संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चतुरधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - चतुरधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


ब्रह्योवाच ॥
श्रृणु वत्स प्रवक्ष्यामि पुराणं स्कन्दसंज्ञकम्‍ ॥ यस्मिन्प्रतिपदं साक्षान्महादेवो व्यवस्थितः ॥१॥
पुराणे शतकोटो तु यच्छैवं वर्णितं मया ॥ लक्षं तस्यार्थ जातस्य सारो व्यासेन कीर्तितः ॥२॥
स्कन्दाह्रयस्तत्र खण्डाः सप्तैव परिकल्पिताः ॥ एकाशीतिसहस्त्रं तु स्कान्दं सर्वाघकृतंनम्‍ ॥३॥
यः श्रृणोति पठेद्वपि स तु साक्षाच्छिवः स्थितः ॥ यत्र माहेश्वरा धर्माः षण्मुखेन प्रकाशिताः ॥४॥
कल्पे तत्पुरुषे वृत्ताः सर्वसिद्धिविधायकाः ॥ तस्य माहेश्वरश्वाथ खंडः पापप्रणाशनः ॥५॥
किंचिन्न्यूनार्कसाहस्त्रो बहुपुण्यो बृहत्कथः ॥ सुचरित्रशतैर्युक्तः स्कन्दमाहात्म्यसूचकः ॥६॥
यत्र केदारमाहात्म्ये पुराणोपक्रमः पुरा ॥ दक्षयज्ञकथा पश्वाच्छिवलिंगार्चने फलम्‍ ॥७॥
समुद्रमथनाख्यानं देवेंद्रचरितं ततः । पार्वत्याः समुपाख्यानं विवाहस्तदनंतरम्‍ ॥८॥
कुमारोत्पत्तिकथंन ततस्तारकसंगरः ॥ ततः पाशुपताख्यानं चंडाख्यानसमन्वितम्‍ ॥९॥
द्यूतप्रवर्तनाख्यानं नारदेन समागमः ॥ ततः कुमारमाहात्म्ये पंचतीर्थकथानकम्‍ ॥१०॥
धर्मवर्मंनृपाख्यानं नदीसागरकीर्तनम ॥ इंद्रद्युम्नकथा पश्वार्तनाडीजंध कथान्वितम्‍ ॥११॥
प्रादुर्भावस्ततो मह्याः कथा दमनकस्य च ॥ महीसागरसंयोगः कुमारेशकथा ततः ॥१२॥
ततस्तारकयुद्धं च नाना ख्यानसमन्वितम्‍ ॥ वघश्व तारकस्याथ पंचलिंगनिवेशनम्‍ ॥१३॥
द्वीपाख्यानं ततः पुण्यमूर्द्धलोकव्यवस्थितिः ॥ ब्रह्मांडस्थितिमानं च वर्करे शकथानकम्‍ ॥१४॥
महाकालसमुद्धूतिः कथा चास्य महाद्धुता ॥ वासुदेवस्य माहात्म्यं कोटितीर्थं ततः परम्‍ ॥१५॥
नानातीर्थसमाख्यानं गुप्तक्षेत्रे प्रकीर्तितम्‍ ॥ पांडवानां कथा पुण्या महाविद्याप्रसाधनम्‍ ॥१६॥
तीर्थयात्रासमाप्तिश्व कौमारमिदमद्धुतम्‍ ॥ अरुणाचलमाहात्म्यं सनक ब्रह्यंसकथा ॥१७॥
गौरीतपः समाख्यानं तत्तत्तीर्थनिरुपणम्‍ ॥ माहिषासुरमाख्यानं वघश्वास्य महाद्धुतः ॥१८॥
द्रोणाचले शिवास्थानं नित्यदा परिकीर्तितम्‍ ॥ इत्येष कथितः स्कांदे खंडो माहेश्वरोऽद्धुतः ॥१९॥
द्वितीयो वैष्णवः खंडस्तस्याख्यानानि मे शुणु ॥ प्रथमं भूमिवाराहसमा ख्यानं प्रकीर्तितम्‍ ॥२०॥
यत्र वेंकटकुध्रस्य माहात्म्यं पापनाशनम्‍ ॥ कमलायाः कथा पुण्या श्रीनिवासस्थितिस्तथ ॥२१॥
कुला लाख्यानंक चात्र सुवर्णमुखरी कथा ॥ नानाख्यासमायुक्ता भारद्वाजकथाद्धुता ॥२२॥
मतंगांजनसंवादः कीर्तितः पापनाशनः ॥ पुरुषोत्तममाहात्म्यं कीर्तितं चोत्कले ततः ॥२३॥
मार्कंडेसमाख्यानमंबरीषस्य भूपतेः ॥ इंद्रद्युम्रस्य चाख्यानं विद्यापातिकथा शुभा ॥२४॥
जैमिनेः समुपाख्यानं नारदस्यापि वाडव ॥ नीलकंठसमाख्यानं नरसिंहोपवर्णनम्‍ ॥२५॥
अश्वमेधकथा राज्ञो ब्रह्मलोकगतिस्तथा ॥ रथयान्नाविधिः पश्वाज्जन्मस्थानविधिस्तथा ॥२६॥
दक्षिणामृर्त्युपाख्यानं गुंडिवाख्यानकं ततः ॥ रथरक्षविधानं च शयनोत्सवकीर्तनम्‍ ॥२७॥
श्वेतपाख्या नमत्रोक्तं पृथूत्सवनिरुपणम्‍ ॥ दोलोत्सवो भगवतो व्रतं सांवत्सराभिधम्‍ ॥२८॥
पूजा चाकामिका विष्णोरुद्दालकानियोगतः ॥ योगसाधनमत्रोक्तं नानायोगनिरुपणम्‍ ॥२९॥
दशावतारकथनं स्त्रानदिपरिकीर्तनम्‍ ॥ ततो बदरिकायाश्व माहात्म्यं पापनाशनम्‍ ॥३०॥
अग्न्यादिर्तीर्थ माहात्म्य वैनतेयशिलाभवम्‍ ॥ क्रारणं भगवद्वासे कापालमो चनम्‍ ॥३१॥
पंचधाराभिधं तीर्थ मेरुसंस्थापनं तथा ॥ ततः कार्तिकमाहात्म्ये माहात्म्ये मदनालसम‍ ॥३२॥
धूम्रकेशसमाख्यानं दिनकृत्यनि कार्तिके ॥ पंचभीष्मव्रताख्यानं कीर्तितं भुक्तिमुक्तिदम्‍ ॥३३॥
ततो मार्गस्य माहात्म्ये विधानं स्नानजं तथा ॥ पुंड्रादिकीर्तनं चात्र मालाधारणपुण्यकम्‍ ॥३४॥
पंचमृतस्नानपुण्यं घंटानादादिजं फलम्‍ ॥ नानापुष्पार्चनफलं तुल सीदलजं फलम्‍ ॥३५॥
नैवेद्यस्य च माहात्म्यं हरिवासरकीर्तनम्‍ ॥ अखंडैकादशीपुण्यं तथा जागरणस्य च ॥३६॥
यस्योत्सवविधानं च नाममाहात्म्यकीर्तनम्‍ ॥ध्यानादिपुण्यकथंन माहात्म्यं मथुराभवम्‍ ॥३७॥
मथुरातीर्थमाहात्म्यं पृथगुक्तं ततः परम्‍ ॥ वनानां द्वादशानां च माहात्म्यं कीर्तित ततः ॥३८॥
श्रीमद्धागवतस्यात्र माहात्म्यं कीर्तितं परम्‍ ॥ वज्रशांडिल्यसंवाद अंतर्लीलाप्रकाशकम्‍ ॥३९॥
ततो माघस्य माहात्म्यं स्नानदानजपोद्धवम्‍ ॥ नानाख्यानसमायुक्तं दशाध्यायैर्निरुपितम्‍ ॥४०॥
ततो वैष्णवमाहात्म्ये शय्यादानादिजं फलम्‍ ॥ जलदा नादिविधयः कामाख्यानमतः परम्‍ ॥४१॥
श्रुतदेवस्य चरितं व्याधोपाख्यानमद्धुतम्‍ ॥ तथाक्षयतृतीयादेर्विशेषात्पुण्यकीर्तनम्‍ ॥४२॥
तत स्त्वयोध्यामाहात्म्ये चक्रब्रह्माह्रतीर्थके ॥ सुरापापविमोक्षाख्ये तथाधारसहस्त्रकम्‍ ॥४३॥
स्वर्गद्वारं चंद्रहरिधर्महर्युपवर्णनम्‍ ॥ स्वर्णवृष्टे रुपाख्यानं तिलोदासरयूयुतिः ॥४४॥
सीताकुंडं गुप्तहरिसरयूघर्घरान्वयः ॥ गोप्रतारं च दुग्धोदं गुरुकुंडादिपञ्चकम्‍ ॥४५॥
सोमार्का दीनि तीर्थानि त्रयोदश ततः परम्‍ ॥ गयाकूपस्य माहात्म्यं सर्वाघविनिवर्तकम्‍ ॥४६॥
मांडव्याश्रमपूर्वाणि तीर्थानि तदनन्तरम्‍ ॥ अजितादि मानसादितीर्था नि गदितानि च ॥४७॥
इत्येष वैष्णवः खंडो द्वितीयः परिकीर्तितः ॥ अतः परं ब्रह्रखंड मरीचे श्रृणु पुण्यदम्‍ ॥४८॥
यत्र वै सेतुमाहात्म्ये फलं स्नाने क्षणोद्धवम्‍ ॥ गालवस्य तपश्वर्या राक्षसाख्यानकं ततः ॥४९॥
चक्रतीर्थादिमाहात्म्यं देवीपत्तनसंयुते ॥ वेतालतीर्थमहिमा पापनाशादिकीर्तनम्‍ ॥५०॥
मंगलादिकमाहात्म्यं ब्रह्मकुंडादिवर्णनम्‍ ॥ हनुमत्कुंडमहिमागस्त्यतीर्थभवं फलम्‍ ॥५१॥
रामतीर्थादिकथनं लक्ष्मीतीर्थनिरुपणम्‍ ॥ शंखादितीर्थमहिमा तथा साध्यामृतादिजः ॥५२॥
धनुष्कोट्यादिमाहात्म्यं क्षीरकुंडादिजं तथा ॥ गायत्र्यादिकतीथानां माहात्म्यं चात्र कीर्तितम्‍ ॥५३॥
रामनाथस्य महिमा तत्त्वज्ञानोपदेशनम्‍ ॥ यात्राविधानकथनं सेतौ मुक्तिप्रदं नृणाम्‍ ॥५४॥
धर्मारण्यस्य माहात्म्यं ततः परमुदीरितम्‍ ॥ स्थाणुः स्कन्दाय भगवान्यत्र तत्त्वमुपादिशत्‍ ॥५५॥
धर्मारण्यसुंसंभूतिस्तत्पुण्यपरिकीर्त्तनम्‍ ॥ कर्म्मसिद्धेः समाख्यानं ऋषिवंशनिरुपणम्‍ ॥५६॥
अप्सरस्तीर्थमुख्यानां महात्म्यं यत्र कीर्तितम्‍ ॥ वर्णानामाश्रमाणां च धर्मतत्त्वनिरुपणम्‍ ॥५७॥
दिवः स्थानविभागश्व बकुलर्ककथा शुभा ॥ छत्रानन्दा तथा शांता श्रीमाता च मतंगिनी ॥५८॥
पुण्यदा च समाख्याता यत्र देव्यः समास्थिताः ॥ इन्द्रेश्वरादिमाहात्म्यं द्वारकादिनिरुपणम्‍ ॥५९॥
लोहासुरसमाख्यानं गंगाकूपनिपणम्‍ ॥ श्रीरामचरितं चैव सत्यमंदिरवर्णनम्‍ ॥६०॥
जीर्णोद्धा रस्य कथनमासनप्रतिपादनम्‍ ॥ जातिभेदप्रकथनं स्मृतिधर्मनिरुपणम्‍ ॥६१॥
ततस्तु वैष्णवा धर्मा नानाख्यानैरुदीरिताः ॥ चातुर्मास्ये ततः पुण्ये सर्वधमनिरुपणम्‍ ॥६२॥
दानप्रशंसा तत्पश्चाद्वतस्य महिमा ततः ॥ तपसश्वैव पूजायाः सच्छिद्रकथनं ततः ॥६३॥
तद्‌वृत्तीनां भिदा ख्यानं शालग्रामनिरुपणम्‍ ॥ भारकस्य वधोपायो वृक्षाचामहिमा तथा ॥६४॥
विष्णोः शापश्व वृक्षत्वं पार्वत्यनुतपस्ततः ॥ हरस्य तांडवं नृत्यं रामनामनिरुपणम्‍ ॥६५॥
हरस्य लिंगपतनं कथा बैजवनस्य च ॥ पार्वतीजन्मचरितं तारकस्य वधोऽद्धुतः ॥६६॥
प्रणवैश्वर्यकथनं तारकाचरितं पुनः ॥ दक्षयज्ञसमाप्तिश्व द्वादशाक्षरभूषणम्‍ ॥६७॥
ज्ञानयोगसमाख्यानं महिमा द्वादशाक्षरेः ॥ श्रवणदिकपुण्यं च कीर्तितं शर्मदं नृणाम्‍ ॥६८॥
ततो ब्राह्योत्तरे भागे शिवस्य महिमाद्धुतः ॥ पंचाक्षरस्य महिमा गोकर्णमहिमा ततः ॥६९॥
शिवरात्रैश्व महिमा प्रदोषव्र तकीर्तनम्‍ ॥ सोमवारव्रतं चापि सीमंतिन्याः कथानकम्‍ ॥७०॥
भद्रायूत्पत्तिकथनं सदाचारनिरुपणम्‍ ॥ शिववर्मसमुद्देशो भद्रायूद्वाहवर्ण नम्‍ ॥७१॥
भद्रायुमहिमा चापि भस्ममाहात्म्यकीर्तनम्‍ ॥ शबराख्यानकं चैव उमामाहेश्वरं व्रतम्‍ ॥७२॥
रुद्राक्षस्य च माहात्म्यं रुद्रा ध्यायस्य पुण्यकम्‍ ॥ श्रवणादिकपुण्यं च ब्रह्मखंडोऽयमीरितः ॥७३॥
अतः परं चतुर्थं तु काशीखंडमनुत्तमम्‍ ॥ विंध्यनारदयोर्यत्र संवादः परिकीर्तितः ॥७४॥
सत्यलोकप्रभावश्र्वागस्त्यावासे सुरागमः॥ पतिव्रताचरित्रं च तीर्थयात्रा प्रशंसनम्‍ ॥७५॥
तत सपुर्याख्या संयमिना निरूपणम्‍ ॥ बुधस्य च तथेंद्राग्न्योर्लोकाप्तिः शिवशर्मणः ॥७६॥
अग्रेः समुद्धवश्वैव क्रव्याद्वरुणसंभवः ॥ गंधवत्यलकापुर्योरीश्वर्याश्व समुद्धवः ॥७७॥
चंद्रार्कबुधलोकानां कुजेज्यार्कभुवां क्रमात्‍ ॥ मम विष्णोर्धुवस्यापि तपोलोकस्य वर्णनम्‍ ॥७८॥
ध्रुवलोककथा पुण्या सत्यलोकनिरीक्षणम्‍ ॥ स्कंदा गस्त्यसमालापो मणिकर्णीसमुद्धवः ॥७९॥
प्रभावश्वापि गंगाया गंगानामसहस्त्रकम्‍ ॥ वाराणसीप्रशंसा च भैरवाविर्भवस्तूतः ॥८०॥
दंडपाणिज्ञानवाप्योरुद्धवः समनंतरम्‍ ॥ ततः कलावत्याख्यानं सदाचारनिरुपणम्‍ ॥८१॥
ब्रह्मचारिसमाख्यानं ततः स्त्रीलक्षणानि च ॥ कृत्याकृत्यविनिदेशों ह्याविमुक्तेशवर्णम्‍ ॥८२॥
गृहस्थयोगिनो धर्माः कालज्ञानं धर्माः कालज्ञानं ततः परम्‍ ॥ दिवोदासकथा पुण्या काशिकावर्णनं ततः ॥८३॥
मायागणपतेश्वाथ भुवि प्रादुर्भव्स्ततः ॥ विष्णुमायाप्रपंचोऽथ दिवोदासविमोक्षणम्‍ ॥८४॥
ततः पंचनदोत्पत्तिबिंदुमाधवसंभवः ॥ ततो वैष्णवतीर्थाख्या शूलिनः काशिकागमः ॥८५॥
जैगषिव्येन संवादो ज्येष्ठशाख्यां महेशितुः ॥ क्षेत्राख्यानं कंदुकेशः व्याघ्रेश्वरसमुद्धवः ॥८६॥
शैलेशरत्नेश्वरयोः कृत्तिवासस्य चोद्धवः ॥ देवतानामधिष्ठानं दुर्गासुउरपराक्रमः ॥८७॥
दुर्गाया विजयश्वाथ ॐकारेशस्य वर्णनम्‍ ॥ पुनरोंकार माहात्म्यं त्रिलोचनसमुद्धवः ॥८८॥
केदाराख्या च धर्मेश कथा विष्णुभुजोद्धवा ॥ वीरेश्वरसमाख्यानं गंगामाहात्म्यकीर्तनम्‍ ॥८९॥
विश्वकर्मेशमहिमा दक्षयज्ञोद्धवस्तथा ॥ सतीशस्यामृतेशादेर्भुजस्तंभः पराशरे ॥९०॥
क्षेत्रतीर्थकदंबश्व मुक्तिमडपसकंथा ॥ विश्वेशविभवश्वाथ विधिश्वाग्नेत्पत्तिश्व सुरागमः ॥९१॥
अतः परं त्ववंत्याख्यं श्रृणु खंड च पंचमम्‍ ॥ महाकालवनाख्यानं ब्रह्मशीर्षच्छिदा ततः ॥९२॥
प्रायश्चित्त विधिश्वाग्नेरुत्पत्तिश्व सुरागमः ॥ देवदीक्षा शिवस्तोत्रं नानापातकनाशनम्‍ ॥९३॥
कपोलमोचनाख्यानं महाकालवनस्थितिः ॥ तीर्थं कनखलेशस्य सर्वपापप्रणाशनम्‍ ॥९४॥
कुंडमप्सरसंज्ञं च सरो रुद्रस्य पुण्यदम्‍ ॥ कुडवेश्म च विद्याध्रं मर्कटेश्वरतीर्थकम्‍ ॥९५॥
स्वर्गद्वारचतुः सिंधु तीर्थं शंकरवापिका ॥ शंकराक गन्धवतीतीर्थं पापप्रणाशनम्‍ ॥९६॥
दशाश्वमेधिकानंशतीर्थे च हरिसिद्धिदम्‍ ॥ पिशाचकादियात्रा च हनुमत्कवचेश्वरौ ॥९७॥
महाकालेशयात्रा च वल्मीकेश्वरतीर्थकम्‍ ॥ शुक्रे च पञ्चमे चाख्ये कुशस्थल्याः प्रदक्षिणाः ॥९८॥
अक्रूरसंज्ञन्त्वेकपादं चंद्रार्कवैभवम्‍ ॥ करभेशाख्यतीर्थं च लटुकेशादितीर्थकम्‍ ॥९९॥
मार्कंडेशं यज्ञवापी सोमेशं नरकांतकम्‍ ॥ केदारेश्वररामेशसौभाग्येशनरार्ककम्‍ ॥१००॥
केशवार्क शक्तिभेदं स्वर्णसारमुखानि च ॥ ॐकारेशादितीर्थानि अंधक श्रुतिकीर्तनम्‍ ॥१०१॥
कालारण्ये लिंगसंख्या स्वर्णश्रृ गाभिधानकम्‍ ॥ कुशस्थल्या अवंत्याश्वोज्जयिन्या अभिधानकम्‍ ॥१०२॥
पद्मावतीवै कुमुद्वत्यमरावतिनामकम्‍ ॥ विशालाप्रतिकल्पाभिधानं च ज्वरशांतिकम्‍ ॥१०३॥
शिवानामादिकफलं नागोद्धीता शिवस्तुतिः ॥ हिरण्याक्षवधाख्यानं तीर्थं सुंदरकुंडकम्‍ ॥१०४॥
नीलगंगापुष्क राख्यं विंध्यवासनतीर्थकम्‍ ॥ पुरुषोत्तमाभिधानं तु तत्तीर्थं चाघनाशनम्‍ ॥१०५॥
गोमती वामनं कुंडो विष्णोर्नामसहस्त्रकम्‍ ॥ वीरेश्वरसरः कालभैरवस्य च तीर्थकम्‍ ॥१०६॥
महिमा नागपंचम्या नृसिहस्य जयंतिका ॥ कुटुम्बेश्वरयात्रा च देवसाधकीर्तनम्‍ ॥१०७॥
कर्कराजाख्य तीर्थं च विघ्नेशादिसुरोहनम्‍ ॥ रुद्रंकुंडप्रभृतिषु बहुतीर्थनिरुपणम्‍ ॥१०८॥
यात्राष्टतीर्थजा पुण्या रेवामाहात्म्यमुच्यते ॥ धर्मपुत्रस्य वैराग्यो मार्कंडेयेन संगमः ॥१०९॥
प्राग्रीयानुभवाख्यानममृतापरिकीर्त्तनम्‍ ॥ कल्पे कल्पे पृथङ्‌ नाम नर्मदायाः प्रकीर्तितम्‍ ॥११०॥
स्तवमार्ष नार्मदं च कालरात्रिकथा ततः ॥ महादेवस्तुतिः पश्वात्पृथक्लल्पकथाद्धुता ॥१११॥
विशल्याख्यानकं पश्वाज्जालेश्वरकथा तथा ॥ गौरीव्रत समाख्यानं त्रिपुरज्वालनं ततः ॥११२॥
देहपातविधानं च कावेरीसंगमस्ततः ॥ दारुतीर्थं ब्रह्मावर्तं यत्रेश्वरकथानकम्‍ ॥११३॥
अग्नितीर्थं रवितीर्थं मेघनादादिदारुकम्‍ ॥ देवतीर्थं नर्मदेशं कपिलाख्यं करंजकम्‍ ॥११४॥
कुंडलेशं पिप्पलादं विमलेशं च शूलभित्‌ ॥ शचीहरणमाख्या नमभ्रकस्य वधस्ततः ॥११५॥
शूलभेदोद्धवो यत्र दानधर्मोः पृथग्विधाः ॥ आख्यानं दीर्घतपस ऋष्यश्रूगकथा ततः ॥११६॥
चित्रसेनकथ पुण्या काशिराज्यस्य लक्षणम्‍ ॥ ततो देवशिलाख्यानं शबरीतीर्थकान्वितम्‍ ॥११७॥
व्याधाख्यानं ततः पुण्यं पुष्करिण्यर्कतीर्थकम्‍ ॥ आप्रेत्येश्वरतीर्थं च शक्रतीर्थं करोटिकम्‍ ॥११८॥
कुमारेशमगस्त्येशमानंदेश च मातृजम्‍ ॥ लोकेशं धनदेशं च मंगलेशं च कामजम्‍ ॥११९॥
नागेशं चापि गोपारं गौतमं शंखचूडकम्‍ ॥ नारदेशं नंदिकेशं वरुणेश्वरतीर्थकम्‍ ॥१२०॥
दधिस्कंदादितीर्थानि हनूमतेश्वरं ततः ॥ रामेश्वरादि तीर्थानि सोमेशं पिंगलेश्वरम्‍ ॥१२१॥
ऋणमोक्षं कपिलेशं पूतिकेशं जलेशयम्‍ ॥ चंडार्कं यमतीर्थं च काल्होडीशं वदादिके ॥१२२॥
नारायणं च कोटीशं व्यासतीर्थं प्रभासक्रम्‍ ॥ नागेशसंकर्षणकं प्रश्रयेश्वरतीर्थकम्‍ ॥१२३॥
ऐरंडीसंगमं पुण्यं सुवर्णशिलतीर्थकम्‍ ॥ करंजं कामहं तीर्थं भांडीरो रोहिणीभवम्‍ ॥१२४॥
चक्रतीर्थं धौतपापं स्कंदमांगिरसाह्रयम्‍ ॥ कोटितीर्थयोन्याख्यमंगाराख्यं त्रिलोचनम्‍ ॥१२५॥
इंद्रेशं कंबुकेशं च सोमेशं कोहनं शकम्‍ ॥ नार्मदं चार्कमाग्नेयं भार्गवेश्वरमुत्तमम्‍ ॥१२६॥
ब्राह्यं दैवं च मार्गेशमादिवाराहकेश्वरम्‍ ॥ रामेशमथ सिद्धेशमाहल्यं कंकटेश्वरम्‍ ॥१२७॥
शाक्रं सौम्यं च नादेशं तोयेशं रुक्मिणीभवम्‍ ॥ योजनेशं वराहेशं द्वादशीशिवतीर्थकम्‍ ॥१२८॥
सिद्धेशं मंगलेशं च लिंगवाराहतीर्थकम्‍ ॥ कुण्डेश श्वेतवाराहं गर्भावेशं रवीश्वरम्‍ ॥१२९॥
शुल्कादिनि च तीर्थानि हुंकारस्वामितीर्थकम्‍ ॥ संगमेशं नहुषेशं मोक्ष्ण पञ्चगोपकम्‍ ॥नागशावं च सिद्धेशं मार्कण्डांक्रूरतीर्थके ॥१३०॥
कामोदशूलारोपाख्ये मांडव्यं गोपकेश्वरम्‍ ॥ कपिलेशं पिंगलेशं भूतेशं गांगगौतमे ॥१३१॥
आश्वमेधं भृगुकच्छं केदारेशं च पापनुत्‌ ॥ कलकलेशं जालेशं शालग्रामं वराहकम्‍ ॥१३२॥
चंद्रप्रभासमादित्यं श्रीपत्याख्यं च हंसकम मूल्यस्थानं च शूलेशमुग्राख्यं चित्रदैवकम्‍ ॥१३३॥
शिखीशं कोटितीर्थंच दशकन्यं सुवणकम्‍ ॥ ऋणमोक्षं भारभूति पुंखां मुडिं च डिंडिमम्‍ ॥१३४॥
आमलेशं कपालेशं शृंगैरंडीभवं ततः ॥ कोटितीर्थं लोटणेशं फलस्तुतिरतः परम्‍ ॥१३५॥
दृमिज्म्गलमाहात्म्ये रोहिताश्वकथा ततः ॥ धुन्धुमारसमाख्यानं वधोपायसस्ततोऽस्य वै ॥१३६॥
वधो धुंधोस्ततः पश्वात्ततश्वित्रवहोद्धवः ॥ महिमास्य ततश्वडीशप्रभावो रतीश्वरः ॥१३७॥
केदारेशो लक्षतीर्थं ततो विष्णुप दीभवम्‌ ॥ मुरवार च्य्वनांधास्य ब्रह्मणश्व सरस्ततः ॥१३८॥
चक्राख्य ललिताख्यानं तीर्थं बहुगोमयम्‍ ॥ रुद्रावर्तं च मार्कंडे तीर्थं पापप्रणाशनम्‍ ॥१३९॥
श्रवणेशं शुद्धपटं देवांधुप्रेततीर्थकम्‍ ॥ जिह्रोदतीर्थंसभूतिः शिवोद्धदं फलस्तुतिः ॥१४०॥
एष खंडो ह्यवंत्याख्यः श्रृण्वतां पापनाशनः ॥अतः परं नागराख्यः खंडः षष्ठोऽभिधीयते ॥१४१॥
लिंगोत्पत्तिसमाख्यानं हरिश्वन्द्रकत्था शुभा ॥ विश्वामित्रस्य माहात्म्यं त्रिशंकुस्वर्गतिस्तथा ॥१४२॥
हाटके श्वरमाहात्म्ये वृत्रासुखधस्तथा ॥ नागबिलं शंखतीर्थमचलेश्वरवर्णनम्‍ ॥१४३॥
चमत्कारपुराख्यानं चमत्कारकरं परम्‍ ॥ गयशीर्षे बालशाख्यं वालमंडं म्रुगाह्ययम्‍ ॥१४४॥
विष्णुपादं च गोकर्णं युगरुपं समाश्रयः ॥ सिद्धेश्वरं नागसरः सप्ताषर्यें ह्यगस्त्यकम्‍ ॥१४५॥
भ्रूणगर्त्म नलेशं च भैष्मं वैडुरमर्ककम्‍ ॥ शारमिष्ठं सोमनाथं च दौर्गमातर्जकेश्वरम्‍ ॥१४६॥
जामदग्न्यवधाख्यानं नैःक्षत्रियकथानकम्‍ ॥ रामह्रदं नागपुरं षड्‌लिंगं चैव यज्ञभूः ॥१४७॥
मुण्डीरादित्रिकार्कं च सतीपरिणयाह्रयम्‍ ॥ रुद्रशीर्षे च यागेशं वालखिल्यं च गारुडम्‍ ॥१४८॥
लक्ष्मीशापः सप्त विंशसोमप्रासादमेव च ॥ अंबाबद्धं पांडुकाख्यमाग्नेयं ब्रह्मकुंडकम्‍ ॥१४९॥
गोमुखं लोहयष्टयाख्यमजापालेश्वरी तथा ॥ शानैश्वरं राजवापी रामेशो लक्ष्मणेश्वरः ॥१५०॥
कुशेशाख्यं लवेशाख्यं लिंग सर्वोत्तमोत्तमम्‍ ॥ अष्टषष्टिसमाख्यानं दमयंत्यास्त्रिजातकम्‍ ॥१५१॥
ततो वै रेवती चात्र भक्तिकातीर्थसंभवः ॥ क्षेमकरी च केदार शुल्कतीर्थमुखारकम्‍ ॥१५२॥
सत्यसंधेश्वराख्यराख्यानं तथा कर्णोत्पलाकथा ॥ अटेश्वरं याज्ञवल्क्य गौर्यं गाणेशमेव च ॥१५३॥
ततो वास्तुपदाऽखयनमजागृहकथानकम्‍ ॥ सौभाग्यांधुश्व शूलेशं धर्मराजकथानकम्‍ ॥१५४॥
मिष्टान्नदेश्व राख्यांन गाणापत्यत्रयं ततः ॥ जाबालिचरितं चैव मकरेशकथा ततः ॥१५५॥
कालेश्वर्यधकाख्यानं कुंडमाप्सरसं तथा ॥ पुष्यादित्यं रौहिताश्वं नागरोत्पत्तिकीर्त्तनम्‍ ॥१५६॥
भार्गवं चरितं चैव वैश्वामैत्रं ततः परम्‍ ॥ सारस्वतं पैप्पलादं कंसारीशं च पैंडकम्‍ ॥१५७॥
ब्रह्मणो यज्ञचरितं सावित्र्याख्यानसंयुतम्‍ ॥ रैवतं भार्तयज्ञाख्यं मुख्यतीर्थनिरीक्षणम्‍ ॥१५८॥
कौरवं हाटकेशाख्यं प्रभासं क्षेत्रकत्रयम्‍ ॥ पौष्करं नैमिषं धार्ममरण्य त्रितयं स्मृतम्‍ ॥१५९॥
वाराणसी द्वारकाख्यावन्त्याख्येति पुरीत्रयम्‍ ॥ वृन्दावनं खांडवाख्यमद्वैकाख्यं वनत्रयम्‍ ॥१६०॥
कल्पः शालस्तथा नन्दि ग्रामत्रयमनुत्तमम्‍ ॥ असिशुल्कपितृसंज्ञ तीर्थत्रयमुदाहृतम्‍ ॥१६१॥
श्र्यर्बुदौ रैवतश्वैव पर्वतत्रयमुत्तमम्‍ ॥ नदीनां त्रितयं गंगा नर्मदा च सरस्वती ॥१६२॥
सार्द्धकोटित्रयफलमेकैकं चैषु कीर्तितम्‍ ॥ कूषिका शंखतीर्थ्म चामरकं बालमण्डनम्‍ ॥१६३॥
हाटकेशक्षेत्रफलप्रदं प्रोक्तं चतुष्टयम्‍ ॥ सांबादित्यं श्राद्धकल्पं यौधिष्ठिरमथांधकम्‍ ॥१६४॥
जलशायि चतुर्माससमशून्यशयनव्रतम्‍ ॥ संकणेशं शिवरात्रिस्तुलापुरुषदानकम्‍ ॥१६५॥
पृथ्वीदानं वानकेशं कपालमोचनेश्वरम्‍ ॥ पापपिंडं मासलैगं युगमानादिकीर्तनम्‍ ॥१६६॥
निंवेशशाकंभर्याख्या रुद्रैकादशकीर्तनम्‍ ॥दानमा हात्मकथनं द्वादशादित्यकीर्तनम्‍ ॥१६७॥
इत्येषः नागरः खंडः प्रभासाख्योऽधुनोच्यते ॥सोमेशो यत्र विश्वेशोऽर्कस्थलं पुण्यदं महत्‍ ॥१६८॥
सिद्धेश्वरादिकाख्यानं पृथगत्र प्रकीर्तितम्‍ ॥ अग्नितीर्थं कपद्दर्शिं केदारेशं गतिप्रदम्‍ ॥१६९।
भीमभैरवचण्डीशभास्करेन्दुजेश्वराः ॥ बुधेज्यभृगुसौरागुशिखीशा हरविग्रहाः ॥१७०॥
सिद्धेश्वराद्याः पंचान्ये रुद्रास्तत्र व्यवस्थिताः ॥ वरारोहा ह्याजा पाला मंगला ललितश्वरी ॥१७१॥
लक्ष्मीशो वाडवेशश्वोर्वीशः कामेश्वरस्तथा ॥ गौरीशवरुनेशाख्यं दुर्वासेशं गणेश्वरम्‍ ॥१७२॥
कुमारेशं चंडकल्पं शकुलीश्वरसंज्ञकम्‍ ॥ ततः प्रोक्तोऽथ कोटीशबा लब्रह्यादिसत्कथा ॥१७३॥
नरकेशसंवर्तेशनिधीश्वरकथा ततः ॥ बलभद्रेश्वरस्याथ गंगाया गणपतस्य च ॥१७४॥
जांबवत्याख्यसरितः पांडुकूपस्य सत्कथा ॥ शतमेधलक्षमेधकोटिमेधकथा तथा ॥१७५॥
दुर्वासार्कघटस्थानहिरण्यासंगमोत्कथा ॥नगरार्कस्य कृष्णस्य संकर्षणमुद्रयोः ॥१७६॥
कुमार्याः क्षेत्रपालस्य ब्रह्येशस्य कथा पृथक्‌ ॥ पिंगलासंगमेशस्य शंकरार्कघटेशयोः ॥१७७॥
ऋषितीर्थस्य नंदार्कत्रितकूपस्य कीर्तनम्‍ ॥ ससोपानस्य पर्णार्कन्यंकुमत्योः कथाद्धुता ॥१७८॥
वाराहस्वामिवृत्तातं छायालिंगाख्यगुल्फयोः ॥ कथा कनकनंदायाः कुतीगंगेशयोस्तथा ॥१७९॥
चमसोद्धेदविदुरत्रिलोकेशकथा ततः ॥ मंकणेशत्रैपुरेशषंडतीर्थकथास्तथा ॥१८०॥
सूर्यप्राची त्रीक्षणयोरुमानाथकथा तथा ॥ भूद्धारशूलस्थल योश्ववनार्केशयोस्तथा ॥१८१॥
अजापालेशबालार्ककुबेरस्थलजा कथा ॥ ऋषितोया कथा पुण्या संगालेश्वरकीर्तनम्‍ ॥१८२॥
नार दादित्यकथनं नारायणीनिरुपणम्‍ ॥ तप्तकुंडस्य माहात्म्यं मूलचंदीशवर्णनम्‍ ॥१८३॥
चतुर्वक्रगणाध्यक्षकलंबेश्वरयोः कथा ॥ गोपालस्वामिव कुलस्वामिनोर्मरुतां कथा ॥१८४॥
क्षेमार्कोन्नतविघ्नेशजलस्वामिकथा ततः ॥ कालमेघस्य रुक्मिण्या दुर्वासेश्वरभद्रयोः ॥१८५॥
शंखावर्त मोक्षतीर्थगोष्पदाच्युतसद्मनाम्‍ ॥ जालेश्वरस्य हुंकारेश्वरचंदीशयोः कथा ॥१८६॥
आशापुरस्थाविघ्नेशकलाकुंडकथाद्धुता ॥ कपिलेशस्य च कथा जरद्धशिवस्य च ॥१८७॥
नलकर्कोटेश्वरयोर्हाटकेश्वरपूजा कथा ॥ नारदेशयंत्रभूषादुर्गकूटगणेशजा ॥१८८॥
सुपर्णैलाख्यभैरव्योर्भल्लतीर्थभवा कथा ॥ कीर्तनं कर्दमालस्य गुप्तसोमेश्वस्य च ॥१८९॥
बहुस्वर्णैशश्रृंगेशकोटीश्वरकथा ततः ॥ मार्कंडेश्वरकोटीशदामोदरगृहोत्कथा ॥१९०॥
स्वर्णरेखा ब्रह्मकुंडं कुंतीभीमेश्वरी तथा ॥ मृगीकुंडं च सर्वस्व क्षेत्रे वस्त्रापथे स्मृतम्‍ ॥१९१॥
दुर्गाभिल्लेशगंगेशरैवत्तानां कथाद्धुता ॥ ततोऽर्बुदेश्वर कथा अचलेश्वरदीर्तनम्‌ ॥१९२॥
नागतीर्थास्य च कथा वसिष्ठाश्रमवर्णनम्‍ ॥ भद्रकर्णस्य माहात्म्यं त्रिनेत्रस्य ततः परम्‍ ॥१९३॥
केदारस्यच माहात्म्यं तीर्थागमनकीर्तनम्‍ ॥ कोटीश्वररुपतीर्थहृषीकेशकथास्तंतः ॥१९४॥
सिद्धेसशुक्रेश्वरयोर्मणिकर्णीशकीर्तनम्‍ ॥ पंगुतीर्थयमतीर्थवा राहतीर्थवर्णनम्‍ ॥१९५॥
चंद्रप्रभासपिंडोदश्रीमाताशुक्लतीर्थजम्‍ ॥ कात्यायन्याश्व माहात्म्यं ततः पिंडारकस्य च ॥१९६॥
ततः कनरवल स्याथ चक्रमानुषतीर्थयोः ॥ कपिलाग्निर्थकथा तिथा रक्तानुबंधजा ॥१९७।
गणेशपार्थेश्वरयोर्यात्रायामुज्ज्वलस्य च ॥ चंडीस्थाननागोद्धव शिवकुंडमहेशजा ॥१९८॥
कामेश्वरस्य मार्कंडेयोत्पतेश्व कथा ततः ॥ उद्दालकेशसिद्धेशगततीथकथा पृथक्‍ ॥१९९॥
श्रीदेवखातोत्पत्तिश्व व्यासगौतमतीर्थयोः ॥ कुलसंतारमाहात्म्यं रामकोट्याहृतीर्थयोः ॥२००॥
चंद्रोद्धेदेशानश्रृंगब्रह्मस्थानोद्धवोऽद्धुतम्‍ ॥ त्रिपुष्कररुद्रह्रदगुहेश्वर कथा शुभा ॥२०१॥
अविमुक्तस्य माहात्म्यमुमामाहेश्वरस्य च ॥ महौजसः प्रभावश्व जंबूतीथस्य वर्णनम्‍ ॥२०२॥
गंगाधरमिश्रकयोः कथा वाथ फलस्तुतिः ॥ द्वारकायाश्व माहात्म्ये चंद्रशर्मकथाकम्‍ ॥२०३॥
जागराद्यर्चनाद्याख्या व्रतमेकादशीभवम्‍ ॥ महाद्वादशिकाख्यानं प्रह्रादर्षि समागमः ॥२०४॥
दुर्वासस उपाख्यानं यात्रोपक्रमकीर्तनम्‍ ॥ गोमत्युत्पत्तिकथनं तस्यां स्नानादिजं फलम्‍ ॥२०५॥
चक्रतीर्थस्य माहात्म्यं गोमत्युदधिसंगमः ॥ सनकादिह्रादाख्यानं नृगतीर्थकथा ततः ॥२०६॥
गोप्रचारकथा पुण्या गोपीनां द्वारकागमः ॥ गोपीसरः समाख्यानं ब्रह्यतीर्थादिकीर्तनम्‍ ॥२०७॥
पंचनद्यागमाख्यानं नानाख्यानसमन्वितम्‍ ॥ शिवलिंगगदातीर्थकृष्णपूजादिकीर्तनम्‍ ॥२०८॥
त्रिविक्रमस्य मूर्ताख्या दुर्वासःकृष्णसंकथा ॥ कुशदैत्यवधोच्चारविशेषार्चनजं फलम्‍ ॥२०९॥
गोमत्यां द्वारकायां च तीर्थागमनकीर्तनम्‍ ॥ कृष्णमंदिरसंप्रेक्षा द्वारवत्यभिषेचनम्‍ ॥२१०॥
तत्र तीर्थावासकथा द्वारकापुण्यकीर्तनम्‍ ॥ इत्येष सप्तमः प्रोक्तः खंडः प्राभासिको द्विजाः ॥२११॥
स्कांदे सर्वोत्तरकथे शिवमाहा त्म्यवर्णने ॥ लिखित्वैतत्तु यो दद्याद्धेमशूलसमन्वितम्‍ ॥२१२॥
माघ्यां सत्कृत्यं विप्राय स शैवे मोदते पदे ॥२१३॥
इति श्रीबृहन्नारदीयपुराणे पूर्व० बृहदुपाख्याने चतुर्थपादे स्कंदपुराणानुक्रमणीवर्णनं नाम चतुरधिकशततमोऽध्यायः ॥१०४॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP