संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
पञ्चाधिकशततमोऽध्यायः

श्री नारदीयमहापुराणम् - पञ्चाधिकशततमोऽध्यायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


ब्रह्योवाच ॥
शृणु वत्स प्रवक्ष्यामि पुराणं वामनाभिधम्‍ ॥ त्रिविक्रमचरित्राढ्यं दशसाहस्त्रसंख्यकम्‍ ॥१॥
कूर्मकल्पसमाख्यानं वर्गत्रकथानकम्‍ ॥ भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम्‍ ॥२॥
पुराणप्रश्नः प्रथमं ब्रह्यशीर्षच्छिदा ततः ॥ कपालमोचनाख्यानं दक्षयज्ञविहिंसनम्‍ ॥३॥
हरस्य कालरुपाख्या कामस्य दहनं ततः ॥ प्रह्रादनाराययोर्युद्धं देवासुराहवः ॥४॥
सुकेश्यर्कसमाख्यानं ततो भुवनकोशकम्‍ ॥ ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः ॥५॥
तपतीचरितं पश्चात्कुरुक्षेत्रस्य वर्णनम्‍ ॥ सत्यामाहात्म्यमतुलं पार्वतीजन्मकीर्तनम्‍ ॥६॥
तपस्तस्या विवाहश्च गौर्युपाख्यानकं ततः ॥ ततः कौशिक्युपाख्यानं कुमारचरितं ततः ॥७॥
ततोऽन्धकवधाख्यानंसाध्योपाख्यानकंतनः ॥ जाबलिचरितं पश्वादरजायाः कथाद्धुता ॥८॥
अंधकेश्वरयोर्युद्धं गणत्वं चांधकस्य च ॥ मरुतां जन्मकथनं बलेश्व चरितं ततः ॥९॥
ततस्तु लक्ष्म्याश्वरितं त्रैविक्रममतः परम्‍ ॥ प्रह्रादतीर्थयात्रायां प्रोच्यंतेऽथ कथाः शुभाः ॥१०॥
ततश्व धुन्धुचरितं प्रेतोपाख्यानकं ततः ॥ नक्षत्रपुरुषाख्यानं श्रीदामचरितं ततः ॥११॥
त्रिविक्रमचरित्रांते ब्रह्मप्रोक्तः स्तवोत्तमः ॥ प्रह्रादबलिसंवादे सुतले हरिशंसनम्‍ ॥१२॥
इत्येष पूर्वभागोऽस्य पुराणस्य तवोदितः ॥ शृण्णतोऽस्योत्तरं भागं बृहद्वामनसंज्ञकम्‍ ॥१३॥
माहेश्वरी भागवती सौरी गाणेश्वरी तथा ॥ चतस्त्रः संहिताश्वात्र पृथक्‍ साहस्त्रसंख्यया ॥१४॥
माहेश्वर्यां तु कृष्णस्य तद्धक्तानां च कीर्तनम्‍ ॥ भागवत्यां जगन्मातुरवतारकथाद्धुता ॥१५॥
सौर्यां सूर्यस्य महिमा गदितः पापनाशनः ॥ गाणेश्वर्यां गणेशस्य चरितं च महेशितुः ॥१६॥
इत्येतद्वामनं नाम पुराणं सुविचित्रकम्‍ ॥ पुलस्त्येन समाख्यांत नारदाय महात्मने ॥१७॥
ततो नारदतः प्राप्तं व्यासेन सुमहात्मना ॥ व्यासात्तु लब्धवांश्वैतत्‍ तच्छिष्यो रोमहर्षणः ॥१८॥
स चाख्यास्यति विप्रेभ्यो नैमिषीयेभ्य एव च ॥ परंपराप्राप्तं पुराणं वामनं शुभम्‍ ॥१९॥
ये पठंति च शृण्वंति तेंऽपि यांति परां गतिम्‍ ॥ लिखित्वैत्पुराणं तु यः शरद्विषुवेऽर्पयेत्‍ ॥२०॥
विप्राय वेदविधुषे घृतधेनुसमन्वितमः ॥ स समुद्धत्य नरकान्नयेत्स्वर्ग पितृन्स्वकान्‌ ॥२१॥
देहांते भुक्तभोगोऽसौ याति विष्णोः परं पदम्‍ ॥२२॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वामनपुराणानुक्रमणीवर्णंनं नाम पञ्चाधिकशततमोऽध्यायः ॥१०५॥

N/A

References : N/A
Last Updated : June 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP