संस्कृत सूची|संस्कृत स्तोत्र साहित्य|उपनिषद| भृगुवल्ली उपनिषद बृहज्जाबालोपनिषत् जाबालदर्शनोपनिषत् कौषीतकिब्राह्मणोपनिषत् महानारायणोपनिषत् महोपनिषत् नारदपरिव्राजकोपनिषत् पैङ्गलोपनिषत् श्रीशिवोपनिषत् श्वेताश्वतरोपनिषत् सुबालोपनिषत् तेजोबिन्दूपनिषत् त्रिपाद्विभूतिमहानारायणोपनिषत् वराहोपनिषत् योगकुण्डल्युपनिषत् योगशिक्षोपनिषद् आरुणिकोपनिषत् आत्मपूजोपनिषद् बह्वृच उपनिषत् ब्रह्मबिन्दूपनिषत् चाक्षुषोपनिषत् गायत्रीरहस्योपनिषत् गायत्र्युपनिषत् गोरक्ष उपनिषत् जाबाल्युपनिषत् कैवल्योपनिषत् कालाग्निरुद्रोपनिषत् कलिसन्तरन कौलोपनिषत् क्षुरिकोपनिषत् कुण्डिकोपनिषत् मैत्रेय्युपनिषत् मुक्तिका उपनिषद् पञ्चब्रह्मोपनिषत् परमहंस-परिव्राजक प्राणाग्निहोत्रोपनिषत् रुद्रहृदयोपनिषत् श्रीरामकृष्ण परमहंसोपनिषदं रुद्राक्षजाबालोपनिषत् याज्ञिक्युपनिषद् भस्मजाबालोपनिषत् भिक्षुकोपनिषत् ब्रह्मबिन्दु दत्तात्रेयोपनिषत् मन्त्रिकोपनिषत् मुद्गलोपनिषत् मुक्तिकोपनिषत् नारायणोपनिषद् रुद्रहृदयोपनिषत् रुद्राक्षजाबालोपनिषत् सामरहस्योपनिषत् संन्यासोपनिषत् सर्वसारोपनिषत् सावित्र्युपनिषत् शाण्डिल्योपनिषत् शरभोपनिषत् शाट्यायनीयोपनिषत् शुकरहस्योपनिषत् स्कन्दोपनिषत् सूर्योपनिषत् वज्रसूचिका उपनिषद् वास्तुसूत्रोपनिषद् वासुदेवोपनिषत् योगचूडामण्युपनिषत् योगतत्त्वोपनिषत् त्रिशिखिब्राह्मणोपनिषत् अक्षमालिकोपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषद् अमृत-बिन्दु उपनिषद् अमृतनादोपनिषत् अवधूतोपनिषत् अव्यक्तोपनिषत् आत्मोपनिषत् आरुणेयोपनिषद् आर्षेयोपनिषत् इतिहासोपनिषत् ईशावास्योपनिषद्भाष्यम् एकाक्शरोपनिश्हत् कठरुद्रोपनिषत् कलिसन्तरणोपनिषत् गरुडोपनिषत् गर्भोपनिषद् गणपत्यथर्वशीर्षोपनिषत् तारसारोपनिषत् त्रिपुरातापिन्युपनिषत् दक्षिणामूर्त्युपनिषत् देवी उपनिषत् नादबिन्दूपनिषत् निरालम्बोपनिषत् निरुक्तोपनिषत् निर्वाणोपनिषत् पञ्चब्रह्मोपनिषत् पाशुपतब्रह्मोपनिषत् प्रणवोपनिषत् बह्वृचोपनिषत् ब्रह्मविद्योपनिषत् ब्रह्मोपनिषद् याज्ञवल्क्योपनिषत् सीतोपनिषत् सौभाग्यलक्ष्म्युपनिषत् हयग्रीवोपनिषत् अन्नपूर्णोपनिषत् आत्मबोधोपनिषत् ऐतरेयोपनिषद् कृष्णोपनिषत् कौषीतकिब्राह्मणोपनिषत् गोपालतापिन्युपनिषत् गोपालोत्तरतापिन्युपनिषद तैत्तरीयोपनिषद्भाष्यम् ब्राहृनन्दवल्ली भृगुवल्ली नारायणपूर्वतापिनीयोपनिषत् नारायणोत्तरतापिनीयोपनिषत् नारायणोपनिषद् नृसिंहतापिन्युपनिषत् नृसिंहोत्तरतापिन्युपनिषत् सरस्वतीरहस्योपनिषत् सुबालोपनिषत् ईशोपनिषत् केन उपनिषद् कठोपनिषत् प्रश्नोपनिषत् मुण्डकोपनिषत् माण्डुक्योपनिषत् तैत्तिरीयोपनिषत् ऐतरेय उपनिषत् छान्दोग्योऽपनिषद् ब्रह्मोद्पनिष जाबालोपनिषत् हंसोपनिषत् योग-कुण्डलिनि उपनिषद् सर्वसारोपनिषत् रामरहस्योपनिषत् रामतापिन्युपनिषत् वासुदेवोपनिषत् शाण्डिल्योपनिषत् शारीरकोपनिषत् योगशिखोपनिषत् संन्यासोपनिषत् सावित्र्युपनिषद् मैत्रायण्युपनिषत् मुद्गलोपनिषत् महावाक्योपनिषत् महानारायणोपनिषत् मन्त्रिकोपनिषत् मण्डलब्राह्मणोपनिषत् भिक्षुकोपनिषत् भावोपनिषत् बृहज्जाबालोपनिषत् पैङ्गलोपनिषत् सुबालोपनिषत् आरुणिकोपनिषत् बह्वृच उपनिषत् सरस्वतीरहस्योपनिषत् गरुडोपनिषत् श्वेताश्वतरोपनिषत् दत्तात्रेयोपनिषत् हयग्रीवोपनिषत् शाट्यायनीयोपनिषत् वराहोपनिषत् याज्ञवल्क्योपनिषत् कृष्णोपनिषत् मैत्रेय्युपनिषत् नृसिंहतापिन्युपनिषत् गोपालतापिन्युपनिषत् वज्रसूचिका उपनिषद् शरभोपनिषत् आत्मबोधोपनिषत् त्रिशिखिब्राह्मणोपनिषत् नादबिन्दूपनिषत् ब्रह्मविद्योपनिषत् योगतत्त्वोपनिषत् दक्षिणामूर्त्युपनिषत् ध्यानबिन्दूपनिषत् योगचूडामण्युपनिषत् अक्ष्युपनिषत् अथर्वशिखोपनिषत् अथर्वशिरउपनिषत् अध्यात्मोपनिषत् अमृतनादोपनिषत् अमृतबिन्दु उपनिषद् तेजोबिन्दूपनिषत् पाशुपतब्रह्मोपनिषत् परमहंसोपनिषत् परब्रह्मोपनिषत् निर्वाणोपनिषत् देवी उपनिषत् त्रिपुरोपनिषत् निरालम्बोपनिषत् तुरीयातीतोपनिषत् तारसारोपनिषत् गर्भोपनिषत् गणपत्युपनिषत् क्षुरिकोपनिषत् कौषीतकिब्राह्मणोपनिषत् कठरुद्रोपनिषत् एकाक्षरोपनिषत् अव्यक्तोपनिषत् अवधूतोपनिषत् अन्नपूर्णोपनिषत् अक्षमालिकोपनिषत् अद्वयतारकोपनिषत् आत्मोपनिषत् त्रिपुरातापिन्युपनिषत् भृगुवल्ली आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic wisdom. Tags : sanskritupanishadvedउपनिषदवेदसंस्कृत भृगुवल्ली Translation - भाषांतर प्रथम अनुवाकसत्यं ज्ञानमनन्तं ब्राहृाकाशादिकार्यमन्नमयान्तं सृष्ट्वा तदेवानुप्रविष्टं विशेषवदिवोपलभ्यमानं यस्मात्तस्मात्सर्वकार्यविलक्षणमदृश्यादिधर्मकमेवानन्दं तदेवाहमिति विजानीयादनुप्रवेशस्य तदर्थत्वात्तस्यैवे विजानतः शुभाशुभे कर्मणी जन्मान्तरारम्भके न भवत इत्येवमानन्दवल्ल्यां विवक्षितोऽर्थः परिसमाप्ता च ब्राहृविद्या। अतः परं ब्राहृविद्यासाधनं तपो वक्तव्यमन्नादिविषयाणि चोपासनान्यनुक्तानीत्यत इदमारभ्यते।भृर्गुर्वै वारुणिः वरुणं पितरमुपससार अधीहि भगवो ब्राहृेति। तस्मा एतत्प्रोवाच। अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति। तँ#्होवाच। यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्राहृेति। स तपोऽतप्यत। स तपस्तप्त्वा ॥१॥आख्यायिका विद्यास्तुतये। प्रियाय पुत्राय पुत्रोक्तेति। भृगुर्वै वारुणिः। वै शब्दः प्रसिद्धानुस्मारको भृगुरित्येवंनामा प्रसिद्धोऽनुस्मार्यते वारुणिर्वरुणस्यापत्यं वारुणिर्वरुणं पितरं ब्राहृ विजिज्ञासुरुपससारोपगतवान्, अधीहि भगवो ब्राहृेत्यनेन मन्त्रेण। अधीहि अध्यापय कथय। स च पिता विधिवदुपसन्नाय तस्मै पुत्रायैतद्वचनं प्रोवाच। अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति।अन्नं शरीरं तदभ्यन्तरं च प्राणमत्तारमुपलब्धिसाधनानि चक्षुः श्रोत्रं मनो वाचमित्येतानि ब्राहृोपलब्धौ द्वाराण्युक्तवान्। उक्त्वा च द्वारभूतान्येतान्यन्नादीनि तं भृगुं होवाच ब्राहृणो लक्षणम्। किं तत्?अन्नं यस्माद्वा इमानि ब्राहृादीनि स्तम्बपर्यन्तानि भूतानि जायन्ते। येन जातानि जीवन्ति प्राणान्धारयन्ति वर्धन्ते। विनाशकाले च यत्प्रयन्ति यद्ब्राहृ प्रतिगच्छन्ति, अभिसंविशन्ति तादात्म्यमेव प्रतिपाद्यन्ते। उत्पत्तिस्थितिलयकालेषु यदात्मतां न जहति भूतानि तदेतद्ब्राहृणो लक्षणम्। तद्ब्राहृ विजिज्ञासस्व विशेषेण ज्ञातुमिच्छस्व। यदेवंलक्षणं ब्राहृ तदन्नादिद्वारेण प्रतिपद्यस्वेत्यर्थः। श्रुत्यन्तरं च - "प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुस्ते निचिक्युब्र्राहृ पुराणमग्र्यम्"(बृ.उ.४।४।१८) इति ब्राहृोपलब्धौ द्वाराण्येतानीति दर्शयति।स भृगुब्र्राहृोपलब्धिद्वाराणि ब्राहृलक्षणं च श्रुत्वा पितुस्तपो ब्राहृोपलब्धिसाधनत्वेनातप्यत तप्तवान्। कुतः पुनरनुपदिष्टस्यैव तपसः साधनत्वप्रतिपत्तिर्भृगोः?सावशेषोक्तेः। अन्नादि ब्राहृणः प्रतिपत्तौ द्वारं लक्षणं च यतो वाइमानीत्याद्युक्तवान्। सावशेषं हि तत्साक्षाद् ब्राहृणोऽनिर्देशात्।अन्यथा हि स्वरूपेणैव ब्राहृ निर्देष्टव्यं जिज्ञासवे पुत्रायेदमित्थंरूपं ब्राहृेति। न चैवं निरदिशÏत्क तर्हि?सावशेषमेवोक्तवान्। अतोऽवगम्यते नूनं साधनान्तरमप्यपेक्षते पिता ब्राहृ विज्ञानं प्रतीति। तपोविशेषप्रतिपत्तिस्तु सर्वसाधकतमत्वात्। सर्वेषां हि नियतसाध्यविषयाणां साधनानां तपएव साधकतमं साधनमिति हि प्रसिद्धं लोके। तस्मात्पित्रानुपदिष्टमपि ब्राहृविज्ञानसाधनत्वेन तपः प्रतिपेदे भृगुः। तच्च तपो बाह्रान्तः - करणसमाधानं तद्द्वारकत्वाद्ब्राहृप्रतिपत्तेः। "मनसश्चेन्द्रियाणां च ह्रैकाग्र्यं परमं तपः। तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते"(महा.शा.२५।४) इति स्मृतेः। स च तपस्तप्त्वा ॥१॥इति भृगुवल्ल्यां प्रथमोऽनुवाकः ॥१॥===============द्वितीय अनुवाकअन्नं ब्राहृेति व्यजानात्। अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते। अन्नेन जातानि जीवन्ति। अन्नं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्राहृेति। तँ #् होवाच। तपसा ब्राहृ विजिज्ञासस्व। तपो ब्राहृेति। स तपस्तप्त्वा ॥१॥अन्नं ब्राहृेति व्यजानाद्विज्ञातवान् तद्धि यथोक्तलक्षणोपेतम्। कथम्?अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते;अन्नेन जातानि जीवन्ति अन्नं प्रयन्त्यभिसंविशन्तीति तस्माद्युक्तमन्नस्य ब्राहृत्वमित्यभिप्रायः। स एवं तपस्तप्त्वान्नं ब्राहृेति विज्ञायान्नलक्षणेनोपपत्त्या च पुनरेव संशयमापन्नो वरुणं पितरमुपससार अधीहि भगवो ब्राहृेति।कः पुनः संशयहेतुरस्येत्युच्यते - अन्नस्योत्पत्तिदर्शनात्। तपसः पुनः पुनरुपदेशः साधनातिशयत्वावधारणार्थः। यावद्ब्राहृणो लक्षणं निरतिशयं न भवति यावच्च जिज्ञासा न निवर्तते तावत्तप एव ते साधनम्। तपसैव ब्राहृ विजिज्ञासस्वेत्यर्थः। ऋज्वन्यत् ॥१॥इति भृगुवल्ल्यां द्वितीयोऽनुवाकः ॥२॥=================तृतीय अनुवाकप्राणो ब्राहृेति व्यजानात्। प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते। प्राणेन जातानि जीवन्ति। प्राणं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्राहृेति। तँ#्होवाच। तपसा ब्राहृ विजिज्ञासस्व। तपो ब्राहृेति स तपोऽतप्यत। स तपस्तप्त्वा ॥१॥इति भृगुवल्ल्यां तृतीयोऽनुवाक ॥३॥=================चतुर्थ अनुवाकमनो ब्राहृेति व्यजानात्। मनसो ह्रेव खल्विमानि भूतानि जायन्ते। मनसा जातानि जीवन्ति। मनः प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्राहृेति। तँ#्होवाच। तपसा ब्राहृ विजिज्ञासस्व। तपो ब्राहृेति। स तपोऽतप्यत। स तपस्तप्त्वा ॥१॥इति भृगुवल्ल्यां चतुर्थोऽनुवाक ॥४॥==================पञ्चम अनुवाकविज्ञानं ब्राहृेति व्यजानात्। विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते। विज्ञानेन जातानि जीवन्ति। विज्ञानं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्राहृेति। तँ#्होवाच। तपसा ब्राहृ विजिज्ञासस्व। तपो ब्राहृेति स तपोऽतप्यत। स तपस्तप्त्वा ॥१॥इति भृगुवल्ल्यां पञ्चमोऽनुवाक ॥५॥=================षष्ठ अनुवाकआनन्दो ब्राहृेति व्यजानात्। आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति। आनन्दं प्रयन्त्यभिसंविशन्तीति। सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता। स य एवं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान् भवति प्रजया पशुभिब्र्राहृवर्चसेन। महान् कीत्र्या ॥१॥एवं तपसा विशुद्धात्मा प्राणादिषु साकल्येन ब्राहृलक्षणमपश्यञ्शनैःशनैरन्तरनुप्रविश्यान्तरतममानन्दं ब्राहृ विज्ञातवांस्तपसैव साधनेन भृगुः। तस्माद्ब्राहृविजिज्ञासुना बाह्रान्तः करणसमाधानलक्षणं परमं तपःसाधनमनुष्ठेयमिति प्रकरणार्थः।अधुनाख्यायिकातोऽपसृत्य श्रुतिः स्वेन वचनेनाख्यायिका निर्वत्र्यमर्थमाचष्टे- सैषा भार्गवी भृगुणा विदिता वरुणेन प्रोक्ता वारुणी विद्या परमे व्योमन्ह्मदयाकाशगुहायां परम आनन्देऽद्वैते प्रतिष्ठिता परिसमाप्तान्नमयादात्मनोऽधिप्रवृत्ता। य एव मन्योऽपि तपसैव साधनेनानेनैव क्रमेणानुप्रविश्यानन्दं ब्राहृ वेद स एवं विद्याप्रतिष्ठानात्प्रतितिष्ठत्यानन्दे परमे ब्राहृणि, ब्राहृैव भवतीत्यर्थः।दृष्टं च फलं तस्योच्यते - अन्नवान्प्रभूतमन्नमस्य विद्यत इत्यन्नवान्। सत्तामात्रेण तु सर्वो ह्रन्नवानिति विद्यया विशेषो न स्यात्। एवमन्नमत्तीत्यन्नादौ दीप्ताग्निर्भवतीत्यर्थः। महान्भवति। केन महत्त्वमित्यत आह - प्रजया पुत्रादिना पशुर्भिगवाश्वादिभिब्र्राहृवर्चसेन शमदमज्ञानादिनिमित्तेन तेजसा महान्भवति कीत्र्या ख्यात्या शुभप्रचारनिमित्तया ॥१॥इति भृगुवल्ल्यां षष्ठोऽनुवाकः ॥६॥===============सप्तम अनुवाकअन्नं न निन्द्यात्। तद्व्रतम्। प्राणो वा अन्नम्। शरीरमन्नादम्। प्राणे शरीरं प्रतिष्ठितम्। शरीरे प्राणः प्रतिष्ठितः। तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान् भवति प्रजया पशुभिब्र्राहृवर्चसेन। महान्कीत्र्या ॥१॥किं चान्नेन द्वारभूतेन ब्राहृ विज्ञातं यस्मात्तस्माद्गुरुमिव अन्नं न निन्द्यात्तदस्यैवं ब्राहृविदो व्रतमुपदिश्यते। व्रतोपदेशोऽन्नस्तुतये, स्तुतिभाक्त्वं चान्नस्य ब्राहृोपलब्ध्युपायत्वात्।प्राणो वा अन्नम्, शरीरान्तर्भावात्प्राणस्य। यद्यस्यान्तः प्रतिष्ठितं भवति तत्तस्यान्नं भवतीति। शरीरे च प्राणः प्रतिष्ठितस्तस्मात्प्रणोऽन्नं शरीरमन्नादम्। तथा शरीरमप्यन्नं प्रणोऽन्नादः। कस्मात्?प्राणे शरीरं प्रतिष्ठितम्, तन्निमित्तत्वाच्छरीरस्थितेः। तस्मात्तदेतदुभयं शरीरं प्राणश्चन्नमन्नादश्च। येनान्योन्यस्मिन्प्रतिष्ठितं तेनान्नम्। येनान्योन्यस्य प्रतिष्ठा तेनान्नादः। तस्मात्प्राणः शरीरंचोभयमन्नमन्नादं च।स य एवमेतदन्नमन्ने प्रतिष्ठितं वेदप्रतितिष्ठत्यन्नान्नादात्मनैव। किं चान्नवानन्नादौ भवतीत्यादि पूर्ववत् ॥१॥इति भृगुवल्ल्यां सप्तमोऽनुवाक ॥७॥===================अष्टम अनुवाकअन्नं न परिचक्षीत। तद्व्रतम्। आपो वा अन्नम्। ज्योतिरन्नादम्। अप्सु ज्योतिः प्रतिष्ठितम्। ज्योतिष्यापः प्रतिष्ठिताः। तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान् भवति प्रजया पशुभिब्र्राहृवर्चसेन। महान्कीत्र्या ॥१॥अन्नं न परिचक्षीत न परिहरेत्। तद्व्रतं पूर्ववत्स्तुत्यर्थम्। तदेवं शुभाशुभकल्पनया अपरिह्यियमाणं स्तुतंमहीकृतमन्नं स्यात्। एवं यथोक्तमुत्तरेष्वप्यापो वा अन्नमित्यादिषु योजयेत् ॥१॥इति भृगुवल्ल्यामष्टमोऽनुवाक ॥८॥===================नवम अनुवाकअन्नं बहु कुर्वीत। तद्व्रतम्। पृथिवी वा अन्नम्। आकाशोऽन्नादः। पृथिव्यामाकाशः प्रतिष्ठितः।आकाशे पृथिवी प्रतिष्ठिता। तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान्भवति प्रजया पशुभिब्र्राहृवर्चसेन। महान्कीत्र्या ॥१॥अप्सु ज्योतिरित्यब्ज्योतिषोरन्नान्नादगुणत्वेनोपासकस्यान्नस्य बहुकरणं व्रतम् ॥१॥इति भृगुवल्ल्यां नवमेऽनुवाक ॥४॥======================दशम अनुवाकन कंचन वसतौ प्रत्याचक्षीत। तद्व्रतम्। तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात्। आराध्यस्मा अन्नमित्याचक्षते। एतद्वै मुखतोऽन्नँ#्राद्धम्। मुखतोऽस्मा अन्नँ#्राध्यते। एतद्वै मध्यतोऽन्नँ#्राद्धम्। मध्यदोऽस्मा अन्नँराध्यते। एतद्वा अन्ततोऽन्नँ#्राद्धम्। अन्ततोऽस्म अन्नँ#्राध्यते ॥१॥य एवं वेद। क्षेम इति वाचि। योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः। गतिरिति पादयोः। विमुक्तिरिव पायौ। इति मानुषीः समाज्ञाः। अथ दैवीः। तृप्तिरिति वृष्टौ। बलमिति विद्युति ॥२॥यश इति पशुषु। ज्योतिरिति नक्षत्रेषु। प्रजातिरमृतमानन्द इत्युपस्थे। सर्वमित्याकाशे। तत्प्रतिष्ठेत्युपासीत। प्रतिष्ठावान् भवति। तन्मह इत्युपासीत। महान् भवति। तन्मन इत्युपासीत। मानवान् भवति ॥३॥तन्नम इत्युपासीत। नम्यन्तेऽस्मै कामाः। तद्ब्राहृेत्युपासीत। ब्राहृवान् भवति। तद्ब्राहृणः परिमर इत्युपासीत। पर्येणं म्रियन्ते द्विषन्तः सपत्नाः। परियेऽप्रिया भ्रातृव्याः। स यश्चायं पुरुषे यश्चासावादित्ये स एकः ॥४॥तथा पृथिव्याकाशोपासकस्य वसतौ वसतिनिमित्तं कंचन कंचिदपि न प्रत्याचक्षीत वसत्यर्थमागतं न निवारयेदित्यर्थः। वासे च दत्तेऽवश्यं ह्रशनं दातव्यम्। तस्माद्यया कया च विधया येन केन च प्रकारेण बह्वन्नं प्राप्नुयाद्ब्ह्वन्नसंग्रहं कुर्यादित्यर्थः।यस्मादन्नवन्तो विद्वांसोऽभ्यागतायान्नार्थिनेऽराधि संसिद्धमस्मा अन्नमित्याचक्षते न नास्तीतिप्रत्याख्यानं कुर्वन्ति। तस्माच्च हेतोर्बह्वन्नं प्राप्नुयादिति पूर्वेण संबन्धः। अपि चान्नदानस्य माहात्म्यमुच्यते। यथा यत्कालं प्रयच्छत्यन्यं तथा तत्कालमेव प्रत्युपनमते। कथमिति तदेतदाह -एतद्वा अन्नं मुखतो मुख्ये प्रथमे वयसि मुख्यया वा वृत्या पूजापुरःसरमभ्यागतायान्नर्थिने राद्धं संसिद्धं प्रयच्छतीति वाक्यशेषः। तस्य किं फलं स्यादित्युच्यते - मुखतः पूर्वे वयसि मुख्यया वा वृत्यास्मा अन्नादायान्नं राध्यते यथादत्तमुपतिष्ठत इत्यर्थः। एवं मध्यतो मध्यमे वयसि मध्यमेन चोपचारेण। तथाऽन्ततोऽन्ते वयसि जघन्येन चोपचारेण परिभवेन तथैवास्मै राध्यते संसिध्यत्यन्नम्।य एवं वेद य एवमन्नस्य यथोक्तं माहात्म्यं वेद तद्दानस्य च फलम् तस्य यथोक्तं फलमुपनमते।इदानीं ब्राहृण उपासनप्रकार उच्यते - क्षेम इति वाचि। क्षेमो नामोपात्तपरिरक्षणम्। ब्राहृ वाचि क्षेमरूपेण प्रतिष्ठितमित्युपास्यम्। योगक्षेम इति, योगोऽनुपात्तस्योपादानम्, तौ हि योगक्षेमौ प्राणापानयोः सतोर्भवति यद्यपि तथापि न प्राणापाननिमित्तावेव किं तर्हि ब्राहृनिमित्तौ, तस्माद्ब्राहृ योगक्षेमात्मना प्राणापानयोः प्रतिष्ठितमित्युपास्यम्।एवमुत्तरेष्वन्येषु तेन तेनात्मना ब्राहृैवोपास्यम्। कर्मणो ब्राहृनिर्वत्र्यत्वाद्धस्तयोः कर्मात्मना ब्राहृ प्रतिष्ठितमित्युपास्यम्। गतिरिति पादयोः। विमुक्तिरिति पायौ। इत्येता मानुषीर्मनुष्येषु भवा मानुष्यः समाज्ञाः, आध्यात्मिक्यः समाज्ञा ज्ञानानि विज्ञानान्युपासनानीत्यर्थः।अथानन्तरं दैवीर्दैव्यो देवेषु भवाः समाज्ञा उच्यन्ते। तृप्तिरितिवृष्टौ। वृष्टेरन्नादिद्वारेण तृप्तिहेतुत्वाद्ब्राहृैव तृप्त्यात्मना वृष्टौ व्यवस्थितमित्युपास्यम्। तथान्येषु तेन तेनात्मनाब्राहृैवोपास्यम्। तथा बलरूपेण विद्युति ॥२॥यशोरूपेण पशुषु। ज्योतिरूपेण नक्षत्रेषु। प्रजातिरमृतममृतत्वप्राप्तिः पुत्रेण ऋणविमोक्षद्वारेणानन्दः सुखमित्ये तत्सर्वमुपस्थनिमित्तं ब्राहृैवानेनात्मनौपस्थे प्रतिष्ठितमित्युपास्यम्।सर्वं ह्राकाशे प्रतिष्ठितमतो यत्सर्वमाकाशे तद्ब्राहृैवेत्युपास्यम्। तच्चाकाशं ब्राहृैव। तस्मात्तत् सर्वस्यप्रतिष्ठेत्युपासीत। प्रतिष्ठागुणोपासनात्प्रतिष्ठावान्भवति। एवं पूर्वेष्वपि यद्यत्तदधीनं फलं तद्ब्राहृैव तदुपासनात्तद्वान्भवतीति द्रष्टव्यम्। श्रुत्यन्तराच्च - "तं यथा यथोपासते तदेव भवति"इति।तन्मह इत्युपासीत। महो महत्त्वगुणवत्तदुपासीत। महान् भवति। तन्मन इत्युपासीत। मननं मनः। मानवान्भवति। मननसमर्थो भवति ॥३॥ तन्नम इत्युपासीत। नमनं नमो नमनगुणवत्तदुपासीत। नम्यन्ते प्रह्वीभवन्त्यस्मा उपासित्रे कामाः काम्यन्त इति भोग्या विषया इत्यर्थः।तद्ब्राहृेत्युपासीत। ब्राहृ परिवृढतममित्युपासीत। ब्राहृवांस्तद्गुणो भवति। तद्ब्राहृणः परिमर इत्युपासीत। ब्राहृणः परिमरः परिम्रियन्तेऽस्मिन्पञ्च देवता विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निरित्येताः। अतो वायुः परिमरः श्रुत्यन्तरप्रसिद्धेः। स एष एवायं वायुराकाशेनानन्यइत्याकाशो ब्राहृणः परिमरः। तमाकाशं वाय्वात्मानं बहृणः परिमर इत्युपासीत।एनमेवंविदं प्रतिस्पर्धिनो द्विषन्तोऽद्विषन्तोऽपि सपत्ना यतो भवन्त्यतो विशेष्यन्ते द्विषतः सपत्ना इति, एनं द्विषन्तः सपत्नास्ते परिम्रियन्ते प्राणाञ्जहति। किं च ये चाप्रिया अस्य भ्रातृव्या अद्विषन्तोऽपि ते च परिम्रियन्ते।'प्राणो वा अन्नं शरीरमन्नादम्'- इत्यारभ्याकाशान्तस्य कार्यस्यैवान्नान्नादत्वमुक्तम्।उक्तं नाम किं तेन?तेनैतत्सिद्धं भवति कार्यविषय एव भोज्यभोक्तृत्वकृतः संसारो न त्वात्मनीति। आत्मनि तु भ्रान्त्योपचर्यते।नन्वात्मापि परमात्मनः कार्यं ततो युक्तस्तस्य संसार इति।न, असंसारिण एव प्रवेशश्रुतेः। 'तत्सृष्ट्वा तदेवानुप्राविशत्' (तै.उ.२।६।१) इत्याकाशादिकारणस्य ह्रसंसारिण एव परमात्मनः कार्येष्वनुप्रवेशः श्रूयते। तस्मात्कार्यानुप्रविष्टो जीव आत्मा पर एव असंसारी। सृष्ट्वानुप्राविशदिति समानकर्तृकत्वोपपत्तेश्च। सर्गवेशक्रिययोश्चैकश्चेत्कर्ता ततः क्त्वाप्रत्ययोयुक्तः।प्रविष्टस्य तु भावान्तरापत्तिरिति चेत्?न, प्रवेशस्यान्यार्थेत्वेन प्रत्याख्यातत्वात्। 'अनेन जीवेनात्मना'(छा.उ.६।३।२) इति विशेषश्रुतेर्धर्मान्तरेणानुप्रवेश इति चेत्?न; 'तत्त्वमसि'इति पुनस्तद्भावोक्तेः। भावान्तरापन्नस्यैव तदपोहार्था संपदिति चेत्?न 'तत्सत्यं स आत्मा तत्त्वमसि ' (छा.उ.६।८-१३) इति सामानाधिकरण्यात्।दष्टं जीवस्य संसारित्वमिति चेत्?न;उपलब्धरनुपलभ्यत्वात्।संसारधर्मविशिष्ट आत्मोपलभ्यत इति चेत्?न?धर्मणां धर्मिणोऽव्यतिरेकात्कर्मत्वानुपपत्तेः, उष्णप्रकाशयोर्दाह्रप्रकाश्यत्वानुपपत्तिवत्। त्रासादिदर्शनाद्दुःखित्वाद्यनुमीयत इति चेत्?न, त्रासादेर्दुःखस्य चोपलभ्यमानत्वान्नोपलब्धृधर्मत्वम्।कापिलकाणादादितर्कशास्त्रविरोध इति चेत्?न;तेषां मूलाभावे वेदविरोधे च भ्रान्तत्वोपपत्तेः। श्रुत्युपपत्तिभ्यां च सिद्धमात्मनोऽसंसारित्वमेकत्वाच्च। कथमेकत्वमित्युच्यते - स यश्चायं पुरुषे यश्चासावादित्ये स एक इत्येवमादि पूर्ववत् सर्वम् ॥४॥स य एवंवित्। अस्माल्लोकात्प्रेत्य। एतमन्नमयमात्मानमुपसंक्रम्य। एतं प्राणमयमात्मानमुपसंक्रम्य। एतं मनोमयमात्मानमुपसंक्रम्य। एतं विज्ञानमयमात्मानमुपसंक्रम्य। एतमानन्दमयमात्मानमुपसंक्रम्य। इमाँल्लोकान्कामान्नी कामरूप्यनुसंचरन्। एतत्साम गायन्नास्ते हा ३ वु हा ३ वु हा ३ वु ॥५॥अन्नमयादिक्रमेणानन्दमयमात्मानमुपसंक्रम्यैतत्साम गायन्नास्ते।सत्यं ज्ञानमित्यस्या ऋचोऽर्थो व्याख्यातो विस्तरेण तद्विवरणभूतयानन्दवल्ल्या। 'सोऽश्नुते सर्वान्कामान्सह ब्राहृणा विपश्चिता'(तै.उ.२।१।१) इति तस्य फलवचनस्यार्थविस्तारो नोक्तः। के ते किंविषया वा सर्वे कामाः कथं वा ब्राहृणा सह समश्नुत इत्येतद्वक्तव्यमितीदमिदानीमारभ्यते -तत्र पितापुत्राख्यायिकायां पूर्वविद्याशेषभूतायां तपो ब्राहृविद्यासाधनमुक्तम्। प्राणादेराकाशान्तस्य च कार्यस्यान्नान्नादत्वेन विनियोगश्चोक्तः, ब्राहृविषयोपासनानि च। ये च सर्वे कामाः प्रतिनियतानेकसाधनसाध्या आकाशादिकार्यभेदविषया एते दर्शिताः। एकत्वे पुनः कामकामित्वानुपपत्तिः। भेदजातस्य सर्वस्यात्मभूतत्वात्। तत्रकथं युगपद्ब्राहृस्वरूपेण सर्वान्कामानेवंवित्समश्नुत इत्युच्यते - सर्वात्मत्वोपपत्तेः। कथं सर्वात्मत्वोपपत्तिरित्याहपुरुषादित्यस्थात्मैकत्वविज्ञानेनापोह्रोत्कर्षापकर्षावन्नमयाद्यात्मनोऽविद्याकल्पितान्क्रमेण संक्रम्यानन्दमयान्तान्सत्यं ज्ञानमनन्तं ब्राहृादृश्यादिधर्मकं स्वाभाविकमानन्दमजममृतमभयमद्वैतं फलभूतमापन्न इमाँल्लोकान्भूरादीननुसंचरन्निति व्यवहितेन संबन्धः कथमनुसंचरन्?कामान्नी कामतोऽन्नमस्येति कामान्नी ॥ तथा कामतो रूपाण्यस्येति कामरूपी। अनुसंचरन्सर्वात्मनेमाँल्लोकानामात्मत्वेनानुभवन् - किम् एतत्साम गायन्नास्ते।समत्वाद् ब्राहृैव साम सर्वानन्यरूपं गायञ्शब्दयन्नात्मैकत्वं प्रख्यापयँल्लोकानुग्रहार्थं तद्विज्ञानफलं चातीव कृतार्थत्वं गायन्नास्ते तिष्ठति। कथम्?हा ३ वु !हा ३ वु !हा ३ वु !अहो इत्येतस्मिन्नर्थेऽत्यन्तविस्मयख्यापनार्थम् ॥५॥कः पुनरसौ विस्मयः?इत्युच्यते -अहमन्नमहमन्नमहमन्नम्। अहमन्नादो ३ऽहमन्नादो ३ऽहमन्नादः। अहँश्लोककृदहँश्लोककृदहँश्लोककृत्। अहमस्मि प्रथमजा ऋता ३ स्य। पूर्वं देवेभ्योऽमृतस्य ना ३ भायि। यो मा ददाति स इदेव मा ३ वाः। अहमन्नमन्नमदन्तमा ३द्मि। अहं विश्वं भुवनमभ्यभवा ३म्। सुवर्न ज्योतिः य एवं वेद। इत्युपनिषद् ॥६॥अद्वैत आत्मा निरञ्जनोऽपि सन्नहमेवान्नमन्नादश्च। किं चाहमेव श्लोककृत्। श्लोको नामान्नान्नादयोः संघातस्तस्य कर्ता चेतनावान्। अन्नस्यै वा परार्थस्यान्नादार्थस्य सतोऽनेकात्मकस्य पाराथ्र्येन हेतुना संघातकृत्। त्रिरुक्तिर्विस्मयत्वख्यापनार्था।अहमस्मि भवामि। प्रथमजाः प्रथमजः प्रथमोत्पन्न ऋतस्य सत्यस्य मूर्तामूर्तस्यास्य जगतः। देवेभ्यश्च पूर्वम्। अमृतस्य नाभिरमृतत्वस्य नाभिर्मध्यं मत्संस्थममृतत्वं प्राणिनामित्यर्थः।यः कश्चिन्मा मामन्नमन्नार्थिभ्यो ददाति प्रयच्छत्यन्नात्मना ब्रावीति स इदित्थमेवमविनष्टं यथाभूतभावा अवतीत्यर्थः। यः पुनरन्यो मामदत्वार्थिभ्यः काले प्राप्तेऽन्नमत्ति तमन्नमदन्तं भक्षयन्तं पुरुषमहमन्नमेव संप्रत्यद्मि भक्षयामि।अत्राहैवं तर्हि बिभेमि सर्वात्मत्वप्राप्तेर्मोक्षादस्तु संसार एव यतो मुक्तोऽप्यहमन्नभूत आद्यः स्यामन्नस्य।एवं मा भैषीः संव्यवहारविषयत्वात्सर्वकामाशनस्य। अतीत्यायं संव्यवहारविषयमन्नान्नादादिलक्षणमविद्याकृतं विद्याया ब्राहृत्वमापन्नो विद्वांस्तस्य नैव द्वितीयं वस्त्वन्तरमस्ति यतो बिभेत्यतो न भेतव्यं मोक्षात्।एवं तर्हि किमिदमाह - अहमन्नमहमन्नाद इति?उच्यते - योऽयमन्नान्नादादिलक्षणः संव्यवहारः कार्यभूतः स संव्यवहारमात्रमेव न परमार्थवस्तु। स एवंभूतोऽपि ब्राहृनिमित्तो ब्राहृव्यतिरेकेणासन्निति कृत्वा ब्राहृविद्याकार्यस्य ब्राहृभावस्य स्तुत्यर्थमुच्यते। अहमन्नमहमन्नमहमन्नम्। अहमन्नादोऽहमन्नादोऽहमन्नाद इत्यादि। अतोभयादिदोषगन्धोऽप्यविद्यानिमित्तोऽविद्योच्छेदाद्ब्राहृभूतस्य नास्तीति।अहं विश्वं समस्तं भुवनं भूतैः संभजनीयं ब्राहृादिभिर्भवन्तीति वास्मिन्भूतानीति भुवनमभ्यभवामभिभवामि परेणेश्वरेण स्वरूपेण। सुवर्न ज्योतिः सुवरादित्यो नकार उपमार्थे। आदित्य इव सकृद्विभातमस्मदीयं ज्योतिज्र्योतिः प्रकाश इत्यर्थः।इति वल्लीद्वयविहितोपनिषत्परमात्मज्ञानं तामेतां यथोक्तामुपनिषदं शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा भृगुवत्तपो महदास्थाय य एवं वेद तस्येदं फलं यथोक्तमोक्ष इति ॥६॥इति भृगुवल्ल्यां दशमोऽनुवाकः ॥१०॥ N/A References : N/A Last Updated : January 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP