संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
भिक्षुकोपनिषत्

भिक्षुकोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ भिक्षुकोपनिषत् ॥ ६३ ॥ शुक्ल यजुर्वेद,संन्यास उपनिषद्

भिक्षूणां पटलं यत्र विश्रान्तिमगमत्सदा । तन्त्रैपदं ब्रह्मतत्त्वं ब्रह्ममात्रं करोतु माम् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अथ भिक्षूणां मोक्षार्थिनां कुटीचकबहूदकहंसपरमहंसाश्वेति चत्वारः ।

कुटीचका नाम गौतमभरद्वाजयाज्ञवल्क्यवसिष्ट - प्रभृतयोऽष्टौ ग्रासांश्वरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते ।

अथ बहूदका नाम त्रिदण्डकमण्डलुशिखा - यज्ञोपवीतकाषायवस्त्रधारिणो ब्रह्मर्षिगृहे मधुमांसं वर्जयित्वाष्टौ

ग्रासान्भैक्षाचरणं कृत्वा योगमार्गे मोक्षमेव प्रार्थयन्ते ।

अथ हंसा नाम ग्राम एकरात्रं नगरे पञ्चरात्रं क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः ।

गोमूत्रगोमयाहारिणो नित्यं चान्द्रायणपरायणा योगमार्गे मोक्षमेव प्रार्थयन्ते ।

अथ परमहंसा नाम संवर्तकारुणिश्वेतकेतुजडभरत - दत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ ग्रासांश्वरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते ।

वृक्षमूले शून्यगृहे श्मशानवासिनो वा साम्बरा वा दिगम्बरा वा । न तेषां धर्माधर्मौ लाभालाभौ शुद्धाशुद्धौ द्वैतवर्जिता समलोष्टाश्मकाञ्चनाः

सर्ववर्णेषु भैक्षाचरणं कृत्वा सर्वत्रात्मैवेति पश्यन्ति । अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः शुक्लध्यानपरायणा आत्मनिष्टाः

प्राणसंधारणार्थे यथोक्तकाले भैक्षमाचरन्तः शून्यागारदेवगृह - तृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलिन -

गिरिकन्दरकुहरकोटरनिर्झरस्थण्डिले तत्र ब्रह्ममार्गे सम्यक्संपन्नाः शुद्धमानसाः परमहंसाचरणेन संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति भिक्षुकोपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP