संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
नामैकोत्तरशततमोऽध्यायः

श्री नारदीयमहापुराणम् - नामैकोत्तरशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


श्रीब्रह्योवाच ॥
श्रृणु वत्स प्रवक्ष्यामि पुराणं दशमं तव ॥ ब्रह्मवैवर्तकं नाम वेदमार्गानुदर्शकम्‍ ॥१॥
सावर्णियत्रे भगवान्साक्षाद्देवर्षये स्थितः ॥ नारदाय पुराणार्थ प्राह सर्वमलौकिकम्‍ ॥२॥
धर्मार्थकाममोक्षाणां सारः प्रीतिर्हरौ हरे ॥ तयोरभेदसिद्धयर्थं ब्रह्मवैवर्तमुत्तमम्‍ ॥३॥
रथंतरस्य कल्पस्य वृत्तातं यन्मयोदितम्‍ ॥ शतकोटिपुराणे तत्संक्षिप्य प्राह वेदवित्‌ ॥४॥
व्यासश्वतुर्द्धा संव्यस्य ब्रह्मवैवर्तसंज्ञिते ॥ अष्टादशसहस्त्रं तत्पुराणे परिकीर्तितम्‍ ॥५॥
ब्रह्मप्रकृतिविघ्नशकृष्णखंडसमन्वितम्‍ ॥ तत्र सूतर्षिसंवादे पुराणोक्रमस्ततः ॥६॥
सृष्टिप्रकरणं त्वाद्यं ततो नारदवेधसोः ॥ विवादः सुमहान्यत्र द्वयोरासीत्पराभवः ॥७॥
शिवलोकगतिः पश्वाज्ज्ञानलाभः शिवात्मने ॥ शिववा वखेन तत्पश्वान्मरीचेर्नारदस्य तु ॥८॥
गमनं चैव सावर्णैर्ज्ञानार्थं सिद्धसेविते ॥ आश्रमे सुमहापुण्ये त्रैलोक्याश्वर्यकारिणी ॥९॥
एतद्धि ब्रह्मखंडंहि श्रुतं पापविनाशनम्‍ ॥ ततः सावर्णिसंवादो नारद्स्य समीरितः ॥१०॥
कृष्णमाहात्म्यसंयुक्तो नानाख्यानकथोत्तरम्‍ ॥ प्रकृतेरंशभूतानां कला नां चापि वर्णितम्‍ ॥११॥
माहात्म्यं पूजनाद्यं विस्तरेण यथास्थितम्‍ ॥ एतत्प्रकृतिखंडं हि श्रुतं भूतिविद्यायकम्‍ ॥१२॥
गणेशजन्म संप्रश्रः सपुण्यकमहाव्रतम ॥ पार्वत्याः कार्तिकेयेन सह विघ्नेशसंभवम्‍ ॥१३॥
चरितं कार्तवीर्यस्य जामदग्न्यस्य चाद्धुतम्‍ ॥ विवादः सुमहानासी ज्जामदग्न्यगणेशयोः ॥१४॥
एतद्विघ्नेशखंडं हि सर्वविघ्नविशाशनम्‍ ॥ श्रीकृष्णजन्मसंप्रश्रो जन्माख्याण्म ततोऽद्धुतम्‍ ॥१५॥
गोकुले गमनं गश्वात्पूतनादिवधाद्धुताः ॥ बाल्यकौमारजा लीला विविधास्तत्र वर्णिता ॥१६॥
रासक्रीडा च गोपीभिः शारदी समुदाह्रता ॥ रहस्ये राधया क्रीडा वर्णिता बहुविस्तरा ॥१७॥
सहाक्रूरेण तत्पश्वान्मथुरागमनं हरे ॥ कंसादीनां वधे वृत्ते कृष्णस्य द्विजसंस्कृतिः ॥१८॥
काश्यसांदीपनेः पश्वाद्विद्योपादानमद्धुतम्‍ ॥ यवनस्य वधः पश्वाद्दारकागमनं हरेः ॥१९॥
नरकादिवधस्तत्र कृष्णेन विहितोऽद्धुतः ॥ कृष्णखंडमिदं विप्र नृणां संसारखंडनम्‍ ॥२०॥
पठितं च श्रुतं ध्यातं पूजितं चाभिवंदितम्‍ ॥ इत्येतद्धह्यवैवर्तपुराणं चात्यलौकिकम्‍ ॥२१॥
व्यासोक्तं चादि संभूतं पठच्छण्वन्विमुच्यते ॥ विज्ञानाज्ञानशमनाद्धोरात्संसारसागरात्‍ ॥२२॥
लिखित्वेदं च यो दद्यान्माघ्यां धेनुसमन्वितम्‍ ॥ ब्रह्मलोकम्‍ वाप्नोति स मुक्तोऽज्ञानबंधनात्‍ ॥२३॥
यश्वानुक्रमणीं चापि पठेद्वा श्रृणुयादपि ॥ सोऽपि कृष्णप्रसादेन लभते वांछितं फलम्‍ ॥२४॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने ब्रह्मणैवर्तपुराणानुक्रमणीनिरुपणं नामैकोत्तरशततमोऽध्यायः ॥१०१॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP