संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
अमृतनादोपनिषत्

अमृतनादोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ अमृतनादोपनिषत्॥ कृष्ण यजुर्वेद,योग उपनिषद्

अमृतनादोपनिषत्प्रतिपाद्यं पराक्षरम् । त्रैपदानन्दसाम्राज्यं हृदि मे भातु सन्ततम्॥ॐ सह नाववतु ।

सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै॥ॐ शान्तिः शान्तिः शान्तिः॥

शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः । परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत्॥१॥

ओङ्कारं रथमारुह्य विष्णुं कृत्वाथ सारथिम् । ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः॥२॥

तावद्रथेन गन्तव्यं यावद्रथपथि स्थितः । स्थित्वा रथपथस्थानं रथमुत्सृज्य गच्छति॥३॥

मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् । अस्वरेण मकारेण पदं सूक्ष्मं च गच्छति॥४॥

शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् । चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते॥५॥

प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा । तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते॥६॥

यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात्॥७॥

प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् । प्रत्याहारेण संसर्गाद्ध्यानेनानीश्वरान्गुणान्॥८॥

किल्बिषं हि क्षयं नीत्वा रुचिरं चैव चिन्तयेत्॥९॥

रुचिरं रेचकं चैव वायोराकर्षणं तथा । प्राणायामस्त्रयः प्रोक्ता रेचपूरककुम्भकाः॥१०॥

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते॥११॥

उत्क्षिप्य वायुमाकाशं शून्यं कृत्वा निरात्मकम् । शून्यभावेन युञ्जीयाद्रेचकस्येति लक्षणम्॥१२॥

वक्त्रेणोत्पलनालेन तोयमाकर्षयेन्नरः । एवं वायुर्ग्रहीतव्यः पूरकस्येति लक्षणम्॥१३॥

नोच्छ्वसेन्न च निश्वासेत् गात्राणि नैव चालयेत् । एवं भावं नियुञ्जीयात् कुम्भकस्येति लक्षणम्॥१४॥

अन्धवत्पश्य रूपाणि शब्दं बधिरवत् शृणु । काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम्॥१५॥

मनः सङ्कल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् । धारयित्वा तथाऽऽत्मानं धारणा परिकीर्तिता॥१६॥

आगमस्याविरोधेन ऊहनं तर्क उच्यते । समं मन्येत यं लब्ध्वा स समाधिः प्रकीर्तितः॥१७॥

भूमिभागे समे रम्ये सर्वदोषविवर्जिते । कृत्वा मनोमयीं रक्षां जप्त्वा चैवाथ मण्डले॥१८॥

पद्मकं स्वस्तिकं वापि भद्रासनमथापि वा । बद्ध्वा योगासनं सम्यगुत्तराभिमुखः स्थितः॥१९॥

नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् । आकृष्य धारयेदग्निं शब्दमेवाभिचिन्तयेत्॥२०॥

ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् । दिव्यमन्त्रेण बहुशः कुर्यादात्ममलच्युतिम्॥२१॥

पश्चाद्ध्यायीत पूर्वोक्तक्रमशो मन्त्रविद्बुधः । स्थूलातिस्थूलमात्रायं नाभेरूर्ध्वरुपक्रमः॥२२॥

तिर्यगूर्ध्वमधो दृष्टिं विहाय च महामतिः । स्थिरस्थायी विनिष्कम्पः सदा योगं समभ्यसेत्॥२३॥

तालमात्राविनिष्कम्पो धारणायोजनं तथा । द्वादशमात्रो योगस्तु कालतो नियमः स्मृतः॥२४॥

अघोषमव्यञ्जनमस्वरं च अकण्ठताल्वोष्ठमनासिकं च । अरेफजातमुभयोष्मवर्जितं यदक्षरं न क्षरते कदाचित्॥२५॥

येनासौ पश्यते मार्गं प्राणस्तेन हि गच्छति । अतस्तमभ्यसेन्नित्यं सन्मार्गगमनाय वै॥२६॥

हृद्द्वारं वायुद्वारं च मूर्धद्वारमतः परम् । मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः॥२७॥

भयं क्रोधमथालस्यमतिस्वप्नातिजागरम् । अत्याहरमनाहरं नित्यं योगी विवर्जयेत्॥२८॥

अनेन विधिना सम्यङ्नित्यमभ्यसतः क्रमात् । स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः॥२९॥

चतुर्भिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः । इच्छयाप्नोति कैवल्यं षष्ठे मासि न संशयः॥३०॥

पार्थिवः पञ्चमात्रस्तु चतुर्मात्राणि वारुणः । आग्नेयस्तु त्रिमात्रोऽसौ वायव्यस्तु द्विमात्रकः॥३१॥

एकमात्रस्तथाकाशो ह्यर्धमात्रं तु चिन्तयेत् । सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि॥३२॥

त्रिंशत्पर्वाङ्गुलः प्राणो यत्र प्राणः प्रतिष्ठितः । एष प्राण इति ख्यातो बाह्यप्राणस्य गोचरः॥३३॥

अशीतिश्च शतं चैव सहस्राणि त्रयोदश । लक्षश्चैकोननिःश्वास अहोरात्रप्रमाणतः॥३४॥

प्राण आद्यो हृदिस्थाने अपानस्तु पुनर्गुदे । समानो नाभिदेशे तु उदानः कण्ठमाश्रितः॥३५॥

व्यानः सर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति । अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात्॥३६॥

रक्तवर्नो मणिप्रख्यः प्राणो वायुः प्रकीर्तितः । अपानस्तस्य मध्ये तु इन्द्रगोपसमप्रभः॥३७॥

समानस्तु द्वयोर्मध्ये गोक्षीरधवलप्रभः । आपाण्डर उदानश्च व्यानो ह्यर्चिस्समप्रभः॥३८॥

यस्येदं मण्डलं भित्वा मारुतो याति मूर्धनि । यत्र तत्र म्रियेद्वापि न स भूयोऽबिजायते । न स भूयोऽभिजायत इत्युपनिषत्॥३९॥

ॐ सह नाववत्विति शान्तिः ॥

॥ इति कृष्णयजुर्वेदीय अमृतनादोपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP