ॥१६॥  
उद्यद्दिवाकरनिभां तुंगोरोजां त्रिलोचनाम् ॥ स्मेरास्यामिंदुमुकुटां वरपाशांकुशाभयाम् ॥१७॥
रदलक्षं जपेन्मंत्रं त्रिमध्वक्तैर्हुनेत्ततः ॥ अष्टद्रव्यैर्दशांशेन ब्रह्मवृक्षसमिद्वरैः ॥१८॥
द्राक्षाखर्जूरवातादशर्करानालिकेरकम् ॥ तन्दुलाज्यतिलं विप्र द्रव्याष्टकमुदात्दृतम् ॥१९॥  
दद्यादर्घ्यं दिनेशाय तत्र संचिन्त्य पार्वतीम्‍ ॥ पद्ममष्टदल बाह्ये षोडशभिर्द्दलैः ॥२०॥
विलिखेत्कणिंकामध्ये षक्टोणमतिसुन्दरम्‍ ॥ ततः संपूजयोत्पीठं नवशक्तिसमन्वितम्‍ ॥२१॥
जयाख्या विजया पश्वादजिताह्रापराजिता ॥ नित्या विलासिनी दोग्ध्री त्यघोरा मंगला नव ॥२२॥
बीजाढयमासनं दत्त्वा तनैव कल्पयेत्‍ ॥ तस्यां संपूजयेद्देवीमावाह्यावरणैः क्रमात्‍ ॥२३॥
मध्यप्राग्याम्यसीम्येषु पूजयेदंगदेवताः ॥ षक्टोणेषु यजेन्मंत्री पश्वान्मिथुनदेवताः ॥२४॥
इन्द्रकोण लसद्दंडकुंडिकाक्षगुणाभयाम्‍ ॥ गायत्रीं पूजयेन्मंत्री ब्रह्माण मपि तादृशम्‍ ॥२५॥
रक्षःकोणे शंखचक्रगदापंकजधारिणीम्‍ ॥ सावित्रीं पीतवसनां यजेद्विणुं च तादृशम्‍ ॥२६॥
वायुकोणे परश्वक्षमाला भयवरान्विताम्‍ ॥ यजेत्सरस्वतीमच्छा रुद्रं तादृशलक्षणम्‍ ॥२७॥
वह्रिकोणे यजेद्रत्नकुंभं मणिकरंडकम्‍ ॥ कराभ्यां बिभ्रतीं पीतां तुंडिल धनदा यकम्‍ ॥२८॥
आलिंग्य जपारक्तं पूजयेद्रक्तभूषणम्‍ ॥३०॥
सव्येन पतिमाश्लिष्य वामेनोत्पलधारिणीम्‍ ॥ पाणिना रमणांकस्थां रतिं सम्यक्सम र्चयेत्‍ ॥३१॥
ऐशान्ये पूजयेत्सम्यक्‍ विघ्नराजं प्रियान्वितम्‍ ॥ कांतं वरांगासृक्कलांगुलिम्‍ ॥३२॥
माध्वीपूर्णकपालाढ्यं विघ्न राजं दिगंबरम्‍ ॥ पुष्करे विगलद्रत्नस्फुरच्चषकधारिणम्‍ ॥३३॥
सिंदूरसदृशाकारामुद्दाममदविभ्रमाम्‍ ॥ धृतक्तोत्पलामन्यपाणिना तु ध्वजस्पृशाम्‍ ॥३४॥
आश्लिष्टकांतामरुणीं पुष्टिमर्चेद्दिगंबराम्‍ ॥ कर्णिकायां निधी पूज्यौ षक्टोणस्याथ पार्श्वयोः ॥३५॥
अंगानि केसरेष्वेताः पश्वात्परेषु पूजयेत्‍ ॥ अनंगकुसुमा पश्वाद्दितीयानंगमेखला ॥३६॥
अनंगगमना तद्वदनंगमदनातुरा ॥ भुवनपाला गगनवेगा षष्ठी चैव ततः परम्‍ ॥३७॥
शशिलेखा गगनलेखा चेत्यष्टौ यत्र शक्तयः ॥ खङुखेटकधारिण्यः श्यामाः पूज्याश्व मातरः ॥३८॥
पद्माद्वहिः समभ्यर्च्याः शक्तयः परिचारिकाः ॥ प्रथमानंगद्वयास्यानंगमदना ततः ॥३९॥
मदनातुरा भवनवेगा ततो भुवनपालिका ॥ स्यात्सर्वशिशिरानंगवेदना नंगमेखला ॥४०॥
चषकं तालवृंतं च तांबूल छत्रमुज्ज्वलम्‍ ॥ चामरे चांशुकं पुष्पं बिभ्राणाः करपंकजैः ॥४१॥
सर्वाभरणसंदीप्तान्‍ लोकपाला न्बहिर्यजेत्‍ ॥ वज्रादीन्यपि तद्वाह्ये देवीमित्थ प्रपूजयेत्‍ ॥४२॥
मंत्री त्रिमधुरोपेर्तर्हुत्वाश्वत्थसमिद्वरैः ॥ ब्राह्यणान्वशयेच्छीघ्नं पार्थिवान्पद्महो मतः ॥४३॥
पलाशपुष्पैस्तत्पत्नीं मंत्रिणः कुमुदैरपि ॥ पंचविंशतिधा जप्तैर्जलैः स्त्रान दिने दिने ॥४४॥
आत्मानमभिषिंचेद्यः सर्वसौभाग्य वान्भवेत्‍ ॥ पंचविंशतिधा जप्त जलं प्रातः पिबेन्नरः ॥४५॥
अवाप्य महतीं प्रज्ञां कवीनामग्रणीर्भवेत्‍ ॥ कर्पूरागरुसंयुक्तकुंकुमं साधु साधितम्‍ ॥४६॥
गृहीत्वा तिलकं कुर्याद्राजश्यनुत्तमम्‍ ॥ शालिपिष्टमयीं कृत्वा पुत्तलीं मधुरान्विताम्‍ ॥४७॥
जप्तां प्रतिष्ठिप्राणां भक्षयेद्रविवासरे ॥ वशं नयति राजानं नारीं वा नरमेव च ॥४८॥
कण्ठमात्रोदके स्थित्वा वीक्ष्य तोयोद्धंत रविम्‍ ॥ त्रिसहस्त्रं जपेन्मंत्रं कन्यामिष्टां लभेत्ततः ॥४९॥
अन्नं तन्मंत्रिंत मंत्रीं भुंजीत श्रीप्रसिद्धये ॥ लिखितां भस्मना मायां ससाध्यां फलकादिषु ॥५०॥
तत्कालं दर्शयेद्यंत्रं सुखं सूयेत गर्भिणी ॥ भुवनेशीयमाख्याता सहस्त्रजसंभवा ॥५१॥
भुक्तिमुक्तिप्रदा नृणां स्मर्तृणां द्विजसत्तम ॥ ततः कल्पांतरे विप्र कदाचिन्महिषासुरः ॥५२॥
बभूव लोकपालांस्तु जित्वा भुंक्ते जगत्रयम्‍ ॥ ततस्तत्पीडिता देवा वैकुंठ शरणं ययुः ॥५३॥
ततो देवी महालक्ष्मीश्वकाद्यंगोत्थतेजसा ॥ श्रीर्बभूव मुनिश्रेष्ठ मूर्ता व्याप्तजगत्रया ॥५४॥
स्वयं सा महिषादींस्तु निहत्य जगदीश्वरी ॥ अरविंदवेनं प्राप्ता भजतामिष्टदायिंनी ॥५५॥
तस्याः समर्चनं वक्ष्ये संक्षपेण श्रृणु द्विज ॥ मृत्युक्रोधेन गुरुणा बिंदुभूषितमस्तका ॥५६॥
बीजमन्त्रः श्रियः प्रोक्तो भजतामिष्टदायकः ॥ ऋषिर्भृगुर्निवृच्छंदो देवता श्रीःसमीरिता ॥५७॥
षड्‍दीर्घयुक्तबीजेनं कुर्यादंगानि षटू क्रमात्‍ ॥ ततो ध्यायेज्जगद्वेद्यां श्रियं संपत्तिदायिनीम्‍ ॥५८॥
कांचनाभां गजैः श्वेतैश्वतुर्भिः स्वकरोद्धृतैः ॥ हिरण्ययामृतघटैः सिच्यमानां सरोजगाम्‍ ॥५९॥
वराभयाब्जस्त्रग्घस्तां क्षौमवस्त्राम किरीटिनीम्‍ ॥ सिद्धलक्षं जपे न्मम्त्रं तत्सहस्त्रं हुनेत्तथा ॥६०॥
सुगंधकुसुमैरिष्ट्रा कमलैर्मधुरप्लुतैः ॥ महालक्ष्म्युदिते पीठे मूर्ति मूलेन कल्पयेत्‍ ॥६१॥
यजेत्पूर्ववदं गानि दिग्दलेष्वर्चत्ततः ॥ वासुदेवं संकर्षणं प्रद्युम्नमनिरुद्धकम्‍ ॥६२॥
हिमपीततमालेंद्रनीलाभान्पीतवाससः ॥ शंखचक्रगदापद्मधारिण स्तांश्वतुर्भुजान्‍ ॥६३॥
विदिगंतेषु पत्रेषु दमकादीन्यजेद्धजान्‍ ॥ दमकं पुण्डरीकं च गुग्गुलं च कुरंटकम्‍ ॥६४॥
यजेच्छंखनिधिं देव्या दक्षिणे प्रमदान्वितम्‍ ॥ मुक्तामाणिक्यसंकाशौ किंचित्स्मितमुखांबुजौ ॥६५॥
अन्योन्यालिंगनपरौ  शंखपंकजधारिणौ ॥ विगलद्रत्नवर्षाभ्या शंखभ्यां मूर्ध्निं लांछितौ ॥६६॥
तुंदिलं कंबुकनिधिं वसुधारां घनस्तनीम्‍ ॥ वामतः पंकजनिधिं प्रियया सहितं यजेत्‍ ॥६७॥
सिंदूराभौ भुजश्लिष्टौ रक्तपद्मोत्पलान्वितौ ॥ निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूर्ध्निं लांछितो ॥६८॥
तुदिलं पंकजनिधिं तत्त्वां वसुमतीमपि ॥ दलाग्रेषु यजेदेता बलाक्याद्याः समंततः ॥६९॥
बलाकी विमला चैव कमला वनमालिका ॥ विभीषिका मालिका च शांकरी वसुमालिका ॥७०॥
पंकजद्वयधारिण्यो मुक्ताहारसमसमप्रभाः ॥ लोकेशान्पूजयेदंते वज्रास्त्राणि तद्वहिः ॥७१॥
इत्थं यो भजते विधिना साधकोत्तमः ॥ धनधान्यसमृद्धः स्याच्छ्रि यमाप्नोत्यनिंदिताम्‍ ॥७२॥
वक्षःप्रमाणसलिले स्थित्वा मन्त्रमिमं जपेत्‍ ॥ त्रिलक्षमर्कगं ध्यायन्स भवेत्कमलालयः ॥७३॥
विष्णुगेहस्थ बिल्वस्य मूले लक्षत्रयं जपेत्‍ ॥ साधको यः स लभते वाछितं धनसंचयम्‍ ॥७४॥
अशोकवह्रावाज्याक्तैस्तंडुलैर्वशयेज्जगत्‍ ॥ होमेन खादिरे वह्रौं तंडुलैर्मधुरोक्षितैः ॥७५॥
राजा वश्यो भवेच्छाघ्रं महालक्ष्मीश्व वर्द्धते ॥ बिल्वच्छायामधिवसन्बिमिश्रविष्यभुक्‍ ॥७६॥
संवत्सरत्रय हुत्वा तत्फलैरथवांबुजैः ॥ साधकेद्रो महालक्ष्मी चक्षुषा पश्यति ध्रुवम्‍ ॥७७॥
अथ कल्पांतरे ब्रह्मन्देवराज्यविलुंपकौ ॥ जातौ  शुभनिशुभौ द्वावसुरौ लोककंटकौ ॥७८॥
ततो भ्रष्टादिकारैस्तु शक्राद्यैः संस्तुता मुने ॥ महासरस्वती देवी तदा चावततार ह ॥७९॥
हिमालये महापुण्य शैलोद्देशेऽतिशोभने ॥ ततः शुम्भादिकान्हत्वा दैवतैः परिपूजिता ॥८०॥
वरं दत्त्वाविशद्देवी मानसं नाम वै सरः ॥ तस्या मंत्रं प्रवक्ष्यामि श्रृणुष्वावहिता मुने ॥८१॥
ज्ञानामृता शशधरा क्रांतभालोपशोभिता ॥ वाग्बीजं तेन चांगानि कल्पयेत्साधकोत्तमः ॥८२॥
ऋषिः सदाशिवश्वास्य छंदोऽनुष्टुबुत्दृतम्‍ ॥ देवता वाक्यसमाख्याता भजतामिष्टदायिनी ॥८३॥
श्वेताबंरां विसश्वेता वीणापुस्तकधारिणीम्‍ ॥ दिव्यैराभरणैर्युक्ता ध्यायद्देवीं  निरंतराम्‍ ॥८४॥
महासरस्वतपीठे मूर्तिं मूलेन कल्पयेत्‍ ॥ देवीं संपूजयेत्तस्यामंगाद्यावरणैः सह ॥८५॥
आदावंगावृतिः पश्वादंबिकाद्यास्स मीरिताः ॥ द्वितीया मातृभिः प्रोक्ता तृतीयाद्यष्टशक्तिभिः ॥८६॥
चतुर्थी पंचमी प्रोक्ता द्वात्रिंशच्छक्तिभिः पुनः ॥ चातुःषष्टया स्मृता षष्ठी शक्ति भिर्लोकनायकैः ॥८७॥
सप्तमी पुनरेतेषामस्त्रैः स्यादष्टमावृतिः ॥ एवं पूज्यां जगद्धात्री श्रीमती वाग्भवाभिधा ॥८८॥
स्थानेषु पूर्वमुक्तेषु यजे दंगानि साधकः ॥ अम्बिका वाग्भवा दुर्गा श्रीशक्तिश्वोक्तलक्षणा ॥८९॥
ब्रह्माद्याश्व ततः पूज्याः कराली विकराल्युमा ॥ सरस्वती श्रीर्दुर्गा च लक्ष्मीश्वैव धृतिः स्मृतिः ॥९०॥
श्रद्धा मेधा रतिः कांतिरार्या षोडश शुक्तयः ॥ खङुखेटकधारिण्यः श्यामाः पूज्याः स्वलंकृताः ॥९१॥
विषघ्नी पुष्टयः प्रज्ञा सिनीवाली कुहूः पुनः ॥ रुद्रवीर्या प्रभा नंदा पोषणा वृद्धिदा शुभा ॥९२॥
कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ विकृततिर्दंडिमुंडिन्यौ सेंदुखंडा शिखण्डिनी ॥९३॥
निशुम्भशुम्भमथनी चण्डमुण्डविनाशिनी ॥ इन्द्राणी चैव रुद्राणी चक्रहस्ताः पिशाचास्याः ॥९४॥
नारी नारायणी चैव त्रिशूलिन्यापि पालिनी ॥ अम्बिका ह्रदिनी चैव द्वात्रिंशच्चक्तयः सिताः ॥९५॥
चक्रहस्ताः पिशाचास्याः संपूज्याश्वारुभूषणाः ॥ पिंगलाक्षी विशालाक्षी समृद्धिर्बुद्धिरेव च ॥९६॥
श्रद्धा स्वाहा भिक्षा माया संज्ञा वसुं धरा ॥ त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी ॥९७॥
सरुपा बहुरुपा च स्कंदमाता श्रुतपिया ॥ विमला कमला पश्वादरुणी पुनरारुणी ॥९८॥
प्रकृतिर्विकृतिः सृष्टिः स्थितिः संह्रतिरेव च ॥ सन्ध्यां माता सती हंसी मर्दिका वज्रिका परा ॥९९॥
देवमाता भगवती देवकी कमलासन ॥ त्रिमुखी सप्तवदना सुरासुरविमर्द्दिनी ॥१००॥
लंबोष्ठी चोर्द्धकेशी च बहुशिश्रा वृकोदरी ॥ रथरेखाह्रया पश्वाच्छशिरेखा तथापरा ॥१०१॥
अनंगानंगवदना तथैवानंगमेखला ॥ अनंग कुसुमा विश्वरुपा सुरभयंकरी ॥१०२॥
अक्षोभ्या सप्तवाहिन्या वज्ररुपा शुचिव्रता ॥ वरदाख्याथ वागीशी चतुःषुष्टिस्समीरिताः ॥१०४॥
चापबाण धराः सर्वा ज्वालाजिह्रा  महाप्रभाः ॥ दंष्ट्रिण्यश्वोकेश्यस्ता युद्धोपक्रांतमानसाः ॥१०५॥
सर्वाभरणसंदीप्ता पूजनीयाः प्रयत्नतः ॥ लोकेशाः पूर्वत्पूज्यास्तद्वद्वज्रादिकान्यपि ॥१०६॥
जपेत्षोडशलक्षं च तद्दशांशं हुनेत्सुधीः ॥ आज्येन खादिरे वह्रौ ततः सिद्धो भवेन्मनुः ॥१०७॥
कमलैरयुतं हुत्वा राजानं वशमानयेत्‍ ॥ उत्पलैर्जुह्रतो नूनं महालक्ष्मीः प्रजायते ॥१०८॥
पलाशकुसुमैर्हुत्वा वत्सरेण कविर्भवेत्‍ ॥ राजीलवण होमेन वनितां वशयानयेत्‍ ॥१०९॥
भूमौ भोगांस्तु भुक्तांते विष्णुलोकमवाप्नुयात्‍ ॥ वाणीबीजपाशक्तो नात्र कार्या विचारणा ॥११०॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवीमंत्रनिरुपणं नाम चतुरशीतितमोऽध्यायः ॥८४॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP