संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
तैत्तरीयोपनिषद्भाष्यम्

तैत्तरीयोपनिषद्भाष्यम्

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic wisdom.


शीक्षावल्ली
प्रथम अनुवाक
यस्माज्जातं जगत्सर्वं यस्मिन्नेव प्रलीयते।
येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः ॥१॥
यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः।
व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥२॥
तैत्तिरीयकसारस्य मयाचार्यप्रसादतः।
विस्पष्टार्थरुचीनां हि व्याख्येयं संप्रणीयते ॥३॥
नित्यान्यधिगतानि कर्माण्युपात्तदुरितक्षयार्थानि, काम्यानि च फलार्थिनां पूर्वस्मिन्ग्रन्थे। इदानीं कर्मोपादानहेतुपरिहाराय ब्राहृविद्या प्रस्तूयते।
कर्महेतुः कामः स्यात्। प्रवर्तकत्वात्। आप्तकामानां हि कामाभावे स्वात्मन्यवस्थानात् प्रवृत्त्यनुपपत्तिः। आत्मकामित्वे चाप्तकामता आत्मा हि ब्राहृ; तद्विदो हि परप्राÏप्त वक्ष्यति। अतोऽविद्यानिवृत्तौ स्वात्मन्यवस्थानं परप्राÏप्त वक्ष्यति। अतोऽविद्यानिवृत्तौ स्वात्मन्यवस्थानं परप्राप्तिः "अभयं प्रतिष्ठां विन्दते" (तै.उ.२/७/१) "एतमानन्दमयमात्मानमुपसंक्रामति" (तै.उ.२/८/२२) इत्यादि श्रुतेः।
काम्यप्रतिषिद्धयोरनारम्भादारब्धस्य चोपभोगेन क्षयान्नित्यानुष्ठानेन प्रत्यवायाभावादयत्नत एव स्वात्मन्यवस्थानं मोक्षः। अथवा निरतिशयायाः प्रीतेः स्वर्गशब्दवाच्यायाः कर्महेतुत्वात्कर्मभ्य एव मोक्ष इति चेत्।
न; कर्मानेकत्वात्। अनेकानि ह्रारब्धफलान्यनारब्धफलानि चानेकजन्मान्तरकृतानि विरुद्धफलानि कर्माणि सम्भवन्ति। अतस्तेष्वनारब्धफलानामेकस्मिञ्जन्मन्युपभोगक्षयासंभवाच्छेषकर्मनिमित्तशरीरारम्भोपपत्तिः कर्मशेषसद्भावसिद्धिश्च "तद्य इह रमणीयचरणाः"(छा.उ.५/१०/७) "ततः शेषेण"(आ.ध.२/२/२/३, गो.स्मृ.११) इत्यादि श्रुतिस्मृतिशतेभ्यः।
इष्टानिष्टफलानामनारब्धानां क्षयार्थानि नित्यानीति चेत्?
न; अकरणेप्रत्यवायश्रवणात्। प्रत्यवायशब्दो ह्रनिष्टविषयः। नित्याकरणनिमित्तस्य प्रत्यवायस्य दुःखरूपस्यागामिनः परिहारार्थानि नित्यानीत्यभ्युपगमान्नानारब्धफलकर्मक्षयार्थानि।
यदि नामानारब्धकर्मक्षयार्थानि नित्यानि कर्माणि तथाप्यशुद्धमेव क्षपयेयुर्न शुद्धम्। विरोधाभावात्। न हीष्टफलस्य कर्मणः शुद्धरूपत्वान्नित्यैर्विरोध उपपद्यते। शुद्धाशुद्धयोर्हि विरोधो युक्तः।
न च कर्महेतूनां कामानां ज्ञानाभावे निवृत्त्यसंभवादशेषकर्मक्षयोपपत्तिः। अनात्मविदो हि कामोऽनात्मफलविषयत्वात्। स्वात्मनि च कामानुपपत्तिर्नित्यप्राप्तत्वात्। स्वयं चात्मा परं
ब्राह्मेत्युक्तम्।
नित्यानां चाकरणमभावस्ततः प्रत्यवायानुपपत्तिरिति। अतः पूर्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणमिति "अकुर्वन्विहितं कर्म" (मनु.११/४४) इति शतुर्नानुपपत्तिः। अन्यथाभावाद्भावोत्पत्तिरिति सर्वप्रमाणव्याकोप इति। अतोऽयत्नतः स्वात्मन्यवस्थानमित्यनुपपन्नम्।
यच्चोक्तं निरतिशयप्रीतेः स्वर्गशब्दवाच्यायाः कर्मनिमित्तत्वात्कर्मारब्ध एव मोक्ष इति, तन्न; नित्यत्वान्मोक्षस्य। न हि नित्यं किञ्चिदारभ्यते लोके। यदारब्धं तदनित्यमिति। अतो न कर्मारब्धो मोक्षः।
विद्यासहितानां कर्मणां नित्यारम्भसामथ्र्यमिति चेत्?
न; विरोधात्। नित्यं चारभ्यत इति विरुद्धम्।
यद्विनष्टं तदेव नोत्पद्यत इति। प्रध्वंसाभाववन्नित्योऽपि मोक्ष आरभ्य एवेति चेत्?
न; मोक्षस्य भावरूपत्वात् प्रध्वंसाभावोऽप्यारभ्यत इति न संभवति; अभावस्य विशेषाभावाद्विकल्पमात्रमेतत्। भावप्रतियोगी ह्रभावः। यथा ह्रभिन्नोऽपि भावो घटपटादिभिर्विशेष्यतेभिन्न इव घटभावः पटभाव इति; एवं निर्विशेषोऽप्यभावः क्रियागुणयोगाद्द्रव्यादिवद्विकल्प्यते। न ह्रभाव उत्पलादिवद्विशेषणसहभावी। विशेषणवत्त्वे भाव एव स्यात्।
विद्याकर्मकर्तृनित्यत्वाद्विद्याकर्मसन्तानजनितमोक्षनित्यत्वमिति चेत्?
न; गङ्गारुाोतोवत्कर्तृत्वस्य दुःखरूपत्वात्। कर्तृत्वोपरमे च मोक्षविच्छेदात्। तस्मादविद्याकामकर्मोपादानहेतुनिवृत्तौ स्वात्मन्यवस्थानं मोक्ष इति। स्वयं चात्मा ब्राहृ। तद्विज्ञानादविद्यानिवृत्तिरिति ब्राहृविद्यार्थोपनिषदारभ्यते।
उपनिषदिति विद्योच्यते, तच्छीलिनां गर्भजन्मजरादिनिशातनातदवसादनाद्वा ब्राहृणो वोपनिगमयितृत्वादुपनिषण्णं वास्यां परं श्रेय इति। तदर्थत्वाद् ग्रन्थोऽप्युपनिषद्।
ॐ शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा। शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः। नमो ब्राहृणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्राहृासि। त्वामेव प्रत्यक्षं ब्राहृ वदिष्यामि। ऋतं वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु तद्वक्तारमवतु। अवतु माम्। अवतु वक्तारम्। ॐ शान्तिः शान्तिः शान्तिः ॥१॥
शं सुखं प्राणावृत्तेरह्नश्चाभिमानी देवतात्मा मित्रो नोऽस्माकं भवतु। तथैवापानवृत्ते रात्रेश्चाभिमानी देवतात्मा वरुणः। चक्षुष्यादित्ये चाभिमान्यर्यमा। बल इन्द्रः। वाचि बुद्धौ च बृहस्पतिः। विष्णुरुरुक्रमो विस्तीर्णक्रमः पादयोरभिमानी। एवमाद्याध्यात्मदेवताः शं नः। भवत्विति सर्वत्रानुषङ्गः।
तासु हि सुखकृत्सु विद्याश्रवणाधारणोपयोगा अप्रतिबन्धे न भविष्यन्तीति तत्सुखकर्तृत्वं प्राथ्र्यते शं नो भवत्विति।
ब्राहृ विविदिषुणा नमस्कारवन्दनक्रिये वायुविषये ब्राहृविद्योपसर्गशान्त्यर्थं क्रियेते। सर्वक्रियाफलानां तदधीनत्वाद् ब्राहृवायुस्तस्मै ब्राहृणे नमः। प्रह्वीभावं करोमीति वाक्यशेषः नमस्ते तुभ्यं हे वायो नमस्करोमीति। परोक्षप्रत्यक्षाभ्यां वायुरेवाभिधीयते।
किं च त्वमेव चक्षुराद्यपेक्ष्य बाह्रं संनिकृष्टमव्यवहितं प्रत्यक्षं ब्राहृासि यस्मात्तस्मात्त्वामेव प्रत्यक्षं ब्राहृ वदिष्यामि। ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितमर्थं तदपि
त्वदधीनत्वात्त्वामेव वदिष्यामि। सत्यमिति स एव वाक्कायाभ्यां संपाद्यमानः, सोऽपि त्वदधीन एव संपाद्य इति त्वामेव सत्यं वदिष्यामि।
तत्सर्वात्मकं वाय्वाख्यं ब्राहृ मयैवं स्तुतं सन्मां विद्यार्थिनमवतु विद्यासंयोजनेन। तदेव ब्राहृ वक्तारमाचार्यं वक्तृत्वसामथ्र्यसंयोजनेनावतु। अवतु मामवतु वक्तारमिति पुनर्वचनमादरार्थम्। ॐ शान्तिः शान्तिः शान्तिरिति त्रिर्वचनमाध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्राप्त्युपसर्गाणां प्रशमार्थम् ॥१॥
इति शीक्षावल्ल्यां प्रथमोऽनुवाकः ॥१॥
====
द्वितीय अनुवाक
अर्थज्ञानप्रधानत्वादुपनिषदो ग्रन्धपाठे यत्नोपरमो मा भूदिति शिक्षाध्याय आरभ्यते -
शीक्षां व्याख्यास्यामः। वर्णः स्वरः। मात्रा बलम्। साम सन्तानः। इत्युक्तः शीक्षाध्यायः ॥१॥
शिक्षा शिक्ष्यतेऽनयेति वर्णाद्युच्चारणलक्षणम्। शिक्ष्यन्त इति वा शिक्षा वर्णादयः। शिक्षैव शीक्षा। दैघ्र्यं छान्दसम्। तां शीक्षां व्याख्यास्यामो विस्पष्टमा समन्तात्कथयिष्यामः। चक्षिङो वा ख्याञादिष्टस्य व्याङ्पूर्वस्य व्यक्तवाक्कर्मण एतद्रूपम्।
तत्र वर्णोऽकारादिः, स्वर उदात्तादिः, मात्रा ह्मस्वाद्याः, बलं प्रयत्नविशेषः, सामवर्णानां मध्यमवृत्त्योच्चारणं समता, सन्तानः सन्ततिः संहितेत्यर्थः। एष हि शिक्षितव्योऽर्थः। शिक्षा यस्मिन्नध्याये सोऽयं शीक्षाध्याय इत्येवमुक्त उदितः। उक्त इत्युपसंहारार्थः ॥१॥
इति शीक्षावल्ल्यां द्वितीयोऽनुवाकः ॥२॥
=======
तृतीय अनुवाक
अधुना संहितोपनिषदुच्यते -
सह नौ यशः। सह नौ ब्राहृवर्चसम्। अथातः सँहिताया उपनिषदं व्याख्यास्यामः। पञ्चस्वधिकरणेषु। अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम्। ता महासँ#्हिता इत्याचक्षते। अथाधिलोकम्। पृथिवी पूर्वरूपम्। द्यौरुत्तररूपम्। आकाशः संधिः ॥१॥
वायुः संधानम्। इत्यधिलोकम्। अथाधिज्यौतिषम्। अग्निः पूर्वरूपम्। आदित्य उत्तररूपम्। आपः संधिः। वैद्युतः संधानम्। इत्यधिज्यौतिषम्। अथाधिविद्यम्। आचार्यः पूर्वरूपम् ॥२॥
अन्तेवास्युत्तररूपम्। विद्या संधिः। प्रवचनँसंधानम् इत्यधिविद्यम्। अथाधिप्रजम्। माता पूर्वरूपम्। पितोत्तररूपम्। प्रजा संधिः प्रजननँ#् संधानम। इत्याधिप्रजम् ॥३॥
अथाध्यात्मम्। अधरा हनुः पूर्वरूपम्। उत्तरा हनुरुत्तररूपम्। वाक्संधिः। जिह्वा संधानम्। इत्यध्यात्मम्। इतीमा महासँ#्हिता य एवमेता महासँ#्हिता व्याख्याता वेद। संधीयते प्रजया पशुभिः। ब्राहृवर्चसेनान्नाद्येन सुवर्गेण लोकेन ॥४॥
तत्र संहिताद्युपनिषत्परिज्ञाननिमित्तं यद्यशः प्राथ्र्यते तन्नावावयोः, शिष्याचार्ययोः सहैवास्तु। तन्निमित्तं च यद्ब्राहृवर्चसं तेजस्तच्च सहैवास्त्विति शिष्यवचनमाशीः। शिष्यस्य ह्रकृतार्थत्वात्प्रार्थनोपपद्यते नाचार्यस्य। कृतार्थत्वात्। कृतार्थो ह्राचार्यो नाम भवति।
अथानन्तरमध्ययनलक्षणविधानस्य, अतो यतोऽत्यर्थं ग्रन्थभाविता बुद्धिर्न शक्यते सहसार्थज्ञानविषयेऽवतारयितुमित्यतः संहिताया उपनिषदं संहिताविषयं दर्शनमित्येतद्ग्रन्थसंनिकृष्टामेव व्याख्यास्यामः, पञ्चस्वधिकरणेष्वाश्रयेषु ज्ञानविषयेष्वित्यर्थः।
कानि तानीत्याह अधिलोकं लोकेष्वधि यद्दर्शनं तदधिलोकम्। तथाधिज्यौतिषमधिविद्यमधिप्रजमध्यात्ममिति। ताः एताः पञ्चविषया उपनिषदो लोकादिमहावस्तु विषयत्वात्संहिताविषयत्वाच्च महत्यश्च ताः संहिताश्च महासंहिता इत्याचक्षते कथयन्ति वेदविदः।
अथ तासां यथोपन्यस्तानामधिलोकं दर्शनमुच्यते। दर्शनक्रमविवक्षार्थोऽथशब्दः सर्वत्र। पृथिवी पूर्वरूपं पूर्वो वर्णः पूर्वरूपम्। संहितायाः पूर्वे वर्णे पृथिवीदृष्टिः कर्तव्येत्युक्तं भवति। तथा द्यौः उत्तररूपमाकाशोऽन्तरिक्षलोकः संधिर्मध्यं पूर्वोत्तररूपयोः संधीयेते अस्मिन्पूर्वोत्तररूपे इति। वायुः संधानम्। संधीयतेऽनेनेति संधानम्। इत्यधिलोकं दर्शनमुक्तम्। अथाधिज्यौतिषमित्यादि समानम्। इतीमा इत्युक्ता उप प्रदश्र्यन्ते। यः कश्चिदेवमेता महासंहिता व्याख्याता वेदोपास्ते। वेदेत्युपासनं स्याद्विज्ञानाधिकारात् "इति प्राचीनयोग्योपास्स्व" इति च वचनात्। उपासनं च यथासास्त्रं तुल्यप्रत्ययसन्ततिरसंकीर्णा चातत्प्रत्ययैः शास्त्रोक्तालम्बनविषया इति। प्रसिद्धश्चोपासनशब्दार्थो लोके गुरुमुपास्ते राजानमुपास्त इति। यो हि गुर्वादीन्सन्ततमुपचरति स उपास्त इत्युच्यते। स च फलमाप्नोत्युपासनस्य। अतोऽत्रापि च य एवं वेद संधीयते प्रजादिभिः स्वर्गान्तैः। प्रजादिफलान्याप्नोतीत्यर्थः ॥१-४॥
इति शीक्षावल्ल्यां तृतीयोऽनुवाकः ॥३॥
=======
चतुर्थ अनुवाक
यश्छन्दसामिति मेधाकामस्य श्रीकामस्य च तत्प्राप्तिसाधनं जपहोमावुच्येते। "स मेन्द्रो मेधया स्पृणोतु"
"ततो मे श्रियामावह"इति च लिङ्गदर्शनात्।
यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात्संबभूव। स मेन्द्रो मेधया स्पृणोतु। अमृतस्य देव धारणो भूयासम्। शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरि विश्रुवम्। ब्राहृणः कोशोऽसि मेधया पिहितः श्रुतं मे गोपाय। आवहन्ती वितन्वाना ॥१॥
कुर्वाणाचीरमात्मनः। वासाँ#्सि मम गावश्च। अन्नपाने च सर्वदा। ततो मे श्रियामावह। लोमशां पशुभिः सह स्वाहा। आमायन्तु ब्राहृचारिणः स्वाहा। विमायन्तु ब्राहृचारिणः स्वाहा। प्रमायन्तु ब्राहृचारिणः स्वाहा। दमायन्तु ब्राहृचारिणः स्वाहा। शमायन्तु ब्राहृचारिणः स्वाहा ॥२॥
यश्छन्दसां वेदानामृषभ इवर्षभः प्राधान्यात् विश्वरूपः सर्वरूपः सर्ववाग्व्याप्तेः। "तद्यथा शङ्कुना" (छा.उ.२/२३/३) इत्यादि श्रुत्यन्तरात्। अत एवर्षभत्वमोङ्कारस्य। ओङ्कारो ह्रत्रोपास्य
इति ऋषभादिशब्दैः स्तुतिन्र्याय्यैवोङ्कारस्य। छन्दोभ्यो वेदेभ्यो वेदा ह्रमृतं तस्मादमृतादधिसंबभूव। लोकदेववेदव्याह्मतिभ्यः सारिष्ठं जिघृक्षोः प्रजापतेस्तपस्यत ओङ्कारः सारिष्ठत्वेन प्रत्यभादित्यर्थः। न हि नित्यस्योङ्कारस्याञ्जसैवोत्पत्तिरेव कल्प्यते। स एवंभूत ओङ्कार इन्द्रः सर्वकामेशः परमेश्वरो मा मां मेधया प्रज्ञया स्पृणोतु प्रीणयतु बलयतु वा प्रज्ञाबलं हि प्राथ्र्यते।
अमृतस्य अमृतत्वहेतुभूतस्य ब्राहृज्ञानस्य तदधिकारात्, हे देव धारणो धारयिता भूयासं भवेयम्। किं च शरीरं मे मम विचर्षणं विचक्षणं योग्यमित्येतत्। भूयादिति प्रथमपुरुषविपरिणामः। जिह्वा मे मधुमत्तमा मधुमत्यतिशयेन मधुरभाषिणीत्यर्थः। कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं व्यश्रवं श्रोता भूयासमित्यर्थः । आत्मज्ञानयोग्यः कार्यकरणसंघातोऽस्त्विति वाक्यार्थः। मेधा च तदर्थमेव हि प्राथ्र्यते।
ब्राहृणः परमात्मन कोशोऽसि। असेरिवोपलब्ध्यधिष्ठानत्वात् । त्वं हि ब्राहृणः प्रतीकः, त्वयि ब्राहृोपलभ्यते। मेधया लौकिकप्रज्ञया पिहित आच्छादितः स त्वं सामान्यप्रज्ञैरविदिततत्त्व इत्यर्थः। श्रुतं श्रवणपूर्वकमात्मज्ञानादिकं मे गोपाय रक्ष। तत्प्राप्त्यविस्मरणादि कुर्वित्यर्थः। जपार्था एते मन्त्रा मेधाकामस्य।
होमार्थास्त्वधुना श्रीकामस्यमन्त्रा उच्यन्ते आवहन्त्यानयन्ती। वितन्वाना विस्तारयन्ती। तनोतेस्तत्कर्मत्वात्। कुर्वाणा निर्वर्तयन्ती, अचीरमचिरं क्षिप्रमेव, छान्दसो दीर्घः, चिरं वा कुर्वाणा आत्मनो मम, किमित्याह - वासांसि वस्त्राणि मम गावश्च गाश्चेति यावत्, अन्नपाने च सर्वदैवमादीनि कुर्वाणा श्रीर्या तां ततो मेधानिर्वर्तनात्परमावहानय। अमेधसो हि श्रीरनर्थायैवेति।
किंविशिष्टाम्। लोमशामजाव्यादियुक्तामन्यैश्च पशुभिः संयुक्तामावहेत्यधिकारादोङ्कार एवाभिसंबध्यते। स्वाहा स्वाहाकारो होमार्थमन्त्रान्तज्ञापनार्थः। आयन्तु मामिति व्यवहितेन संबन्धः। ब्राहृचारिणो विमायन्तु प्रमायन्तु दमायन्तु शमायन्त्वित्यादि ॥१-२॥
यशो जनेऽसानि स्वाहा। श्रेयान् वस्यसोऽसानि स्वाहा। तं त्वा भग प्रविशानि स्वाहा। स मा भग प्रविश स्वाहा। तस्मिन् सहरुाशाखे निभगाहं त्वयि मृजे स्वाहा। यथापः प्रवता यन्ति यथा
मासा अहर्जरम्। एवं मां ब्राहृचारिणो धातरायन्तु सर्वतः स्वाहा। प्रतिवेशोऽसि प्र मा पाहि प्र मा पद्यस्व ॥३॥
यशो यशस्वी जने जनसमूहेऽसानि भवानि। श्रेयान्प्रशस्यतरो वस्यसो वसीयसो वसुतराद्वसुमत्तराद्वासानीत्यन्वयः। किं च तं ब्राहृणः कोशभूतं त्वा त्वां हे भग भगवन्पूजावन्प्रविशानि प्रविश्य चानन्यस्त्वदात्मैव भवानीत्यर्थः। स त्वमपि मा मां भग भगवन् प्रविश। आवयोरेकत्वमेवास्तु। तÏस्मस्त्वयि सहरुाशाखे बहुशाखाभेदे हे भगवन्, निमृजे शोधयाम्यहं पापकृत्याम्।
यथा लोक आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति। यथा च मासा अहर्जरं संवत्सरोऽहर्जरः। अहोभिः परिवर्तमानो लोकाञ्जरयतीत्यहानि वास्मिञ्जीर्यन्त्यन्तर्भवन्तीत्यहर्जरः। तं च यथा मासा यन्त्येवं मां ब्राहृचारिणो हे धातः सर्वस्य विधातः मामायन्त्वागच्छन्तु सर्वतः सर्वदिग्भ्यः।
प्रतिवेशः - श्रमापनयनस्थानमासन्नगृहमित्यर्थः। एवं त्वं प्रतिवेश इव प्रतिवेशस्त्वच्छीलिनां सर्वपापदुःखापनयनस्थानमसि, अतो मा मां प्रति प्रभाहि प्रकाशयात्मानं प्रपद्यस्व च। मां रसविद्धमिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः।
श्रीकामाऽस्मिन्विद्याप्रकरणेऽभिधीयमानो धनार्थः। धनं च कर्मार्थम्। कर्म चेपात्तदुरितक्षयाय। तत्क्षये हि विद्या प्रकाशते। तथा च स्मृतिः "ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः। यथादर्शतले प्रख्ये पश्यन्त्यात्मानमात्मनि" (महा.शा.२०४/८, गरुड. १/२३७/६) इति ॥३॥
इ ति शीक्षावल्ल्यां चतुर्थोऽनुवाकः ॥४॥

=============
पञ्चम अनुवाक
संहिताविषयमुपासनमुक्तं तदनु मेधाकामस्य श्रीकामस्य मन्त्रा अनुक्रान्ताः। ते च पारम्पर्येण विद्योपयोगार्था एव। अनन्तरं व्याह्मत्यात्मनो ब्राहृणोऽन्तरुपासनं स्वराज्यफलं प्रस्तूयते -
भूर्भुवः सुवरिति वा एतास्तिरुाो व्याह्मतयः। तासामुह स्मैतां चतुर्थीं माहाचमस्यः प्रवेदयते। मह इति। तद्ब्राहृ। स आत्मा। अङ्गान्यन्या देवताः। भूरिति वा अयं लोकः। भुव इत्यन्तरिक्षम्। सुवरित्यसौ लोकः ॥१॥
मह इत्यादित्यः। आदित्येन वाव सर्वे लोका महीयन्ते। भूरिति वा अग्निः। भुव इति वायुः। सुवरित्यादित्यः। मह इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते। भूरिति वा ऋचः। भुव इति सामानि। सुवरिति यजूँषि ॥२॥
मह इति ब्राहृ ब्राहृणा वाव सर्वे वेदा महीयन्ते। भूरिति वै प्राणः। भुव इत्यपानः। सुवरिति व्यानः। मह इत्यन्नम्। अन्नेन वाव सर्वे प्राणा महीयन्ते। ता वा एताश्चतरुाश्चतुर्धा चतरुाश्चतरुाो व्याह्मतयः। ता यो वेद। स वेद ब्राहृ। सर्वेऽस्मै देवा बलिमावहन्ति ॥३॥
भूर्भुवः सुवरिति; इतीत्युक्तोपप्रदर्शनार्थः। एतास्तिरुा इति च प्रदर्शितानां परामर्शार्थः। परामृष्टाः स्मार्यन्ते वा इत्यनेन। तिरुा एताः प्रसिद्धा व्याह्मतयः स्मार्यन्ते तावत्। तासामियं चतुर्थी व्याह्मतिर्मह इति। तामेतां चतुर्थी महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते। उ ह स्म इत्येतेषां वृत्तानुकथनार्थत्वाद्विदितवान्ददर्शेत्यर्थः। माहाचमस्यग्रहणमार्षानुस्मरणार्थम्। ऋषिस्मरणमप्युपासनाङ्गमिति गम्यत इहोपदेशात्।
येयं माहाचमस्येन दृष्टा व्याह्मतिर्मह इति तद्ब्राहृ महद्धि ब्राहृ महश्च व्याह्मतिः किं पुनस्तत्? स आत्मा आप्नोतेव्र्याप्तिकर्मणः आत्मा इतराश्च व्याह्मतयो लोका देवा वेदाः प्राणश्च मह इत्यनेन व्याह्मत्यात्मनादित्यचन्द्रब्राहृान्नभूतेन व्याप्यन्ते यतः अतोऽङ्गान्यवयवा अन्या देवताः। देवताग्रहणमुपलक्षणार्थं लोकादीनाम्। मह इत्येतस्य व्याह्मत्यात्मनो देवलोकादयः सर्वेऽवयवभूता यतोऽत आहादित्यादिभिर्लोकादयो महीयन्ते इति। आत्मनो ह्रङ्गानि महीयन्ते महनं वृद्धिरुपचयः। महीयन्ते, वर्धन्त इत्यर्थः।
अयं लोकोऽग्निर्ऋग्वेदः प्राण इति प्रथमा व्याह्मतिर्भूरिति। एवमुत्तरोत्तरैकैका चतुर्धा भवति। मह इति ब्राहृ। ब्राहृेत्योङ्कारः, शब्दाधिकारोऽन्यस्यासंभवात्। उक्तार्थमन्यत्।
ता वा एताश्चतरुश्चतुर्धेति। ता वा एता भूर्भुवः सुवर्मह इति चतरुा एकैकशश्चतुर्धा चतुष्प्रकाराः। धाशब्दः प्रकारवचनः। चतरुाश्चतरुाः सत्यश्चतुर्धा भवन्तीत्यर्थः तासां यथावलृप्तानां
पुनरुपदेशस्तथैवोपासननियमार्थः। ता यथोक्तव्याह्मतीर्यो वेद स वेद विजानाति। किम्? ब्राहृ।
ननु "तत् ब्राहृ स आत्मा" इति ज्ञाते ब्राहृणि न वक्तव्यमविज्ञातवत्स वेद ब्राहृेति।
न, तद्विशेषविवक्षुत्वाददोषः। सत्यं विज्ञातं चतुर्थव्याह्मत्यात्मा ब्राहृेति न तु तद्विशेषो ह्मदयान्तरुपलभ्यत्वं मनोमयत्वादिश्च। 'शान्तिसमृद्धम्' इत्येवमन्तोविशेषणविशेष्यरूपो धर्मपूगो न विज्ञायत इति तद्विवक्षु हि शास्त्रमविज्ञातमिव ब्राहृ मत्वा स वेद ब्राहृेत्याह। अतो न दोषः। यो हि वक्ष्यमाणेन धर्मपूगेन विशिष्टं ब्राहृ वेद स वेद ब्राहृेत्यभिप्रायः। अतो वक्ष्यमाणानुवाकेनैकवाक्यतास्य उभयोह्र्रनुवाकयोरेकमुपासनम्।
लिङ्गाच्च, भूरित्यग्नौ प्रति-तिष्ठतीत्यादिकं लिङ्गमुपासनैकत्वे। विधायकाभावाच्च। न हि 'वेद' 'उपासितव्यः' इति विधायकः कश्चिच्छब्दोऽस्ति। व्याह्मत्यानुवाके 'ता यो वेद' इति च
वक्ष्यमाणार्थत्वान्नोपासनभेदकः। वक्ष्यमाणार्थत्वं च तद्विशेषविवक्षुत्वादित्यादिनोक्तम्। सर्वे देवा अस्मा एवं विदुषेऽङ्गभूता आवहन्त्यानयन्ति बलिं स्वाराज्यप्राप्तौ सत्यामित्यर्थः ॥१-३॥
इति पञ्चमोऽनुवाकः ॥५॥

=======
षष्ठ अनुवाक
भूर्भुवःसुवःस्वरूपा मह इत्येतस्य व्याह्मत्यात्मनो ब्राहृणोऽङ्गान्यन्या देवता इत्युक्तम्। यस्य ता अङ्गभूतास्तस्य ब्राहृणः साक्षादुपलब्ध्यर्थमुपासनार्थं च ह्मदयाकाशः स्थानमुच्यते शालग्राम इव विष्णोः। तास्मिन्हि तद्ब्राहृोपास्यमानं मनोमयत्वादिघर्मविशिष्टं साक्षादुपलभ्यते पाणाविवामलकम्। मार्गश्च सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते -
स य एषोऽन्तह्र्मदय आकाशः। तस्मिन्नयं पुरुषो मनोमयः। अमृतो हिरण्मयः। अन्तरेण तालुके। य एष स्तन इवावलम्बते। सेन्द्रयोनिः। यत्रासौ केशान्तो विवर्तते। व्यषोह्र शीर्षकपाले भूरित्यग्नौ प्रतितिष्ठति। भुव इति वायौ ॥१॥
सुवरित्यादित्ये। मह इति ब्राहृणि। आप्नोति स्वाराज्यम्। आप्नोति मनसस्पतिम्। वाक्पतिश्चक्षुष्पतिः। श्रोत्रपतिर्विज्ञानपतिः। एतत्ततो भवति। आकाशशरीरं ब्राहृ। सत्यात्म प्राणारामं मन आनन्दम्। शान्तिसमृद्धममृतम्। इति प्राचीनयोग्योपास्स्व ॥२॥
'सः' इति व्युत्क्रम्य 'अयं पुरुषः' इत्यनेन संबध्यते। य एषोऽन्तह्र्मदये ह्मदयस्यान्तह्र्मदयमिति पुण्डरीकाकारोमांसपिण्डः प्राणायतनोऽनेकनाडीसुषिर ऊध्र्वनालोऽधोमुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते। तस्यान्तर्य एष आकाशः प्रसिद्ध एव करकाकाशवत्, तस्मिन्सोऽयं पुरुषः। पुरि शयनात्पूर्णा वा भूरादयो लोका येनेति पुरुषः। मनोमयो मनोविज्ञानम् मनुतेज्र्ञानकर्मणः, तन्मयस्तत्प्रायस्तदुपलम्भत्वात्। मनुतेऽनेनेति वा मनोऽन्तःकरणं तदभिमानी तन्मयस्तल्लिङ्गो वा; अमृतोऽमरणधर्मा हिरण्मयो ज्योतिर्मयः।
तस्यैवंलक्षणस्य ह्मदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्येन्द्रस्येदृशस्वरूप प्रतिपत्तये मार्गोऽभिधीयते। ह्मदयादूध्र्वं प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु च प्रसिद्धा। सा चान्तरेण मध्ये प्रसिद्धे तालुके तालुकयोर्गता। यश्चैष तालुकयोर्मध्ये स्तन इवावलम्बते मांसखण्डस्य चान्तरेणेत्येतत्। यत्र च केशान्तः केशानामन्तोऽवसानं मूलं केशान्तो विवर्तते विभागेन वर्तते
मूर्धप्रदेश इत्यर्थः तं देशं प्राप्य तत्र विनिःसृता व्यपोह्र विभज्य विदार्य शीर्षकपाले शिरःकपाले विनिर्गता या सेन्द्रियोनिरिन्द्रस्य ब्राहृणो योनिर्मार्गः स्वरूपप्रतिपत्तिद्वारमित्यर्थः।
तयैवं विद्वान्मनोमयात्मदर्शी मूध्र्नो विनिष्क्रम्यास्य लोकस्याधिष्ठाता भूरिति व्याह्मतिरूपो योऽग्निर्महतो ब्राहृणोऽङ्गभूतस्तस्मिन्नग्नौ प्रतितिष्ठत्यग्न्यात्मनेमं लोकं व्याप्नोतीत्यर्थः। तथा भुव इति द्वितीयव्याह्मत्यात्मनि वायौ। प्रतितिष्ठतीत्यनुवर्तते। सुवरिति तृतीयव्याह्मत्यात्मन्यादित्ये। मह इत्यङ्गिनि चतुर्थव्याह्मत्यात्मनि ब्राहृणि प्रतितिष्ठति।
तेष्वात्मभावेन स्थित्वाप्नोति ब्राहृभूतः स्वाराज्यं स्वराड्भावं स्वयमेनं राजाधिपतिर्भवति, अङ्गभूतानां देवानां यथा ब्राहृ। देवाश्च सर्वेऽस्मै बलिमावहन्त्यङ्गभूता यथा ब्राहृणे। आप्नोति मनसस्पतिम्। सर्वेषां हि मनसां पतिः सर्वात्मकत्वाद् ब्राहृणः। सर्वैर्हि मनोभिस्तन्मनुते। तदाप्नोत्येवं विद्वान्। किं च वाक्पतिः सर्वासां वाचां पतिर्भवति। तथैव चक्षुष्पतिश्चक्षुषां पतिः। श्रोत्रपतिः श्रोत्राणां पतिः। विज्ञानपतिर्विज्ञानानां च पतिः। सर्वात्मकत्वात्सर्वप्राणिनां करणैस्तद्वान्भवतीत्यर्थः।
किं च ततोऽप्यधिकतरमेतद्भवति। किं तत्? उच्यते। आकाशशरीरमाकाशः शरीरमस्याकाशवद्वा सूक्ष्मं शरीरमस्येत्याकाशशरीरम्। किं तत्? प्रकृतं ब्राहृ। सत्यात्म सत्यं मूर्तामूर्तमवितथं स्वरूपं चात्मा स्वभावोऽस्य तदिदं सत्यात्म। प्राणारामं प्राणेष्वाराम आक्रीडा यस्य
तत्प्राणारामम्। प्राणानां वारामो यÏस्मस्तत्प्राणारामम्। मन आनन्दम्। आनन्दभूतं सुखकृदेव यस्य मनस्तन्मन आनन्दम्। शान्तिसमृद्धं शान्तिरुपशमः, शान्तिश्च तत्समृद्धं च शान्तिसमृद्धम्। शान्त्या वा समृद्धं तदुपलभ्यत इति शान्तिसमृद्धम्। अमृतममरणधर्मि। एतच्चाधिकरणविशेषणं
तत्रैव मनोमय इत्यादौ द्रष्टव्यमिति। एवं मनोमयत्वादिधर्मैर्विशिष्टं यथोक्तं ब्राहृ हे प्राचीनयोग्य, उपास्स्वेत्याचार्यवचनोक्तिरादरार्था। उक्तस्तूपासनाशब्दार्थः ॥१-२॥
इति षष्ठोऽनुवाकः ॥४॥

===============
सप्तम अनुवाक
यदेतद् व्याह्मत्यात्मकं ब्राहृोपास्यमुक्तं तस्यैवेदानीं पृथिव्यादिपाङ्क्तस्वरूपेणोपासनमुच्यते। पञ्चसंख्यायोगात्पङ्क्तिच्छब्दः - संपत्तिः। ततः पाङ्क्तत्वं सर्वस्य। पाङ्क्तश्च यज्ञः। "पञ्चपदा पङ्क्तिः पाङ्क्तो यज्ञः" इति श्रुतेः। तेन यत्सर्वं लोकाद्यात्मान्तं च पाङ्क्तं परिकल्पयति। यज्ञमेव तत्परिकल्पयति। तेन यज्ञेन परिकल्पितेन पाङ्क्तात्मकं प्रजापतिमभिसंपद्यते। तत्कथं पाङ्क्तमिदं सर्वमित्यत आह -
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशः। अग्निर्वायुरादित्यश्चद्रमा नक्षत्राणि। आप ओषधयो वनस्पतय आकाश आत्मा। इत्यधिभूतम्। अथाध्यात्मम्। प्राणोव्यानोऽपान उदानः समानः। चक्षुः श्रोत्रं मनो वाक् त्वक्। चर्म माँ#्सँ#्स्नावास्थि मञ्जा। एतदधि विधाय ऋषिरवोचत्। पाङ्क्तं वा इदँ#् सर्वम्। पाङ्क्तेनैव पाङ्क्तँ्स्पृणोतीति ॥ १॥
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिश इति लोकपाङ्क्तम्। अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणीति देवतापाङ्क्तम्। आप ओषधयो वनस्पतय आकाश आत्मेति भूतपाङ्क्तम्। आत्मेति विराड्भूताधिकारात्। इत्यधिभूतमित्यधिलोकाधिदैवतपाङ्क्तद्वयोपलक्षणार्थम्।
लोकदेवतापाङ्क्तयोश्चाभिहितत्वात्।
अथानन्तरमध्यात्मं पाङ्क्तत्रयमुच्यते 'प्राणादिवायुपाङ्क्तम्। चक्षुरादीन्द्रियपाङ्क्तम्। चर्मादि धातुपाङ्क्तम्।' एतावद्धीदं सर्वमध्यात्मम्, बाह्रं च पाङ्क्तमेवेत्येतदेवमधिविधाय परिकल्प्यर्षिर्वेद एतद्दर्शनसंपन्नो वा कश्चिदृषिरवोचदुक्तवान्। किमित्याह - पाङ्क्तं वा इदं सर्वं पाङ्क्तेनैवाध्यात्मिकेन संख्यासामान्यात्पाङ्क्तं बाह्रं स्पृणोति वलयति पूरयति। एकात्मतयोपलभ्यत इत्येतत्। एवं पाङ्क्तमिदं सर्वमिति यो वेद स प्रजापत्यात्मैव भवतीत्यर्थः ॥१॥
इति शीक्षावल्ल्यां सप्तमोऽनुवाकः ॥७॥

================
अष्टम अनुवाक
व्याह्मत्यात्मनो ब्राहृण उपासनमुक्तम्। अनन्तरं च पाङ्क्तस्वरूपेण तस्यैवोपासनमुक्तम्। इदानीं सर्वोपासनाङ्कभूतस्योङ्कारस्योपासनं विधित्स्यते। परापरब्राहृदृष्ट¬ा उपास्यमान ओङ्कारः शब्दमात्रोऽपि परापरब्राहृप्राप्तिसाधनं भवति। स ह्रालम्बनं ब्राहृणः परस्यापरस्य च, प्रतिमेव विष्णोः "एतेनैवायतनेनैकतरमन्वेति" (प्र.उ.५/२) इति श्रुतेः।
ओमिति ब्राहृ। ओमितीदसर्वम्। ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति। ओमिति सामानि गायन्ति। ओंशोमिति शस्त्राणि शँसन्ति। ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति। ओमिति ब्राहृा प्रसौति। ओमित्यग्निहोत्रमनुजानाति। ओमिति ब्रााहृणः प्रवक्ष्यन्नाह ब्राहृोपाप्नवानीति। ब्राहृैवोपाप्नोति ॥१॥
ओमिति इति शब्दः स्वरूपपरिच्छेदार्थः, ओमित्येतच्छब्दरूपब्राहृेति मनसा धारयेदुपासीत। यत ओमितीदं सर्वं हि शब्दरूपमोङ्कारेण व्याप्तम्। 'तद्यथा शङ्कुना' (छा.उ.२/२३/३) इति श्रुत्यन्तरात्। अभिधानतन्त्रं ह्रभिधेयमित्यत इदं सर्वमोङ्कार इत्युच्यते।
ओङ्कारस्तुत्यर्थमुत्तरो ग्रन्थः।
उपास्यत्वात्तस्य। ओमित्येतदनुकृतिरनुकरणम्। करोमि यास्यामि चेति कृतमुक्तमोमित्यनुकरोत्यन्यः। अत
ओङ्कारोऽनुकृतिः। ह स्म वा इति प्रसिद्धार्थावद्योतकाः प्रसिद्धमोङ्कारस्यानुकृतित्वम्।
अपि च 'ओ श्रावय'इति प्रैषपूर्वकमाश्रावयन्ति। तथोमिति सामानि गायन्ति सामगाः। ॐशोमितिशस्त्राणि शंसन्ति शस्त्रशंसितारोऽपि। तथोमित्यध्वर्युः प्रतिगरं प्रतिगृणाति। ओमिति ब्राहृा प्रसोत्यनुजानाति प्रैषपूर्वकमाश्रावयति। ओमित्यग्निहोत्रमनुजानाति। जुहोमीत्युक्त ओमित्येवानुज्ञां प्रयच्छति।
ओमित्येव ब्रााहृणः प्रवक्ष्यन् प्रवचनं करिष्यन्नध्येष्यमाण ओमित्येवाह। ओमित्येव प्रतिपद्यतेऽध्येतुमित्यर्थः। ब्राहृवेदमुपाप्नवानीति प्राप्नुयां ग्रहीष्यामीत्युपाप्नोत्येव ब्राहृ। अथवा ब्राहृ परमात्मा तमुपाप्नवानीत्यात्मानं प्रवक्ष्यन्प्रापयिष्यन्नोमित्येवाह स च तेनोङ्कारेण ब्राहृ प्राप्नोत्येव। ओङ्कारपूर्वं प्रवृत्तानां क्रियाणां फलवत्त्वं यस्मात्तस्मादोङ्कारं ब्राहृेत्युपासीतेति वाक्यार्थः ॥१॥
इति शीक्षावल्ल्यां अष्टमोऽनुवाकः ॥८॥

==============
नवम अनुवाक
विज्ञानादेवाप्नोति स्वाराज्यमित्युक्तत्वाच्छ्रौतस्मार्तानां कर्मणामानर्थक्यं प्राप्तमित्यतस्तन्माप्रापदिति कर्मणां पुरुषार्थं प्रति साधनत्वदर्शनार्थमिहोपन्यासः -
ऋतं च स्वाध्यायप्रवचने च। सत्यं च स्वाध्यायप्रवचने च। तपश्च स्वाध्यायप्रवचने च। दमश्च स्वाध्यायप्रवचने च। शमश्च स्वाध्यायप्रवचने च। अग्नयश्च स्वाध्यायप्रवचने च। अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च। मानुषं च स्वाध्यायप्रवचने च। प्रजा च स्वाध्यायप्रवचने च। प्रजनश्च स्वाध्यायप्रवचने च। प्रजातिश्च स्वाध्यायप्रवचने च। सत्यमिति सत्यवचा राथीतरः। तप इति तपोनित्यः पौरुशिष्टिः। स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः। तद्धि तपस्तद्धि तपः ॥ १॥
ऋतमिति व्याख्यातम्। स्वाध्यायोऽध्ययनम्। प्रवचनमध्यापनं ब्राहृयज्ञोवा। एतान्यृतादीन्यनुष्ठेयानीति वाक्यशेषः। सत्यं च सत्यवचनं यथाव्याख्यातार्थं वा। तपः कृच्छ्रादि। दमो बाह्रकरणोपशमः। शमोऽन्तःकरणोपशमः। अग्नय आधातव्याः। अग्निहोत्रं च होतव्यम्। अतिथयश्च पूज्याः। मानुषमिति लौकिकः संव्यवहारः, तच्च यथा प्राप्तमनुष्ठेयम्। प्रजा चोत्पाद्य प्रजनश्च प्रजनमृतौ भार्यागमनमित्यर्थः। प्रजातिः पौत्रोत्पत्तिः पुत्रो निवेशयितव्य इत्येतत्।
सर्वैरेतैः कर्मभिर्युक्तस्यापि स्वाध्याय प्रवचने यत्नतोऽनुष्ठेये इत्येवर्थं सर्वेण सह स्वाध्यायप्रवचनग्रहणम्। स्वाध्यायाधीनं ह्रर्थज्ञाम्, अर्थज्ञानायत्तं च परं श्रेयः, प्रवचनं च तदविस्मरणार्थं धर्मप्रवृद्ध्यर्थं च। अतः स्वाध्यायप्रवचनयोरादरः कार्यः।
सत्यमिति सत्यमेवानुष्ठातव्यमिति सत्यमेव वचो यस्य सोऽयं सत्यवचा नाम वा तस्य। राथीतरो रथीतरस्य गोत्रो राथीतराचार्यो मन्यते। तप इति तप एव कर्तव्यमिति तपोनित्यस्तपसि नित्यस्तपः परस्तपोनित्य इति वा नाम पौरुशिष्टिः पुरुशिष्टस्यापत्यं पौरुशिष्टिराचार्यो मन्यते। स्वाध्यायप्रवचने एवानुष्ठेये इति नाको नामतो मुद्गलस्यापत्यं मौद्गल्य आचार्यो मन्यते। तद्धि तपस्तद्धि तपः। हि यस्मात्स्वाध्यायप्रवचने एव तपस्तस्मात्ते एवानुष्ठेये इति। उक्तानामपि सत्यतपः स्वाध्यायप्रवचनानां पुनग्र्रहणमादरार्थम् ॥१॥
इति शीक्षावल्ल्यां नवमोऽनुवाकः ॥९॥

============
दशम अनुवाक
अहं वृक्षस्य रेरिवेति स्वाध्यायार्थो मन्त्राम्नायः। स्वाध्यायश्च विद्योत्पत्तये। प्रकरणात्। विद्यार्थं हीदं
प्रकरणम्। न चान्यार्थत्वमवगम्यते। स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पत्तिरवकल्पते।
अहं वृक्षस्य रेरिवा। कीर्तिः पृष्ठं गिरेरिव। ऊध्र्वपवित्रो वाजिनीव स्वमृतमस्मि
द्रविणँ#्सवर्चसम्। सुमेधा अमृतोक्षितः। इति त्रिशङ्कोर्वेदानुवचनम् ॥१॥
अहं वृक्षस्योच्छेदात्मकस्य संसारवृक्षस्य रेरिवा प्रेरयिताऽन्तर्याम्यात्मना। कीर्तिः ख्यातिगिरैः पृष्ठमिवोच्छ्रिता मम। ऊध्र्वपवित्र ऊध्र्वं कारणं पवित्रं पावनं ज्ञानप्रकाश्यं पवित्रं परमं ब्राहृ यस्य सर्वात्मनो मम सोऽहमूध्र्वपवित्रः। वाजिनीव वाजवतीव। वाजमन्नं तद्वति सवितरीत्यर्थः। यथा सवितर्यमृतमात्मतत्त्वं विशुद्धं प्रसिद्धं श्रुतिस्मृतिशतेभ्य एवं स्वमृतं शोभनं विशुद्धमात्मतत्त्वमस्मि भवामि।
द्रविणं धनं सवर्चसं दीप्तिमत्तदेवात्मतत्त्वमस्मीत्यनुवर्तते। ब्राहृज्ञानं वात्मतत्त्वप्रकाशकत्वात्सवर्चसम्। द्रविणमिव द्रविणं मोक्षसुखहेतुत्वात्। आ पक्षे प्राप्तं मयेत्यध्याहारः।
सुमेधाः शोभना मेधा सर्वज्ञलक्षणा यस्य मम सोऽहं सुमेधाः। संसारस्थित्युत्पत्युपसंहारकौशलयोगात्सुमेधस्त्वम्। अत एवामृतोऽमरणधर्माक्षितोऽक्षीणोऽव्ययः, अक्षतो वा; अमृतेन वोक्षितः सिक्तः। "अमृतोक्षितोऽहम्" इत्यादि ब्रााहृणम्।
इत्येवं त्रिशङ्कोऋषेब्र्राहृभूतस्य ब्राहृविदो वेदानुवचनम्; वेदो वेदनमात्मैकत्वविज्ञानं तस्य प्राप्तिमनुवचनं वेदानुवचनम्। आत्मनः कृतकृत्यताख्यापनार्थं वामदेववत्त्त्रिशङ्कुनार्षेण दर्शनेन दृष्टो मन्त्राम्नाय आत्मविद्याप्रकाशक इत्यर्थः।
अस्य च जपो विद्योत्पत्यर्थोऽवगम्यते। ऋतं चेत्यादिकर्मोपन्यासादनन्तरं च वेदानुवचनपाठादेतदवगम्यत एवं श्रौतस्मार्तेषु नित्येषु कर्मसु युक्तस्य निष्कामस्य परं ब्राहृ विविदिषोरार्षाणि दर्शनानि प्रादुर्भवन्त्यात्मादिविषयाणीति ॥१॥
इति शीक्षावल्ल्यां दशमोऽनुवाकः ॥१०॥

===========
एकादश अनुवाक
वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्राहृविज्ञानान्नियमेन कर्तव्यानि श्रौतस्मार्तकर्माणीत्येवमर्थः। अनुशासनश्रुतेः पुरुषसंस्कारार्थत्वात्। संस्कृतस्य हि विशुद्धसत्त्वस्यात्मज्ञानमञ्जसैवोत्पद्यते "तपसा कल्मषं हन्ति विद्ययामृतमश्नुते" (मनु.१२/१०४) इति स्मृतिः। वक्ष्यति च "तपसा ब्राहृ विजिज्ञासस्व" (तै.उ.३/२/५) इति। अतो विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि। अनुशास्तीत्यनुशासनशब्दादनुशासनातिक्रमो हि दोषोत्पत्तिः।
प्रागुपन्यासाच्च कर्मणाम्। केवलब्राहृविद्यारम्भाच्च पूर्वकर्माण्युपन्यस्तानि। उदितायां च ब्राहृविद्यायाम् "अभयं प्रतिष्ठां विन्दते" (तै.उ.२/७/१) "न बिभेति कुतश्च" ((तै.उ.२/९/१) "किमहं साधुनाकरवम्" (तै.उ.२/९/१) इत्येवमादिना कर्मनैष्किञ्चन्यं दर्शयिष्यति; इत्यतोऽवगम्यते पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि कर्माणीति। मन्त्रवर्णाच्च "अविद्यया मृत्युं तीत्र्वा विद्ययामृतमश्नुते" (ई.उ.११) इति। ऋतादीनां पूर्वत्रोपदेश आनर्थक्यपरिहारार्थः। इह तु ज्ञानोत्पत्त्यर्थत्वात्कर्तव्यतानियमार्थः।
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति। सत्यं वद। धर्मं चर। स्वाध्यायान्मा प्रमदः। अचार्याय
प्रियं धनमाह्मत्य प्रजातन्तुं मा व्यवच्छेत्सीः। सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम्। स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥१॥
देवपितृकार्याभ्यां न प्रमदितव्यम्। मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव। यान्यनवद्यानि कर्माणि। तानि सेवितव्यानि। नो इतराणि। यान्यस्माकँ#्सुचरितानि। तानि त्वयोपास्यानि ॥२॥
नो इतराणि। ये के चास्मच्छØत्याँ#्सो ब्रााहृणाः। तेषां त्वयासनेन प्रश्वसितव्यम्। श्रद्धया देयम्। अश्रद्धयाऽदेयम्। श्रिया देयम्। ह्यिया देयम्। भिया देयम्। संविदा देयम्। अथ यदि ते कर्मविचिकित्सा वा
वृत्तिविचिकित्सा वा स्यात् ॥३॥
ये तत्र ब्रााहृणाः संमर्शिनः। युक्ता आयुक्ताः। अलूक्षा धर्मकामाः स्युः। यथा ते तत्र वर्तेरन्। तथा तत्र वर्तेथाः। अथाभ्याख्यातेषु। ये तत्र ब्रााहृणाः।
संमर्शिनः। युक्ता आयुक्ताः। अलूक्षा धर्मकामाः स्युः। यथा ते तेषु वर्तेरन्। तथा तेषु वर्तेथाः। एष आदेशः। एष उपदेशः। एषा वेदोपनिषत्। एतदनुशासनम्। एवमुपासितव्यम्। एव मु चैतदुपास्यम् ॥४॥
वेदमनूच्याध्याप्याचार्योऽन्तेवासिनं शिष्यमनुशास्ति ग्रन्थग्रहणादनु पश्चाच्छास्ति तदर्थं ग्राहयतीत्यर्थः, अतोवगम्यतेऽधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति। "बुद्ध्वा कर्माणि चारभेत्" इति स्मृतेश्च। कथमनुशास्तीत्याह -
सत्यं वद यथाप्रमाणावगतं वक्तव्यं तद्वद। तद्वद्धर्मं चर। धर्म इत्यनुष्ठेयानां सामान्यवचनंसत्यादिविशेषनिर्देशात्। स्वाध्यायादध्ययनान्मा प्रमदः प्रमादं मा कार्षीः। आचार्यायाचार्यार्थं प्रियमिष्टं धनमाह्मत्यानीय दत्त्वा विद्यानिष्क्रम्यार्थम्, आचार्येण चानुज्ञातोऽनुरूपान्दारानाह्मत्य प्रजातन्तुं प्रजासन्तानं मा व्यवच्छेत्सीः। प्रजासन्ततेर्विच्छित्तिर्न कर्तव्या। अनुत्पद्यमानेऽपि पुत्रे
पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य इत्यभिप्रायः। प्रजाप्रजनप्रजातित्रयनिर्देशसामथ्र्यात्। अन्यथा प्रजनश्चेत्येतदेकमेवावक्ष्यत्।
सत्यान्न प्रमदितव्यं प्रमादो न कर्तव्यः। सत्याच्च प्रमदनमनृतप्रसङ्गः, प्रमादशब्दसामथ्र्यात्। विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः। अन्यथासत्यवदनप्रतिषेध एव स्यात्। धर्मान्न प्रमदितव्यम्। धर्मशब्दस्यानुष्ठेयविषयत्वादननुष्ठानं प्रमादः स न कर्तव्यः। अनुष्ठातव्य एव धर्म इति यावत्। एवं कुशलादात्मरक्षार्थात्कर्मणो न प्रमदितव्यम्। भूतिर्विभूतिस्तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणो न प्रमदितव्यम्। स्वाध्यायोऽध्ययनं प्रवचनमध्यापनं ताभ्यां न प्रमादितव्यम्। ते हि नियमेन कर्तव्ये इत्यर्थः ॥१॥
तथा देवपितृकार्याभ्यां न प्रमदितव्यम्। दैवपित्र्ये कर्मणी कर्तव्ये।
मातृदेवो माता देवो यस्य स त्वं मातृदेवो भव स्याः। एवं पितृदेव आचार्यदेवो भव। देवतावदुपास्या एत इत्यर्थः। यान्यपि चान्यान्यनवद्यान्यनिन्दितानि शिष्टाचारलक्षणानि कर्माणि तानि सेवितव्यानि कर्तव्यानि त्वया। नो न कर्तव्यानि त्वया। नो न कर्तव्यानीतराणि सावद्यानि शिष्टकृतान्यपि। यान्यस्माकमाचार्याणां सुचरितानि शोभनचरितान्याम्नायाद्यविरुद्धानि तान्येव त्वयोपास्यान्यदृष्टार्थान्यनुष्ठेयानि, नियमेन कर्तव्यानीति यावत् ॥२॥ नो इतराणि
विपरीतान्याचार्यकृतान्यपि।
ये के च विशेषिता आचार्यत्वादिधर्मैरस्मदस्मत्तः श्रेयांसः प्रशस्यतरास्ते च ब्रााहृणा न क्षत्रियादयस्तेषामासनेनासनदानादिना त्वया प्रश्वसितव्यम्। प्रश्वसनं प्रश्वासः श्रमापनयः। तेषां श्रमस्त्वयापनेतव्य इत्यर्थः। तेषां चासने गोष्ठीनिमित्ते समुदिते तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः केवलं तदुक्तसारग्राहिणा भवितव्यम्।
किं च यत्किचिद्देयं तच्छØद्ध्यैव दातव्यम्। अश्रद्धया अदेयं न दातव्यम्। श्रिया विभूत्या देयं दातव्यम्। ह्यिया लज्जया च देयम्। भिया भीत्या च देयम्। संविदा च मैत्र्यादिकार्येण देयम्।
अथैवं वर्तमानस्य यदि कदाचित्ते तव श्रौते स्मार्ते वा कर्मणि वृत्ते वाचारलक्षणे विचिकित्सा संशयः स्यात् ॥३॥ ये तत्र तस्मिन् देशे काले वा ब्रााहृणास्तत्र कर्मादौ युक्ता इति व्यवहितेन संबन्धः कर्तव्यः। संमर्शिनो विचारक्षमाः। युक्ता अभियुक्ताः कर्मणि वृत्ते वा आयुक्ता अपरप्रयुक्ताः। अलूक्षा अरूक्षा अक्रूरमतयः। धर्मकामा अदृष्टार्थिनोऽकामहता इत्येतत्, स्युर्भवेयुः। ते यथा येन प्रकारेण ब्रााहृणास्तत्र तस्मिन् कर्मणि वृत्ते वा वर्तेरंस्तथा त्वमपि वर्तेथाः। अथाभ्याख्यातेषु, अभ्याख्याता अभ्युक्ता दोषेण संदिह्रमानेन संयोजिता। केन चित्तेषु च यथोक्तं सर्वमुपनयेद्ये तत्रेत्यादि।
एष आदेशो विधिः। एष उपदेशः पुत्रादिभ्यः पित्रादीनाम्। एषा वेदोपनिषद्वेदरहस्यं वेदार्थं इत्येतत्। एतदेवानुशासनमीश्वरवचनम्। आदेशवाक्यस्य विधेरुक्तत्वात्सर्वेषां वा प्रमाणभूतानामनुशासनमेतत्। यस्मादेवं तस्मादेवं यथोक्तं सर्वमुपासितव्यं कर्तव्यम्। एवमु चैतदुपास्यमुपास्यमेव चैतन्नानुपास्यमित्यादरार्थं पुनर्वचनम् ॥४॥
अत्रैतच्चिन्त्यते विद्याकर्मणोर्विवेकार्थं किं कर्मभ्य एव केवलेभ्यः परं श्रेय उत विद्यासव्यपेक्षेभ्य
आहोस्विद्विद्याकर्मभ्यां संयताभ्यां विद्याया वा कर्मापेक्षाया उत केवलाया एव विद्याया इति?
तत्र केवलेभ्य एव कर्मभ्यः स्यात्। समस्तवेदार्थज्ञानवतः कर्माधिकारात् "वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना" इति स्मरणात्। अधिगमश्च सहोपनिषदर्थेनात्मज्ञानादिना।
"विद्वान्यजते""विद्वान्याजयति"इतिच विदुष एव कर्मव्यधिकारः प्रदश्र्यते सर्वत्र "ज्ञात्वा चानुष्ठानं" इतिच। कृत्स्नश्च वेदः कर्मार्थ इति हि मन्यन्ते केचित्। कर्मभ्यश्चेत्परं श्रेयो नावाप्यते वेदोऽनर्थकः स्यात्।
न; नित्यत्वान्मोक्षस्य, नित्यो हि मोक्ष इष्यते। कर्मकार्यस्यानित्यत्वं प्रसिद्धं लोके। कर्मभ्यश्चेच्छ्रेयो नित्यं स्यात्तच्चानिष्टम्। "तद्यथेह कर्मचितो लोकः क्षीयते" (छा.उ.८।१।६) इति न्यायानुगृहीतश्रुतिविरोधात्।
काम्यप्रतिषिद्धयोरनारम्भादारब्धस्य च कर्मण उपभोगेन क्षयान्नित्यानुष्ठानाच्च तत्प्रत्यवायानुत्पत्तेज्र्ञाननिरपेक्ष एव मोक्ष इति चेत्?
तच्च न; शेषकर्मसंभवात्तन्निमित्तशरीरान्तरोत्पत्तिः प्राप्नोतीति प्रत्युक्तम्। कर्मशेषस्य च नित्यामुष्ठानेनाविरोधात्क्षयानुपपत्तिरिति च।
यदुक्तं समस्तवेदार्थज्ञानवतः कर्माधिकारादित्यादि, तच्च न, श्रुतज्ञानव्यतिरेकादुपासनस्य। श्रुतज्ञानमात्रेण हि कर्मण्यधिक्रियते नोपासनामपेक्षते। उपासनं च श्रुतज्ञानमात्रेण हि
कर्मण्यधिक्रियते नोपासनामपेक्षते। उपासनं च श्रुतज्ञानादर्थान्तरं विधीयते। मोक्षफलमर्थान्तरप्रसिद्धं च स्यात्। 'श्रोतव्यः' इत्युक्त्वातद्व्यतिरेकेण 'मन्तव्यो निदिध्यासितव्यः' इतियत्नान्तरविधानात्। मनननिदिध्यासनयोश्च प्रसिद्धं श्रवणज्ञानार्थान्तरत्वम्।
एवं तर्हि विद्यासव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः विद्यासहितानां च कर्मणां भवेत्कार्यान्तरारम्भसामथ्र्यम्। यथा स्वतो मरणज्वरादिकार्यारम्भसमर्थानामपि विषदध्यादीनां मन्त्रशर्करादिसंयुक्तानां कार्यान्तरारम्भसामथ्र्यम्, एवं विद्यासहितैः कर्मभिर्मोक्ष आरभ्यत इति चेत्?
न; आरभ्यस्यानित्यत्वादित्युक्तो दोषः।
वचनादारभ्योऽपि नित्य एवेति चेत्?
न; ज्ञापकत्वाद्वचनस्य। वचनं नाम यथाभूतस्यार्थस्य ज्ञापकं नाविद्यामानस्य कर्तृ। न हि वचनशतेनापि नित्यमारभ्यत आरब्धं वाविनाशि भवेत्।
एतेन विद्याकर्मणोः संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम्।
विद्याकर्मणी मोक्षप्रतिबन्धहेतुनिवर्तके इति चेत् - न, कर्मणः फलान्तरदर्शनात्। उत्पत्तिसंस्कारविकाराप्तयो हि फलं कर्मणो दृश्यते। उत्पत्त्यादिफलविपरीतश्च मोक्षः।
गतिश्रुतेराप्य इति चेत्। 'सूर्यद्वारेण', 'तयोध्र्वमायन्' (क.उ.२.३.१६) इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत्।
न; सर्वगतत्वाद्गन्तृभिश्चानन्यत्वादाकाशादिकारणत्वात्सर्वगतं ब्राहृ। ब्राहृाव्यतिरिक्ताश्च सर्वे विज्ञानात्मनः। अतो नाप्यो मोक्षः। गन्तुरन्यद्विभिन्नं देशं प्रति भवति गन्तव्यम्। न हि ये नैवाव्यतिरिक्तं यत्तत्तेनैव गम्यते। तदनन्यत्वप्रसिद्धेश्च "तत्सृष्ट्वा तदेवानुप्राविशत्" (तै.उ.२.६.१) 'क्षेत्रज्ञं चापि मां विद्धि' (गीता १३.२) इत्येवमादिश्रुतिस्मृतिशतेभ्यः।
गत्यैश्वर्यादिश्रुतिविरोध इति चेत्। अथापि स्याद्यद्यप्राप्यो मोक्षस्तदा गतिश्रुतीनां "स एकधा"(छा.उ.७.२६.२) "स यदि पितृलोककामो भवति" (छा.उ.८.२.१) "स्त्रीभिर्वा यानैर्वा"
(छा.उ.८.१२.३) इत्यादि श्रुतीनां च कोपः स्यादिति चेत्।
न; कार्यब्राहृविषयत्वात्तासाम्। कार्ये हि ब्राहृणि स्त्र्यादयः स्युर्न कारणे। "एकमेवाद्वितीयम्" (छा.उ.६.२.१) "यत्र नान्यत्पश्यति" (छा.उ.७.२४.१) "तत्केन कं पश्येत्" (बृ.उ.२.४.१४; ४.५.१५) इत्यादि श्रुतिभ्यः।
विरोधाच्च विद्याकर्मणोः समुच्चयानुपपत्तिः। प्रविलीनकत्र्रादिकारकविशेषतत्त्वविषया हि विद्या तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते न ह्रेकं वस्तु परमार्थतः कत्र्रादिविशेषवत्तच्छून्यं चेत्युभयथा द्रष्टुं शक्यते। अवश्यं ह्रन्यतरन्मिथ्या स्यात्। अन्यतरस्य च मिथ्यात्वप्रसङ्गे युक्तं यत्स्वाभाविकाज्ञानविषयस्य द्वैतस्य
मिथ्यात्वम्। "यत्र हि""द्वैतमिव भवति" (बृ.उ.२.४.१४) "मृत्योः स मृत्युमाप्नोति" (क.उ.२.१.१०, बृ.उ.४.४.१९)) "अथ यत्रान्यत्पश्यति ........तदल्पम्" (छा.उ.७.२४.१) अन्योऽसावन्योऽहमस्मि (बृ.उ.१.४.१०) "उदरमन्तरं कुरुते अथ तस्य भयं भवति" (तै.उ.२.७.१) इत्यादिश्रुतिशतेभ्यः।
सत्यत्वं चैकत्वस्य एकधैवानुद्रष्टव्यम् (बृ.उ.४.४.२०) "एकमेवाद्वितीयम्"(छा.उ.६.२.१) "ब्राहृैवेद सर्वम्"(मु.उ.२.२.११) "आत्मैवेदंसर्वम्"(छा.उ.७.२५.२) इत्यादिश्रुतिभ्यः। न च संप्रदानादिकारकभेदादर्शने कर्मोपपद्यते। अन्यत्वदर्शनापवादश्च विद्याविषये सहरुाशः श्रूयते। अतो
विरोधो विद्याकर्मणोः। अतश्च समुच्चयानुपपत्तिः। तत्र यदुक्तं संहताभ्यां विद्याकर्मभ्यां मोक्ष इति, अनुपपन्नं तत्।
विहितत्वात्कर्मणां श्रुतिविरोध इति चेत्। यद्युपमृद्य कत्र्रादिकारकविशेषमात्मैकत्वविज्ञानं विधीयते सर्पादिभ्रान्तिविज्ञानोपमर्दकरज्जवादिविषयविज्ञानवत्प्राप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः। विहितानि च कर्माणि। स च विरोधो न युक्तः प्रमाणत्वाच्छØतीनामिति चेत्?
न; पुरुषार्थोपदेशपरत्वाच्छØतीनाम्। विद्योपदेशपरा तावच्छØतिः संसारात्पुरुषो मोक्षयितव्य इति संसारहेतोरविद्याया विद्यया निवृत्तिः कर्तव्येति विद्याप्रकाशकत्वेन प्रवृत्तेति न विरोधः।
एवमपि कत्र्रादिकारकसद्भावप्रतिपादनपरं शास्त्रं विरुध्यत एवेति चेत्?
न; यथाप्राप्तमेव कारकास्तित्वमुपादायोपात्तदुरितक्षयार्थं कर्माणि विदधच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न कारकास्तित्वे व्याप्रियते। उपचितदुरितप्रतिबन्धस्य हि विद्योत्पत्तिर्नावकल्पते। तत्क्षये च विद्योत्पत्तिः स्यात्ततश्चाविद्यानिवृत्तिस्तत आत्यन्तिकः संसारोपरमः।
अपि चानात्मदर्शिनो ह्रनात्मविषयः कामः। कामयमानश्च करोति कर्माणि। ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः। तद्व्यतिरेकेणात्मैकत्वदर्शिनो विषयाभावात्कामानुत्पत्तिरात्मनि चानन्यत्वात्कामानुत्पत्तौ स्वात्मन्यवस्थानं मोक्ष इत्यतोऽपि विद्याकर्मणोर्विरोधः। विरोधादेव विद्या मोक्षं प्रति न कर्माण्यपेक्षते।
स्वात्मलाभे तु पूर्वोपचितप्रतिबन्धापनयद्वारेण विद्याहेतुत्वं प्रतिपद्यन्ते कर्माणि नित्यानीति। अत एवास्मिन्प्रकरण उपन्यस्तानि कर्माणीत्यवोचाम। एवं चाविरोधः कर्मविधिश्रुतीनाम् अतः केवलाया एव विद्यायाः परं श्रेय इति सिद्धम्।
एवं तह्र्राश्रमान्तरानुपपत्तिः कर्मनिमित्तत्वाद्विद्योत्पत्तेः। गार्हस्थ्ये च विहितानि कर्माणीत्यैकाश्रम्यमेव। अतश्च यावज्जीवादिश्रुतयोऽनुकूलतराः।
न; कर्मानेकत्वात्। न ह्रग्निहोत्रादीन्येव कर्माणि। ब्राहृचर्यं तपः सत्यवदनं शमो दमोऽहिंसेत्येवमादीन्यपि कर्माणीतराश्रमप्रसिद्धानि विद्योत्पत्तौ साधकतमान्यसंकीर्णत्वाद्विद्यन्ते ध्यानधारणादिलक्षणानि च। वक्ष्यति च - "तपसा ब्राहृ विजिज्ञासस्व" (तै.उ.३.२.५) इति।
जन्मान्तरकृतकर्मभ्यश्च प्रागपि गार्हस्थ्याद्विद्योत्पत्तिसंभवात्कर्मार्थत्वाच्च गार्हस्थ्यप्रतिपत्तेः कर्मसाघ्यायां च विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिरनर्थिकैव।
लोकार्थत्वाच्च पुत्रादीनाम्; पुत्रादि साध्येभ्यश्चायं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य नित्यसिद्धात्मलोकदर्शिनः कर्मणि प्रयोजनमपश्यतः कथं प्रवृत्तिरुपपद्यते। प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो निवृत्तिरेव स्यात्। "प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि" (बृ.उ.४.५.२) इत्येवमादिश्रुतिलिङ्गदर्शनात्।
कर्म प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुक्तमिति चेदग्निहोत्रादि कर्म प्रति श्रुतेरधिको यत्नो महांश्च कर्मण्यायासोऽनेकसाधनसाध्यत्वादग्निहोत्रादीनाम्। तपोब्राहृचर्यादीनां चेतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादल्पसाधनापेक्षत्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प आश्रमिभिस्तस्येति चेत्।
न; जन्मान्तरकृतानुग्रहात्। यदुक्तं कर्मणि श्रुतेरधिको यत्न इत्यादि नासौ दोषः यतो
जन्मान्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म ब्राहृचर्यादिलक्षणं चानुग्राहकं भवति विद्योत्पतिं्त प्रति। येन जन्मनैव विरक्ता दृश्यन्ते केचित्। केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः। तस्माज्जन्मान्तरकृतसंस्कारेभ्यो
विरक्तानामाश्रमान्तरप्रतिपत्तिरेवेष्यते।
कर्मफलबाहुल्याच्च; पुत्रस्वर्गब्राहृवर्चसादिलक्षणस्य कर्मफलस्यासंख्येयत्वात्, तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको यत्नः कर्मसूपपद्यते। आशिषां बाहुल्यदर्शनादिदं मे स्यादिदं मे स्यादिति।
उपायत्वाच्च उपायभूतानि हि कर्माणि विद्यां प्रतीत्यवोचाम। उपायेऽधिको यत्नः कर्तव्यो नोपेये।
कर्मनिमित्तत्वाद्विद्यया यत्नान्तरानर्थक्यमिति चेत्कर्मभ्यः एव पूर्वोपचितदुरितप्रतिबन्धक्षयादेव विद्योत्पद्यते चेत्कर्मभ्यः पृथगुपनिषच्छ्रवणादियत्नोऽनर्थक इति चेत्।
न; नियमाभावात्। न हि प्रतिवन्धक्षयादेव विद्योत्पद्यते न त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानादिति नियमोऽस्ति। अहिंसाब्राहृचर्यादीनां च विद्यां प्रत्युपकारकत्वात्साक्षादेव च कारणत्वाच्छ्रवणमनननिदिध्यासनानाम्। अतः सिद्धान्याश्रमान्तराणि सर्वेषां चाधिकारे विद्यायां परं च श्रेयः केवलाया विद्याया एवेति सिद्धम्।
इति शिक्षावल्यामेकादशोऽनुवाकः ॥११॥

================
द्वादश अनुवाकः
अतीतविद्याप्राप्त्युपसर्गशमनार्थं शाÏन्त पठति -
शं नो मित्रः शं वरुणः। शं नो भवत्यर्यमा इत्यादि व्याख्यातमेतत्पूर्वम् ॥१॥
इति शीक्षावल्ल्यां द्वादशोऽनुवाकः ॥१२॥

N/A

References : N/A
Last Updated : January 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP