॥ तारसारोपनिषत् ॥ शुक्ल यजुर्वेद,वैष्णव उपनिषद्
यन्नारायणतारार्थसत्यज्ञानसुखाकृति । त्रिपान्नारायणाकरं तद्ब्रह्मैवास्मि केवलम् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ ॥
बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र क्वचन गच्घ्छेत्तदेव मन्येतेति ।
इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षी भवति ।
तस्मादविमुक्तमेव निषेवेत । अविमुक्तं न विमुञ्चेत् । एवमेवैष भगवन्निति वै याज्ञवल्क्यः ॥१॥अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकम् ।
किं तारयतीति । स होवाच याज्ञवल्क्यः । ॐ नमो नारायणायेति तारकं चिदात्मकमित्युपासितव्यम् । ओमित्येकाक्षरमात्मस्वरूपम् ।
नम इति द्व्यक्षरं प्रकृतिस्वरूपम् । नारायणायेति पञ्चाक्षरं परंब्रह्मस्वरूपम् । इति य एवं वेद । सोऽमृतो भवति । ओमिति ब्रह्मा भवति ।
नकारो विष्णुर्भवति । मकारो रुद्रो भवति । नकार ईश्वरो भवति । रकारोऽण्डं विराड् भवति । यकारः पुरुषो भवति । णकारो भगवान्भवति ।
यकारः परमात्मा भवति । एतद्वै नारायणस्याष्टाक्षरं वेद परमपुरुषो भवति । अयमृग्वेदः प्रथमः पादः ॥१॥
ॐइत्येतदक्षरं परं ब्रह्म । तदेवोपासितव्यम् । एतदेव सूक्ष्माष्टाक्षरं भवति । तदेतदष्टात्मकोऽष्टधा भवति । अकारः प्रथमाक्षरो भवति ।
उकारो द्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति । बिन्दुस्तुरीयाक्षरो भवति । नादः पञ्चमाक्षरो भवति । कला षष्ठाक्षरो भवति ।
कलातीता सप्तमाक्षरो भवति । तत्परश्चाष्टमाक्षरो भवति । तारकत्त्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि । तदेवोपासितव्यम् ॥
अत्रैते श्लोका भवन्ति ॥अकारादभवद्ब्रह्मा जाम्बवानितिसंज्ञकः । उकाराक्षरसंभूत उपेन्द्रो हरिनायकः ॥१॥
मकाराक्षरसंभूतः शिवस्तु हनुमान्स्मृतः । बिन्दुरीश्वरसंज्ञस्तु शत्रुघ्नश्चक्रराट् स्वयम् ॥२॥
नादो महाप्रभुर्ज्ञेयो भरतः शङ्खनामकः । कलायाः पुरुषः साक्षाल्लक्ष्मणो धरणीधरः ॥३॥
कलातीता भगवती स्वयं सीतेति संज्ञिता । तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः ॥४॥
ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं भूतं भव्यं भविष्यद्यच्चान्यत्तत्त्वमन्त्रवर्णदेवताछन्दो ऋक्कलाशक्तिसृष्ट्यात्मकमिति ।
य एवं वेद । यजुर्वेदो द्वितीयः पादः ॥२॥
अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः परमात्मा प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्रूहि भगव इति । स होवाच याज्ञवल्क्यः ।
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानकारवाच्यो जाम्बवान्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥१॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानुकारवाच्य उपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमोनमः ॥२॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्मकारवाच्यः शिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै नमोनमः ॥३॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्बिन्दुस्वरूपः शत्रुघ्नो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥४॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपो भरतो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥५॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलास्वरूपो लक्ष्मणो भूर्भुवः सुवस्तस्मै वै नमोनमः ॥६॥
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीता भगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमोनमः ॥७॥
यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् ।
उकारवाच्य उपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः शिवस्वरूपो हनुमान् ३ बिन्दुस्वरूपः शत्रुघ्नः ४ नादस्वरूपो भरतः
५ कलास्वरूपो लक्ष्मणः ६ कलातीता भगवती सीता चित्स्वरूपा ७
ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवांस्तत्परः परमपुरुषः पुराणपुरुषोत्तमो
नित्यशुद्धबुद्धमुक्तसत्य- परमानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि भूर्भुवः सुवस्तस्मै नमोनमः ॥८॥
एतदष्टविधमन्त्रं योऽधीते सोऽग्निपूतो भवति । स वायुपूतो भवति । स आदित्यपूतो भवति । स स्थाणुपूतो भवति ।
स सर्वैर्देवैर्ज्ञातो भवति । तेनेतिहासपुराणानं रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति ।
श्रीमन्नारायणाष्टाक्षरानुस्मरणेन गायत्र्याः शतसहस्रं जप्तं भवति । प्रणवानामयुतं जप्तं भवति ।
दशपूर्वान्दशोत्तरान्पुनाति । नारायणपदमवाप्नोति य एवं वेद । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥इत्युपनिषत् ॥सामवेदस्तृतीयः पादः ॥३॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
॥ॐ शान्तिः शान्तिः शान्तिः ॥इति तारसारोपनिषत्समाप्ता ॥