॥ कृष्णोपनिषत् ॥
अथर्व वेद,वैष्णव उपनिषद्
॥ श्री गुरुभ्यो नमः हरिः ॐ ॥
यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया ।
अतोषयद्देव्मौनिपटलं तं नतोऽस्म्यहम् ॥१॥
ॐ भद्रं कर्णेभिरिति शान्तिः ।
॥ अथ प्रथम खंडः ॥
हरिः ॐ । श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्र
दृष्ट्वा सर्वाङ्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः ।
तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति ।
भवान्तरे कृष्णावतारे यूयं गोपिका भूत्व मामालिङ्गथ
अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु । अन्योन्यविग्रहं
धार्यं तवाङ्गस्पर्शनादिह । शाश्वतस्पर्शयितास्माकं
गृण्हीमोऽवतारान्वयम् ॥१॥
रुद्रादीनां वचः शृत्वा प्रोवाच भगवान्स्वयम् ।
अङ्गयङ्गं करिष्यामि भवद्वाक्यं करोम्यहम् ॥२॥
मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् ।
यो नन्दः परमानन्दो यशोदो मुक्तिगेहिनी ॥३॥
माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी ।
प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ॥४॥
तामसी दैत्यपक्षेषु माया त्रेधा ह्युदाहृता ।
अजेया वैष्णवी माया जप्येन च सुता पुरा ॥५॥
देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते ।
निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः ॥६॥
स्तुवते सततं यस्तु सोऽवतीर्णो महीतळे ।
वने वृन्दावने क्रीडङ्गोपगोपीसुरैः सह ॥७॥
गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः ।
वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः सगोसुरः ॥८॥
गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः ।
लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः ॥९॥
गोपरूपो हरिः साक्षान्मायाविग्रहधारणः ।
दुर्बोधं कुहकं तस्य मायया मोहितं जगत् ॥१०॥
दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः ।
रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम् ॥११॥
बलं ज्ञानं सुराणां वै तेषां ज्ञानं हृतं क्षणात् ।
शेशनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम् ॥१२॥
अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा ।
ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः ॥१३॥
द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः ।
दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः ॥१४॥
दया सा रोहिणी माता सत्यभामा धरेति वै ।
अघासुरो माहाव्याधिः कलिः कंसः स भूपतिः ॥१५॥
शमो मित्रः सुदामा च सत्याक्रोद्धवो दमः ।
यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरुपो व्यवस्थितः ॥१६॥
दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः ।
दुग्दोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे ॥१७॥
क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ ।
संहारार्थं च शत्रूणां रक्षणाय च संस्थितः ॥१८॥
कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् ।
यत्स्रष्टुमीश्वरेणासीतच्चक्रं ब्रह्मरूपदृक् ॥१९॥
जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः ।
यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः ॥२०॥
कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा ।
चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ॥२१॥
यावन्ति देवरूपाणि वदन्ति विभुधा जनाः ।
नमन्ति देवरूपेभ्य एवमादि न संशयः ॥२२॥
गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी ।
धनुः शार्ङ्गं स्वमायाच शरत्कालः सुभोजनः ॥२३॥
अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया ।
गरुडो वटभाण्डीरः सुदामा नारदो मुनिः ॥२४॥
वृन्दा भक्तिः क्रिया बुद्धीः सर्वजन्तुप्रकाशिनी ।
तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः ।
भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ॥२५॥
॥ इति प्रथम खण्डः ॥
॥ अथ द्वितीयः खण्डः ॥
शेषो ह वै वासुदेवात् संकर्षणो नाम जीव आसीत् ।
सोऽकामयत प्रजाः सृजेयेति ।
ततः प्रद्युम्नसंज्ञक आसीत् ।
तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत ।
तस्मात् दश प्रजापतयो मरीच्याद्याः स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त ।
तेभ्योः सर्वाणि भूतानि च ।
तस्माच्छेषादेव सर्वाणि च भूतानि समुत्पद्यन्ते ।
तस्मिन्नेव प्रलीयन्ते ।
स एव बहुधा जायमानः सर्वान् परिपाति ।
स एव काद्रवेयो व्याकरणज्योतिषादिशास्त्रणि निर्मिमाणो बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन्
शीर्ष्ण सिद्धार्थवदवध्रियमाणः सर्वैर्मुनिभिः संप्रार्थ्यमानः सहस्रशिखराणि मेरोः शिरोभिरावार्यमाणो महावाय्वहंकारं निराचकार ।
स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन रुपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकः
सर्वाणि धानुषशास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधा विप्रीयमानो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान् प्रवर्तयामास ।
स एव भगवान् युगसंधिकाले शारदाभ्रसंनिकाशो रौहिनेयो वासुदेवः सर्वाणि गदाद्यायुधशास्त्राणि व्याचक्षाणो
नैकान् राजन्यमण्डलान्निराचिकीर्षुः भुभारमखिलं निचखान ।
स एव भगवान् युगे तुरियेऽपि ब्रह्मकुले जायमानः सर्व उपनिषदः उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि विस्तारयिष्णुः
सर्वानपि जनान् संतारयिष्णुः सर्वानपि वैष्णवान् धर्मान् विजृम्भयन् सर्वानपि पाषण्डान् निचखान ।
स एष जगदन्तर्यामी ।
स एष सर्वात्मकः ।
स एव मुमुक्षुभिर्ध्येयः ।
स एव मोक्षप्रदः ।
एतं स्मृत्वा सर्वेभ्यः पापेभ्यो मुच्यते ।
तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्छति ।
तदेतद् दिवा अधीयानः रात्रिकृतं पापं नाशयति ।
नक्तमधीयानो दिवसकृतं पापं नाशयति ।
तदेतद्वेदानां रहस्यं तदेतदुपनिषदां रहस्यम् एतदधीयानः सर्वत्रतुफलं लभते शान्तिमेति मनःशुद्धिमेति
सर्वतीर्थफलं लभते य एवं वेद देहबन्धाद्विमुच्यते इत्युपनिषत् ॥
॥ इति द्वितीयः खण्डः ॥
हरिः ॐ तत्सत्
ॐ भद्रं कर्णेभिरिति शान्तिः
॥ इति कृष्णोपनिषत्समाप्ता ॥
॥ भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ॥