संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
जाबालोपनिषत्

जाबालोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ जाबालोपनिषत् ॥ शुक्ल यजुर्वेद,संन्यास उपनिषद्

जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् ।

वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं

देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।

अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां

भूतानां ब्रह्मसदनम् ।

तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव ।

इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां

भूतानां ब्रह्मसदनम् ॥

अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म

व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति

तस्मादविमुक्तमेव निषेवेत अविमुक्तं न

विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः ॥१॥

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त

आत्मा तं कथमहं विजानीयामिति ॥

स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य

एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ॥

सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति ।

वरणायां नाश्यां चमध्ये प्रतिष्ठित इति ॥

का वै वरणा का च नाशीति ।

सर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति ॥

सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति ॥

कतमं चास्य स्थानं भवतीति ।

भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति ।

एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ।

सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे ।

यो वैतदेवं वेदेति ॥२॥

अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति ॥

स होवाच याज्ञवल्क्यः ।

शतरुद्रियेणेत्येतान्येव ह वा अमृतस्य नामानि ॥

एतैर्ह वा अमृतो भवतीति एवमेवैतद्याज्ञवल्क्यः ॥३॥

अथ हैनं जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच

भगवन्संन्यासं ब्रूहीति । स होवाच याज्ञवल्क्यः ।

ब्रह्मचर्यं परिसमाप्य गृही भवेत् ।

गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजेत् ।

यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ॥

अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको

वोत्सन्नग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ।

तद्धैके प्राजापत्यामेवेष्टि, न् कुर्वन्ति ।

तदु तथा न कुर्यादाग्नेयीमेव कुर्यात् ॥

अग्निर्ह वै प्राणः प्राणमेव तथा करोति ॥

त्रैधातवीयामेव कुर्यात् ।

एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति ॥

अयं ते योनिरृत्विजो यतो जातः प्राणादरोचथाः ।

तं प्राणं जानन्नग्न आरोहाथा नो वर्धय रयिम् ।

इत्यनेन मन्त्रेणाग्निमाजिघ्रेत् ॥

एष ह वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ

स्वाहेत्येवमेवैतदाह ॥

ग्रामादग्निमाहृत्य पूर्वदग्निमाघ्रापयेत् ॥

यद्यग्निं न विन्देदप्सु जुहुयात् । आपो वै सर्वा देवताः

सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोधृत्य

प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रः त्रय्यैवं वदेत् ।

एतद्ब्रह्मैतदुपासितव्यम् ।

एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः ॥४॥

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं पृच्छामि त्वा

याज्ञवल्क्य अयज्ञोपवीति कथं ब्राह्मण इति ।

स होवाचयाज्ञवल्क्यः ।

इदमेवास्य तद्यज्ञोपवीतं य आत्मापः

प्राश्याचम्यायं विधिः परिव्राजकानाम् ।

वीराध्वाने वा अनाशके वा अपां प्रवेशे वा

अग्निप्रवेशे वा महाप्रस्थाने वा ।

अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही

भैक्षणो ब्रह्मभूयाय भवतीति ।

यद्यातुरः स्यान्मनसा वाचा संन्यसेत् ।

एष पन्था ब्रह्मणा हानुवित्तस्तेनैति

संन्यासी ब्रह्मविदित्येवमेवैष भगवन्याज्ञवल्क्य ॥५॥

तत्र

परमहंसानामसंवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजड

भरतदत्तात्रेयरैवतक-

प्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता

उन्मत्तवदाचरन्तस्त्रिदण्डं कमण्डलुं शिक्यं पात्रं

जलपवित्रं शिखां यज्ञोपवीतं च इत्येतत्सर्वं

भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ॥

यथा जातरूपधरो निर्ग्रन्थो निष्परिग्रहस्तत्तद्ब्रह्ममार्गे

सम्यक्संपन्नः शुद्धमानसः प्राणसन्धारणार्थं

यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण

लाभालाभयोः समो भूत्वा

शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्

निहोत्रगृहनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिलेषु

तेष्वनिकेतवास्य प्रयत्नो निर्ममः

शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्म-

निर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो

नाम परमहंसो नामेति ॥६॥

ॐ पूर्णमद इति शातिः ॥

इत्यथर्ववेदीया जाबालोपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP