संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
आत्मपूजोपनिषद्

आत्मपूजोपनिषद्

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


ॐ तस्य निश्चिन्तनं ध्यानम् ।
सर्वकर्मनिराकरणमावाहनम् ।
निश्चलज्ञानमासनम् ।
समुन्मनीभावः पाद्यम् ।
सदामनस्कमर्घ्यम् ।
 सदादीप्तिराचमनीयम् ।
वराकृतप्राप्तिः स्नानम् ।
सर्वात्मकत्वं दृश्यविलयो गन्धः ।
दृगविशिष्टात्मानः अक्षताः ।
चिदादीप्तिः पुष्पम् ।
सूर्यात्मकत्वं दीपः ।
परिपूर्णचन्द्रामृतरसैकीकरणं नैवेद्यम् ।
निश्चलत्वं प्रदक्षिणम् ।
सोऽहम्भावो नमस्कारः ।
परमेश्वरस्तुतिर्मौनम् ।
सदासन्तोषो विसर्जनम् ।
एवं परिपूर्णराजयोगिनः सर्वात्मकपूजोपचारः स्यात् ।
सर्वात्मकत्वं आत्माधारो भवति ।
सर्वनिरामयपरिपूर्णोऽहमस्मीति मुमुक्षूणां मोक्षैकसिद्धिर्भवति ।
॥इत्युपनिषत् ॥
॥इति आत्मपूजोपनिषत् समाप्ता॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP