संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
द्वयुत्तरशततमोऽध्यायः

श्री नारदीयमहापुराणम् - द्वयुत्तरशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


ब्रह्योवाच ॥
श्रृणु पुत्र प्रवक्ष्यामि पुराणं लिंगसंज्ञितम्‍ ॥ पठतां श्रृण्वता चैव भुक्तिमुक्तिप्रदायकम्‍ ॥१॥
यच्च लिंगाभिधं तिष्ठन्वह्रिलिंगे हरोऽभ्यधात्‌ ॥ मह्यं धमादिसिद्धयर्थ मग्निकल्पकथाश्रयम्‍ ॥२॥
तदेव व्यासदेवेन भागद्वयसमन्वितम्‍ ॥ पुराणं लिंगमुदितं बह्राख्यानविचित्रितम्‍ ॥३॥
तदेकादशसाहस्त्रं हरमा हात्म्यसूचकम्‍ ॥ परं सर्वपुराणानाम सारभूतं जगत्रये ॥४॥
पुराणोपक्रमे प्रश्नः सृष्टिः संक्षेपतः पुरा ॥ योगाख्यानं ततः प्रोक्तं कल्पाख्यानं ततः परम्‍ ॥५॥
लिंगोद्धवस्तदंबा च कीर्तिता हि ततः परम्‍ ॥ सनत्कुमारशैलादिसंवादश्वाथ पावनः ॥६॥
ततो दाधीचचरितं युगधर्मनिरुपणम्‍ ॥ ततो भुवन कोशाख्या सूर्यसोमान्वयस्ततः ॥७॥
ततश्व विस्तरात्सर्गस्त्रिपुराख्यानकं तथा ॥ लिंगप्रतिष्ठा च ततः पशुपाशविमोक्षणम्‍ ॥८॥
शिवव्रतानि च तथा सदा चारनिरुपणम्‍ ॥ प्रायश्वितान्यरिष्टानि काशीश्रीशैलवर्णनम्‍ ॥९॥
अंधकाख्यानकं पश्वाद्वाराहचरितं पुनः ॥ नृसिंहचरितं पश्वाज्जलंधरवधस्ततः ॥१०॥
शैवं सहस्त्रनामाथ दक्षयज्ञविनाशनम्‍ ॥ कामस्य दहनं पश्वाद्रिरिजायाः करग्रहः ॥११॥
ततो विनायकाख्यानं नृपाख्यानं शिवस्य च ॥ उपमन्युकथा चापि पूर्वभागे इतीरितः ॥१२॥
विष्णुमाहात्म्यकथनमंबरीषकथा ततः ॥ सनत्कुमारनंदीशसंवादश्व पुनर्मुने ॥१३॥
शिवमाहा त्म्य्संयुक्तः स्त्रानयागादिकं ततः ॥ सूर्यपूजाविधिश्वैव शिवपूजा च मुक्तिदा ॥१४॥
दानानि बहुधोक्तानि श्राद्धप्रकरणं ततः ॥ प्रतिष्ठातं न्नमुदितं ततोऽघोरस्य कीर्तनम्‍ ॥१५॥
वज्रेश्वरी महाविद्या गायत्रीमहिमा ततः ॥ त्र्यंबकस्य  माहात्म्यं पुराणश्रवणस्य च ॥१६॥
एवं चोपरि भागस्ते लैंगस्य कथितो मया ॥ व्यासेन हि निबद्धस्य रुद्रमाहात्म्यसूचितः ॥१७॥
लिखित्वैत्पुराणं तु तिलधेनुसमन्वितम्‍ ॥ फाल्गुन्यां पूर्णिमायां यो दद्याद्धक्तया द्विजातये ॥१८॥
स लभेच्छिवसायुज्यं जसमरणवर्जितम्‍ ॥ यः पटेच्छृणुयाद्वापि लैगं पापपहं नरः ॥१९॥
स भुक्तभोगो लोकेऽस्मिन्नंते शिवपुरं व्रजेत्‍ ॥ लिंगानुक्रमणीमेतां पठेद्यः श्रृणुयात्तथा ॥२०॥
तावुभौ शिवभक्तौ तु लोकद्वितयभोगिनौ ॥ जायेतां गिरिजाभर्तुः प्रसादान्नात्र संशयः ॥२१॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे लिंगपुराणानुक्रमणीनिरुपणं नाम द्वयुत्तरशततमोऽध्यायः ॥१०२॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP