संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
ध्यानबिन्दूपनिषत्

ध्यानबिन्दूपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ ध्यानबिन्दूपनिषत् ॥ कृष्ण यजुर्वेद,योग उपनिषद्

ध्यात्वा यद्ब्रह्ममात्रं ते स्वावशेषधिया ययुः । योगतत्त्वज्ञानफलं तत्स्वमात्रं विचिन्तये ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

यदि शैलसमं पापं विस्तीर्णं बहुयोजनम् । भिद्यते ध्यानयोगेन नान्यो भेदो कदाचन ॥१॥

बीजाक्षरं परं बिन्दुं नादो तस्योपरि स्थितम् । सशब्दं चाक्षरे क्षीणे निःशब्दं परमं पदम् ॥२॥

अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् । तत्परं विन्दते यस्तु स योगी छिन्नसंशयः ॥३॥

वालाग्रशतसाहस्रं तस्य भागस्य भागिनः । तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम् ॥४॥

पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् । तिलमध्ये यथा तैलं पाषाणाष्विव काञ्चनम् ॥५॥

एवं सर्वाणि भूतानि मणौ सूत्र इवात्मनि । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणिस्थितः ॥६॥

तिलानां तु यथा तैलं पुष्पे गन्ध इवाश्रितः । पुरुषस्य शरीरे तु सबाह्याभ्यन्तरे स्थितः ॥७॥

वृक्षं तु सकलं विद्याच्छाया तस्यैव निष्कला । सकले निष्कले भावे सर्वत्रात्मा व्यवस्थितः ॥८॥

ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षिभिः । पृथिव्यग्निश्च ऋग्वेदो भूरित्येव पितामहः ॥९॥

अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके । अन्तरिक्षं यजुर्वायुर्भुवो विष्णुर्जनार्दनः ॥१०॥

उकारे तु लयं प्राप्ते द्वितीये प्रणवांशके । द्यौः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः ॥११॥

मकारे तु लयं प्राप्ते तृतीये प्रणवांशके । अकारः पीतवर्णः स्याद्रजोगुण उदीरितः ॥१२॥

उकारः सात्त्विकः शुक्लो मकारः कृष्णतामसः । अष्टाङ्गं च चतुष्पादं त्रिस्थानं पञ्चदैवतम् ॥१३॥

ओङ्कारं यो न जानाति ब्रह्मणो न भवेत्तु सः । प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ॥१४॥

अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् । निवर्तन्ते क्रियाः सर्वास्तस्मिन्दृष्टे परावरे ॥१५॥

ओङ्कारप्रभवा देवा ओङ्कारप्रभवाः स्वराः । ओङ्कारप्रभवं सर्वं त्रैलोक्यं सचराचरम् ॥१६॥

ह्रस्वो दहति पापानि दीर्घः सम्पत्प्रदोऽव्ययः । अर्धमात्रा समायुक्तः प्रणवो मोक्षदायकः ॥१७॥

तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥१८॥

हृत्पद्मकर्णिकामध्ये स्थिरदीपनिभाकृतिम् । अङ्गुष्ठमात्रमचलं ध्यायेदोङ्कारमीश्वरम् ॥१९॥

इडया वायुमापुर्य पूरयित्वोदरस्थितम् । ओङ्कारं देहमध्यस्थं ध्यायेज्ज्वालवलीवृतम् ॥२०॥

ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते । रेचो रुद्र इति प्रोक्तः प्राणायामस्य देवताः ॥२१॥

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेव पश्येन्निगूढवत् ॥२२॥

ओङ्कारध्वनिनादेन वायोः संहरणान्तिकम् । यावद्बलं समादध्यात्सम्यङ्नादलयावधि ॥२३॥

गमागमस्थं गमनादिशून्य-मोङ्कारमेकं रविकोटिदीप्तिम् ।

पश्यन्ति ये सर्वजनान्तरस्थ हंसात्मकं ते विरजा भवन्ति ॥२४॥

यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् । तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥२५॥

अष्टपत्रं तु हृत्पद्मं द्वात्रिंशत्केसरान्वितम् । तस्य मध्ये स्थितो भानुर्भानुमध्यगतः शशी ॥२६॥

शशिमध्यगतो वह्निर्वह्निमध्यगता प्रभा । प्रभामध्यगतं पीठं नानारत्नप्रवेष्टितम् ॥२७॥

तस्य मध्यगतं देवं वासुदेवं निरञ्जनम् । श्रीवत्सकौस्तुभोरस्कं मुक्तामणिविभूषितम् ॥२८॥

शुद्धस्फटिकसंकाशं चन्द्रकोटिसमप्रभम् । एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः ॥२९॥

अतसीपुष्पसंकाशं नाभिस्थाने प्रतिष्ठितम् । चतुर्भुजं महाविष्णुं पूरकेण विचिन्तयेत् ॥३०॥

कुम्भकेन हृदिस्थाने चिन्तयेत्कमलासनम् । ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम् ॥३१॥

रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम् । शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् ॥३२॥

अञ्जपत्रमधःपुष्पमूर्ध्वनालमधोमुखम् । कदलीपुष्पसंकाशं सर्ववेदमयं शिवम् ॥३३॥

शतारं शतपत्राढ्यं विकीर्णाम्बुजकर्णिकम् । तत्रार्कचन्द्रवह्नीनामुपर्युपरि चिन्तयेत् ॥३४॥

पद्मस्योद्घाटनं कृत्वा बोधचन्द्राग्निसूर्यकम् । तस्य हृद्बीजमाहृत्य आत्मानं चरते ध्रुवम् ॥३५॥

त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्रयाक्षरम् । त्रिमात्रमर्धमात्रं वा यस्तं वेद स वेदवित् ॥३६॥

तैलधारमिवाच्छिन्नदीर्घघण्टानिनादवत् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥३७॥

यथैवत्पलनालेन तोयमाकर्षयेन्नरः । तथैवओत्कर्षयेद्वायुं योगी योगपथे स्थितः ॥३८॥

अर्धमात्रात्मकं कृत्वा कोशीभूतं तु पङ्कजम् । कर्षयेन्नलमात्रेण भ्रुवोर्मध्ये लयं नयेत् ॥३९॥

भ्रुवोर्मध्ये ललाटे तु नासिकायास्तु मूलतः । जानीयादमृतं स्थानं तद्ब्रह्मायतनं महत् ॥४०॥

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥४१॥

आसनानि च तावन्ति यावन्त्यो जीवजातयः । एतेषानतुलान्भेदान्विजानाति महेश्वरः ॥४२॥

छिद्रं भद्रं तथा सिंहं पद्मं चेति चतुष्टयम् । आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥४३॥

योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते । आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् ॥४४॥

तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता । योनिमध्ये स्थितं लिङ्गं पश्चिमाभिमुखं तथा ॥४५॥

मस्तके मणिवद्भिन्नं यो जानाति स योगवित् । तप्तचामीकराकारं तडिल्लेखेव विस्फुरत् ॥४६॥

चतुरस्रमुपर्यग्नेरधो मेढ्रात्प्रतिष्ठितम् । स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयम् ॥४७॥

स्वाधिष्ठानं ततश्चक्रं मेढ्रमेव निगद्यते । मणिवत्तन्तुना यत्र वायुना पूरितं वपुः ॥४८॥

तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् । द्वादशारमहाचक्रे पुण्यपापनियन्त्रितः ॥४९॥

तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति । ऊर्ध्वं मेढ्रादथो नाभेः कन्दो योऽस्ति खगाण्डवत् ॥५०॥

तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः । तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृताः ॥५१॥

प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः । इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥५२॥

गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनि । अलम्बुसा कुहूरत्र शङ्खिनी दशमी स्मृता ॥५३॥

एवं नाडीमयं चक्रं विज्ञेयं योगिना सदा । सततं प्राणवाहिन्यः सोम सूर्याग्निदेवताः ॥५४॥

इडापिङ्गलासुषुम्नास्तिस्रो नाड्यः प्रकीर्तिताः । इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता ॥५५॥

सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयः स्मृताः । प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च ॥५६॥

नागः कूर्मः कृकरको देवदत्तो धनञ्जयः । प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ॥५७॥

एते नाडीसहस्रेषु वर्तन्ते जीवरूपिणः । प्राणापानवशो जीवो ह्यधश्चोर्ध्वं प्रधावति ॥५८॥

वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते । आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः ॥५९॥

प्राणापानसमाक्षिप्तस्तद्वज्जीवो न विश्रमेत् । अपानात्कर्षति प्राणोऽपानः प्राणाच्च कर्षति ॥६०॥

खगरज्जुवदित्येतद्यो जानाति स योगवित् । हकारेण बहिर्याति सकारेण विशेत्पुनः ॥६१॥

हंसहंसेत्यमं मन्त्रं जीवो जपति सर्वदा । शतानि षट्दिवारात्रं सहस्राणेकविंशतिः ॥६२॥

एतन्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा । अजपा नाम गायत्री योगिनां मोक्षदा सदा ॥६३॥

अस्याः सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते । अनया सदृशी विद्या अनया सदृशो जपः ॥६४॥

अनया सदृशं पुण्यं न भूतं न भविष्यति । येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् ॥६५॥

मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी । प्रबुद्धा वह्नियोगेन मनसा मरुता सह ॥६६॥

सूचिवद्गुणमादाय व्रजत्यूर्ध्वं सुषुम्नया । उद्घाटयेत्कपाटं तु यथा कुञ्चिकया हठात् ॥६७॥

कुण्डलिन्या तया योगी मोक्षद्वारं विभेदयेत् ॥६८॥

कृत्वा संपुटितौ करौ दृढतरं बध्वाथ पद्मासनम् । गाढं वक्षसि सन्निधाय चुबुकं ध्यानं च तच्चेतसि ॥

वारंवारममपातमूर्ध्वमनिलं प्रोच्चारयन्पूरितम् । मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥६९॥

पद्मासनस्थितो योगी नाडीद्वारेषु पूरयन् । मारुतं कुम्भयन्यस्तु स मुक्तो नात्र संशयः ॥७०॥

अङ्गानां मर्दनं कृत्वा श्रमजातेन वारिणा । कट्वम्ललवणत्यागी क्षीरपानरतः सुखी ॥७१॥

ब्रह्मचारी मिताहारी योगी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्यां विचारणा ॥७२॥

कन्दोर्ध्वकुण्डली शक्तिः स योगी सिद्धिभाजनम् । अपानप्राणयोरैक्यं क्षयन्मूत्रपुरीषयोः ॥७३॥

युवा भवति वृद्धोऽपि सततं मूलबन्धनात् । पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम् ॥७४॥

अपानमूर्ध्वमुत्कृष्य मूलबन्धोऽयमुच्यते । उड्याणं कुरुते यस्मादविश्रान्तमहाखगः ॥७५॥

उड्डियाणं तदेव स्यात्तत्र बन्धो विधीयते । उदरे पश्चिमं ताणं नाभेरूर्ध्वं तु कारयेत् ॥७६॥

उड्डियाणोऽप्ययं बन्धो मृत्युमातङ्गकेसरी । बध्नाति हि शिरोजातमधोगामिनभोजलम् ॥७७॥

ततो जालन्धरो बन्धः कर्मदुःखौघनाशनः । जालन्धरे कृते बन्धे कर्णसंकोचलक्षणे ॥७८॥

न पीयूषं पतत्यग्नौ न च वायुः प्रधावति । कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ॥७९॥

भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी । न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ॥८०॥

न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् । पीड्यते न च रोगेण लिप्यते न च कर्मणा ॥८१॥

बध्यते न च कालेन यस्य मुद्रस्ति खेचरी । चित्तं चरति खे यस्माज्जिह्वा भवति खेगता ॥८२॥

तेनैषा खेचरी नाम मुद्रा सिद्धनमस्कृता । खेचर्या मुद्रया यस्य विवरं लम्बिकोर्ध्वतः ॥८३॥

बिन्दुः क्षरति नो यस्य कामिन्यालिङ्गितस्य च । यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः ॥८४॥

यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति । गलितोऽपि यदा बिन्दुः संप्राप्तो योनिमण्डले ॥८५॥

व्रजत्यूर्ध्वं हठाच्छक्त्या निबद्धो योनिमुद्रया । स एव द्विविधो बिन्दुः पाण्डरो लोहितस्तथा ॥८६॥

पाण्डरं शुक्रमित्याहुर्लोहिताख्यं महारजः । विद्रुमद्रुमसंकाशं योनिस्थाने स्थितं रजः ॥८७॥

शशिस्थाने वसेद्बिन्दुःस्तयोरैक्यं सुदुर्लभम् । बिन्दुः शिवो रजः शक्तिर्बिन्दुरिन्दू रजो रविः ॥८८॥

उभयओः सङ्गमादेव प्राप्यते परमं वपुः । वायुना शक्तिचालेन प्रेरितं खे यथा रजः ॥८९॥

रविणैकत्वमायाति भवेद्दिव्यं वपुस्तदा । शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् ॥९०॥

द्वयोः समरसीभावं यो जानाति स योगवित् । शोधनं मलजालानां घटनं चन्द्रसूर्ययोः ॥९१॥

रसानां शोषणं सम्यङ्महामुद्राभिधीयते ॥९२॥

वक्षोन्यस्तहनुर्निपीड्य सुषिरं योनेश्च वामाङ्घ्रिणा हस्ताभ्यामनुधारयन्प्रविततं पादं तथा दक्षिणम् ॥

आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनैरेचये- देषा पातकनाशिनी ननु महामुद्रा नृणां प्रोच्यते ॥९३॥

अथात्मनिर्णयं व्याख्यास्ये ॥ हृदिस्थाने अष्टदलपद्मं वर्तते तन्मध्ये रेखावलयं कृत्वा जीवात्मरूपं

ज्योतीरूपमणुमात्रं वर्तते तस्मिन्सर्वं प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्वमेतच्चरितमहं कर्ताऽहं

भोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृशः स्थूलोऽनेन प्रकारेण स्वतन्त्रवादेन वर्तते ॥

पूर्वदले विश्रमते पूर्वं दलं श्वेतवर्णं तदा भक्तिपुरःसरं धर्मे मतिर्भवति ॥

यदाऽग्नेयदले विश्रमते तदाग्नेयदलं रक्तवर्णं तदा निद्रालस्य मतिर्भवति ॥

यदा दक्षिणदले विश्रमते तद्दक्षिणदलं कृष्णवर्णं तदा द्वेषकोपमतिर्भवति ॥

यदा नैरृतदले विश्रमते तन्नैरृतदलं नीलवर्णं तदा पापकर्महिंसामतिर्भवति ॥

यदा पश्चिमदले विश्रमते तत्पश्चिमदलं स्फटिकवर्णं तदा क्रीडाविनोदे मतिर्भवति ॥

यदा वायव्यदले विश्रमते वायव्यदलं माणिक्यवर्णं तदा गमनचलनवैराग्यमतिर्भवति ॥

यदोत्तरदले विश्रमते तदुत्तरदलं पीतवर्णं तदा सुखशृङ्गार- मतिर्भवति ॥

यदेशानदले विश्रमते तदीशानदलं वैडूर्यवर्णं तदा दानादिकृपामतिर्भवति ॥

यदा सन्धिसन्धिषु मतिर्भवति तदा वातपित्तश्लेष्ममहाव्याधि- प्रकोपो भवति ॥

यदा मध्ये तिष्ठति तदा सर्वं जानाति गायति नृत्यति पठत्यानन्दं करोति ॥

यदा नेत्रश्रमो भवति श्रमनिर्भरणार्थं प्रथमरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते प्रथमरेखाबन्धूकपुष्पवर्णं तदा निद्रावस्था भवति ॥

निद्रावस्थामध्ये स्वप्नावस्था भवति ॥ स्वप्नावस्थामध्ये दृष्टं श्रुतमनुमानसंभववार्ता इत्यादिकल्पनां करोति तदादिश्रमो भवति ॥

श्रमनिर्हरणार्थं द्वितीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते द्वितीयरेखा इन्द्रकोपवर्णं तदा सुषुप्त्यवस्था भवति सुषुप्तौ

केवलपरमेश्वरसम्बन्धिनी बुद्दिर्भवति नित्यबोधस्वरूपा भवति पश्चात्परमेश्वर- स्वरूपेण प्राप्तिर्भवति ॥

तृतीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते तृतीयरेखा पद्मरागवर्णं तदा तुरीयावस्था भवति तुरीये केवलपरमात्म- सम्बन्धिनी

भवति नित्यबोधस्वरूपा भवति तदा शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतयात्मसंस्थं मनः कृत्वा न किञ्चिदपि

चिन्तयेत्तदा प्राणापानयोरैक्यं कृत्वा सर्वं विश्वमात्मस्वरूपेण लक्ष्यं धारयति ।

यदा तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति द्वन्द्वातीतो भवति यावद्देहधारणा वर्तते तावत्तिष्ठति

पश्चात्परमात्मस्वरूपेण प्राप्तिर्भवति इत्यनेन प्रकारेण मोक्षो भवतीदमेवात्मदर्शनोपायं भवन्ति ॥

चतुष्पथसमायुक्तमहाद्वारगवायुना । सह स्थितत्रिकोणार्धगमने दृश्यतेऽच्युतः ॥९४॥

पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम् । प्राणादिपञ्चवायुश्च बीजं वर्णं च स्थानकम् ।

यकारं प्राणबीजं च नीलजीमूतसन्निभम् । रकारमग्निबीजं च अपानादित्यसंनिभम् ॥९५॥

लकारं पृथिवीरूपं व्यानं बन्धूकसंनिभम् । वकारं जीवबीजं च उदानं शङ्खवर्णकम् ॥९६॥

हकारं वियत्स्वरूपं च समानं स्फटिकप्रभम् । हृन्नाभिनासाकर्णं च पादाङ्गुष्ठादिसंस्थितम् ॥९७॥

द्विसप्ततिसहस्राणि नाडीमार्गेषु वर्तते । अष्टाविंशतिकोटीषु रोमकूपेषु संस्थिताः ॥९८॥

समानप्राण एकस्तु जीवः स एक एव हि । रेचकादि त्रयं कुर्याद्दृढचित्तः समाहितः ॥९९॥

शनैः समस्तमाकृष्य हृत्सरोरुहकोटरे । प्राणापानौ च बध्वा तु प्रणवेन समुच्चरेत् ॥१००॥

कर्णसङ्कोचनं कृत्वा लिङ्गसङ्कोचनं तथा । मूलाधारात्सुषुम्ना च पद्मतन्तुनिभा शुभा ॥१०१॥

अमूर्तो वर्तते नादो वीणादण्डसमुत्थितः । शङ्खनादिभिश्चैव मध्यमेव ध्वनिर्यथा ॥१०२॥

व्योमरन्ध्रगतो नादो मायूरं नादमेव च । कपालकुहरे मध्ये चतुर्द्वारस्य मध्यमे ॥१०३॥

तदात्मा राजते तत्र यथा व्योम्नि दिवाकरः । कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु शक्तितः ॥१०४॥

स्वात्मानं पुरुषं पश्येन्मनस्तत्र लयं गतम् । रत्नानि ज्योत्स्निनादं तु बिन्दुमाहेश्वरं पदम् ।

य एवं वेद पुरुषः स कैवल्यं समश्नुत इत्युपनिषत् ॥१०५॥ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति ध्यानबिन्दूपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP