संस्कृत सूची|संस्कृत साहित्य|उपनिषद| मुद्गलोपनिषत् उपनिषद बृहज्जाबालोपनिषत् जाबालदर्शनोपनिषत् कौषीतकिब्राह्मणोपनिषत् महानारायणोपनिषत् महोपनिषत् नारदपरिव्राजकोपनिषत् पैङ्गलोपनिषत् श्रीशिवोपनिषत् श्वेताश्वतरोपनिषत् सुबालोपनिषत् तेजोबिन्दूपनिषत् त्रिपाद्विभूतिमहानारायणोपनिषत् वराहोपनिषत् योगकुण्डल्युपनिषत् योगशिक्षोपनिषद् आरुणिकोपनिषत् आत्मपूजोपनिषद् बह्वृच उपनिषत् ब्रह्मबिन्दूपनिषत् चाक्षुषोपनिषत् गायत्रीरहस्योपनिषत् गायत्र्युपनिषत् गोरक्ष उपनिषत् जाबाल्युपनिषत् कैवल्योपनिषत् कालाग्निरुद्रोपनिषत् कलिसन्तरन कौलोपनिषत् क्षुरिकोपनिषत् कुण्डिकोपनिषत् मैत्रेय्युपनिषत् मुक्तिका उपनिषद् पञ्चब्रह्मोपनिषत् परमहंस-परिव्राजक प्राणाग्निहोत्रोपनिषत् रुद्रहृदयोपनिषत् श्रीरामकृष्ण परमहंसोपनिषदं रुद्राक्षजाबालोपनिषत् याज्ञिक्युपनिषद् भस्मजाबालोपनिषत् भिक्षुकोपनिषत् ब्रह्मबिन्दु दत्तात्रेयोपनिषत् मन्त्रिकोपनिषत् मुद्गलोपनिषत् मुक्तिकोपनिषत् नारायणोपनिषद् रुद्रहृदयोपनिषत् रुद्राक्षजाबालोपनिषत् सामरहस्योपनिषत् संन्यासोपनिषत् सर्वसारोपनिषत् सावित्र्युपनिषत् शाण्डिल्योपनिषत् शरभोपनिषत् शाट्यायनीयोपनिषत् शुकरहस्योपनिषत् स्कन्दोपनिषत् सूर्योपनिषत् वज्रसूचिका उपनिषद् वास्तुसूत्रोपनिषद् वासुदेवोपनिषत् योगचूडामण्युपनिषत् योगतत्त्वोपनिषत् त्रिशिखिब्राह्मणोपनिषत् अक्षमालिकोपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषद् अमृत-बिन्दु उपनिषद् अमृतनादोपनिषत् अवधूतोपनिषत् अव्यक्तोपनिषत् आत्मोपनिषत् आरुणेयोपनिषद् आर्षेयोपनिषत् इतिहासोपनिषत् ईशावास्योपनिषद्भाष्यम् एकाक्शरोपनिश्हत् कठरुद्रोपनिषत् कलिसन्तरणोपनिषत् गरुडोपनिषत् गर्भोपनिषद् गणपत्यथर्वशीर्षोपनिषत् तारसारोपनिषत् त्रिपुरातापिन्युपनिषत् दक्षिणामूर्त्युपनिषत् देवी उपनिषत् नादबिन्दूपनिषत् निरालम्बोपनिषत् निरुक्तोपनिषत् निर्वाणोपनिषत् पञ्चब्रह्मोपनिषत् पाशुपतब्रह्मोपनिषत् प्रणवोपनिषत् बह्वृचोपनिषत् ब्रह्मविद्योपनिषत् ब्रह्मोपनिषद् याज्ञवल्क्योपनिषत् सीतोपनिषत् सौभाग्यलक्ष्म्युपनिषत् हयग्रीवोपनिषत् अन्नपूर्णोपनिषत् आत्मबोधोपनिषत् ऐतरेयोपनिषद् कृष्णोपनिषत् कौषीतकिब्राह्मणोपनिषत् गोपालतापिन्युपनिषत् गोपालोत्तरतापिन्युपनिषद तैत्तरीयोपनिषद्भाष्यम् ब्राहृनन्दवल्ली भृगुवल्ली नारायणपूर्वतापिनीयोपनिषत् नारायणोत्तरतापिनीयोपनिषत् नारायणोपनिषद् नृसिंहतापिन्युपनिषत् नृसिंहोत्तरतापिन्युपनिषत् सरस्वतीरहस्योपनिषत् सुबालोपनिषत् ईशोपनिषत् केन उपनिषद् कठोपनिषत् प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् तैत्तिरीयोपनिषत् ऐतरेय उपनिषत् छान्दोग्योऽपनिषद् ब्रह्मोद्पनिष जाबालोपनिषत् हंसोपनिषत् योग-कुण्डलिनि उपनिषद् सर्वसारोपनिषत् रामरहस्योपनिषत् रामतापिन्युपनिषत् वासुदेवोपनिषत् शाण्डिल्योपनिषत् शारीरकोपनिषत् योगशिखोपनिषत् संन्यासोपनिषत् सावित्र्युपनिषद् मैत्रायण्युपनिषत् मुद्गलोपनिषत् महावाक्योपनिषत् महानारायणोपनिषत् मन्त्रिकोपनिषत् मण्डलब्राह्मणोपनिषत् भिक्षुकोपनिषत् भावोपनिषत् बृहज्जाबालोपनिषत् पैङ्गलोपनिषत् सुबालोपनिषत् आरुणिकोपनिषत् बह्वृच उपनिषत् सरस्वतीरहस्योपनिषत् गरुडोपनिषत् श्वेताश्वतरोपनिषत् दत्तात्रेयोपनिषत् हयग्रीवोपनिषत् शाट्यायनीयोपनिषत् वराहोपनिषत् याज्ञवल्क्योपनिषत् कृष्णोपनिषत् मैत्रेय्युपनिषत् नृसिंहतापिन्युपनिषत् गोपालतापिन्युपनिषत् वज्रसूचिका उपनिषद् शरभोपनिषत् आत्मबोधोपनिषत् त्रिशिखिब्राह्मणोपनिषत् नादबिन्दूपनिषत् ब्रह्मविद्योपनिषत् योगतत्त्वोपनिषत् दक्षिणामूर्त्युपनिषत् ध्यानबिन्दूपनिषत् योगचूडामण्युपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषत् अध्यात्मोपनिषत् अमृतनादोपनिषत् अमृतबिन्दु उपनिषद् तेजोबिन्दूपनिषत् पाशुपतब्रह्मोपनिषत् परमहंसोपनिषत् परब्रह्मोपनिषत् निर्वाणोपनिषत् देवी उपनिषत् त्रिपुरोपनिषत् निरालम्बोपनिषत् तुरीयातीतोपनिषत् तारसारोपनिषत् गर्भोपनिषत् गणपत्युपनिषत् क्षुरिकोपनिषत् कौषीतकिब्राह्मणोपनिषत् कठरुद्रोपनिषत् एकाक्षरोपनिषत् अव्यक्तोपनिषत् अवधूतोपनिषत् अन्नपूर्णोपनिषत् अक्षमालिकोपनिषत् अद्वयतारकोपनिषत् आत्मोपनिषत् त्रिपुरातापिन्युपनिषत् मुद्गलोपनिषत् उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद मुद्गलोपनिषत् Translation - भाषांतर वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीरनेनाधीते नाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥॥प्रथम: खण्ड:॥ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामःपुरुषसंहितायां पुरुषसूक्तार्थः संग्रहेण प्रोच्यते ।सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः ।अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा ॥१॥तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता ।द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते ॥२॥विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया ।एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥३॥एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः ।त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् ॥४॥तस्माद्विराडित्यनया पादनारायणाद्धरेः ।प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ॥५॥यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः ।सप्तास्यासन्परिधयः समिधश्च समीरिताः ॥६॥तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः ।अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः ॥७॥तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता ।वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥८॥यज्ञेनेत्युपसंहारः सृष्टेर्मोक्षस्य चेरितः ।य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥९॥॥द्वितिय: खण्ड:॥अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् ।वासुदेव इन्द्राय भगवज्ज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परमरहस्यभूतं पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् ॥१॥द्वौ खण्डावुच्येते ।योऽय मुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं विषयं विहाय क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदं वेषमाददे ।तेन वेषेण भूम्यादिलोकं व्याप्यानन्तयोजनमत्यतिष्ठत् ॥२॥पुरुषो नारायणो भूतं भव्यं भविष्यच्चासीत् ।स एष सर्वेषा मोक्षदस्चासीत् ।स च सर्वस्मान्महिम्नो ज्यायान् ।तस्मान्न कोऽपि ज्यायान् ॥३॥महापुरुष आत्मानं चतुर्धा कृत्वा त्रिपादेन परमे व्योम्नि चासीत् ।इतरेण चतुर्थेनानिरुद्धनारायणेन विश्वान्यासन् ॥४॥स च पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत् ।स समृद्धकायः सन्सृष्टिकर्म न जज्ञिवान् ।सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत् ।ब्रह्मंस्तवेन्द्रियाणि याजकानि ध्यात्वा कोशभूतं दृढं ग्रन्थिकलेवरं हविर्ध्यात्वा मां हविर्भुजं ध्यात्वा वसन्तकालमाज्यं ध्यात्वा ग्रीष्ममिध्मं ध्यात्वा शरदृतुं रसं ध्यात्वैवमग्नौ हुत्वाङ्गस्पर्शात्कलेवरो वज्रं हीष्यते ।ततः स्वकार्यान्सर्वप्राणिजीवान्सृष्ट्वा पश्वाद्याः प्रादुर्भविष्यन्ति ।ततः स्थावरजङ्गमात्मकं जगद्भविष्यति ॥५॥एतेन जीवात्मनोर्योगेन मोक्षप्रकारश्च कथित इत्यनुसन्धेयम् ॥६॥य इमं सृष्टियज्ञं जानाति मोक्षप्रकारं च सर्वमायुरेति ॥७॥॥तृतीय: खण्ड:॥एको देवो बहुधा निविष्ट अजायमानो बहुधा विजायते ॥१॥तमेतमग्निरित्यध्वर्यव उपासते ।यजुरित्येष हीदं सर्वं युनक्ति ।सामेति छ्न्दोगाः ।एतस्मिन्हीदं सर्वं प्रतिष्ठितम् ।विषमिति सर्पाः ।सर्प इति सर्पविदः ।ऊर्गिति देवाः ।रयिरिति मनुष्याः ।मायेत्यसुराः ।स्वधेति पितरः ।देवजन इति देवजनविदः ।रूपमिति गन्धर्वाः ।गन्धर्व इत्यप्सरसः ॥२॥तं यथायथोपासते तथैव भवति ।तस्माद्ब्राह्मणः पुरुषरूपं परंब्रह्मैवाहमिति भावयेत् ।तद्रूपो भवति ।य एवं वेद३॥॥चतुर्थ: खण्ड:॥तद्ब्रह्म तापत्रयातीतं षट्कोशविनिर्मुक्तं षडूर्मिवर्जितं पञ्चकोशातीतं षड्भावविकारशून्यमेवमादि सर्वविलक्षणं भवति ॥१॥तापत्रयं त्वाध्यात्मिकाधिभौतिकाधिदैविकं कर्तृकर्मकार्यज्ञातृज्ञानज्ञेय भोक्तृभोगभोग्यमिति त्रिविधम् ॥२॥त्वङ्मांसशोणितास्थि स्नायुमज्जाः षट्कोशाः ॥३॥कामक्रोधलोभमोहमदमात्सर्यमित्यरिषड्वर्गः ॥४॥अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इति पञ्चकोशाः ॥५॥प्रियात्मजननवर्धनपरिणामक्षयनाशाः षड्भावाः ॥६॥अशनायापिपासाशोकमोहजरामरणानीति षडूर्मयः ॥७॥कुलगोत्रजातिवर्णाश्रमरूपाणि षड्भ्रमाः ॥८॥एतद्योगेन परमपुरुषो जीवो भवति नान्यः ॥९॥य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति ।स वायुपूतो भवति ।स आदित्यपूतो भवति ।अरोगी भवति ।श्रीमांश्च भवति ।पुत्रपौत्रादिभिः समृद्धो भवति ।विद्वांश्च भवति ।महापातकात्पूतो भवति ।सुरापानात्पूतो भवति ।अगम्यागमनात्पूतो भवति ।मातृगमनात्पूतो भवति ।दुहितृस्नुषाभिगमनात्पूतो भवति ।स्वर्णस्तेयात्पूतो भवति ।वेदिजन्महानात्पूतो भवति ।गुरोरशुश्रूषणात्पूतो भवति ।अयाज्ययाजनात्पूतो भवति ।अभक्ष्यभक्षणात्पूतो भवति ।उग्रप्रतिग्रहात्पूतो भवति ।परदारगमनात्पूतो भवति ।कामक्रोधलोभमोहेर्ष्यादिभिरबाधितो भवति ।सर्वेभ्यः पापेभ्यो मुक्तो भवति ।इह जन्मनि पुरुषो भवति ॥१०॥तस्मादेत त्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षितायोपदिशेत् ।नानूचानाय ।नायज्ञशीलाय ।नावैष्णवाय ।नायोगिने ।न बहुभाषिणे ।नाप्रियवादिने ।नासंवत्सरवेदिने ।नातुष्टाय ।नानधीतवेदायोपदिशेत् ॥११॥गुरुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन्नुपसन्नाय शिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् ।न बहुशो वदेत् ।यातयामो भवति ।असकृत्कर्णमुपदिशेत् ।एतत्कुर्वाणोऽध्येताध्यापकश्च इह जन्मनि पुरुषो भवतीत्युपनिषत् ॥१२॥ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित माविरावीर्म एधि ॥वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥ॐ शान्तिः शान्तिः शान्तिः ॥॥इति मुद्गलोपनिषत्समाप्ता॥ N/A References : N/A Last Updated : February 26, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP